July 27, 2019 | aspundir | Leave a comment ॥ सदाशिव प्रासादख्यमन्त्रकवचम् ॥ ॥ श्रीआनन्दभैरव उवाच ॥ शैलजे देवदेवेशि सर्वाम्नायप्रपूजिते । सर्वं मे कथितं देवि कवचं न प्रकाशितम् ॥ १ ॥ प्रासाद्याख्यस्य मन्त्रस्य कवचं मे प्रकाशय । सदाशिवमहादेवभावितं सिद्धिदायकम् ॥ २ ॥ अप्रकाश्यं महामन्त्रं भैरवीभैरवोदयम् । सर्वरक्षाकरं देवि यदि स्नेहोऽस्ति मां प्रति ॥ ३ ॥ ॥ श्रीआनन्दभैरवी उवाच ॥ श्रूयतां भगवन्नाथ महाकाल कुलार्णव । प्रासादमन्त्रकवचं सदाशिवकुलोदयम् ॥ ४ ॥ प्रासादमन्त्रदेवस्य वामदेव ऋषिः स्मृतः । पङ्क्तिश्छन्दश्च देवेशः सदाशिवोऽत्र देवता ॥ ५ ॥ साधकाभीष्टसिद्धौ च विनियोगः प्रकीर्तितः । शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः ॥ ६ ॥ षड्क्षररुपो मे वदनं तु महेश्वरः । अष्टाक्षरशक्तिरुद्धश्चक्षुषी मे सदाऽवतु ॥ ७ ॥ पञ्चाक्षरात्मा भगवान् भुजौ मे परिक्षतु । मृत्युञ्जयस्तिबीजात्मा आयू रक्षतु मे सदा ॥ ८ ॥ वटमूलसमासीनो दक्षिणामूर्तिरव्ययः । सदा मां सर्वतः पातु षटत्रिंशद्वर्णरुपधृक् ॥ ९॥ द्वाविंशार्णात्मको रुद्रः कुक्षिं मे परिरक्षतु । त्रिवर्णाढ्यो नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥ १० ॥ चिन्तामणिर्बीजरुपोऽर्धनारीश्वरो हरः । सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥ ११ ॥ एकाक्षरस्वरुपात्मा कूटव्यापी महेश्वरः । मार्तण्डो भैरवो नित्यं पादौ मे परिरक्षतु ॥ १२ ॥ तुम्बुराख्यो महाबीजस्वरुपस्त्रिपुरान्तकः । सदा मारनभूमौ च रक्षतु त्रिदशाधिपः ॥ १३ ॥ ऊर्ध्वमूर्ध्वानमीशानो मम रक्षतु सर्वदा । दक्षिणास्यं तत्पुरुषोऽवतु मे गिरिनायकः ॥ १४ ॥ अघोराख्यो महादेवः पूर्वास्यं परिक्षतु । वामदेवः पश्चिमास्य सदा मे परिक्षतु ॥ १५ ॥ उत्तरास्यं सदा पातु सद्योजातस्वरुपधृक् । मृत्युजेता सदा पातु जलेऽरण्ये महाभये ॥ १६ ॥ पर्वते विषमस्थाने विषहर्ता सदाऽवतु । कालरुद्रः सदा पातु सर्वाङुं कालदेवता ॥१७॥ कालाग्निरुद्रः सम्पातु महाव्याधिभयादिषु । अकालतारकः पातु खड्गधारी सदाशिवः ॥ १८ ॥ कवची वामदेवश्च सदा पातु महाभये । कालभक्षः पातु रुद्रो रुरुकः क्षेत्रपालकः ॥ १९ ॥ मातृकामण्डलं पातु सम्पूर्णचन्द्रशेखरः । चिरायुः शाकिनीभर्ता चायुषं पातु मे सदा ॥ २० ॥ सिंहस्कन्धः सदा पातु रुद्राणीवल्लभोऽवतु । भालं पातु वज्रदम्भालेखकः क्रान्तिरुपकः ॥ २१ ॥ निरुपकः सदा पातु खेचरीखेचरप्रियः । रत्नमालाधरः पातु रक्तमुखीश्वरोऽवतु ॥ २२ ॥ वदनं चक्षुषी कर्णौ पातु पञ्चाननो मम । वेदध्वनिः सदा पातु नासारन्ध्रद्वयं मम ॥ २३ ॥ कपालधारकः पातु गण्डयुग्मं युगान्तकृत् । रक्तजिहवापतिः पातु ममोष्ठाधरवासिनम् ॥ २४ ॥ दन्तावलियुगं पातु भृगुरामेश्वरः शिवः । तालुमूलं सदा पातु विश्वभोजी रसामृतम् ॥ २५ ॥ जिहवाग्र वाक्पतीशश्च भवानीशः शिवो मम । मुखवृत्तं सदा पातु महासेनः कवीश्वरः ॥२६॥ क्रोधनाथः सदा पातु दक्षहस्तादिमूलकम् । दक्षकूर्परमापातु तदग्रं कुक्कुरेश्वरः ॥ २७ ॥ चिरजीवी सदा पातु चाङ्गुलीमूलदेशकम् । अङ्गुल्यग्रं सदा ब्रह्मा ब्रह्मालिङुधरः प्रभुः ॥ २८ ॥ विद्यापतिः पार्वतीशो वामहस्तादिमूलकम् । पातु वामकूर्परं मे वामकेश्वर ईश्वरः ॥ २९ ॥ कुण्डवासी सदा पातु कूर्पराग्रं कुलाचलः । वेदमातृपतिः पातु कामधेनुपतिः प्रभु ॥ ३० ॥ ममाङ्गुलीमूलदेश्म पातु पञ्चमुखो मम । वामाङ्गुल्यग्रभागं मे पातु पर्वतपूजितः ॥ ३१ ॥ तनुमूलाग्रभागं मे कूर्मचक्रधरः प्रभुः । शाकिनीवल्लभः पातु दक्षाङ्घ्रिमध्यदेशकम् ॥ ३२ ॥ गुल्फाग्रं गर्गरीनाथः पादाग्रं मूलदेवता । अभयावल्लभः पातु दक्षाङ्गुल्यग्रभाकम् ॥ ३३ ॥ पातु स्मरहरो योगी वामोरुमूलदेशकम् । वामपादमध्यदेश्म मध्यदेशेश्वरोऽवतु ॥ ३४ ॥ पातु मे भगवाञ्छम्भुर्मम गुल्फाग्रदेशकम् । मूलदेशं वामपादं पातु मेऽङुगुष्ठमूलकम् ॥ ३५ ॥ कारणात्मा नीलकण्ठः प्रभाधारी यमान्तकः । अङ्गुष्ठाग्रं सदा पातु सुषुम्नानाडिकेश्वरः ॥ ३६ ॥ महारुद्रेश्वरः पातु मम नाभिमनोभवम् । उदरं गगनाधारः कामहर्ता ह्रदम्बुजम् ॥ ३७ ॥ सर्वानन्दात्मकः पातु मम स्कन्धयुगं शिवः । ह्रदयाद् दक्षहस्ताग्रपर्यन्तं पातु शोकहा ॥ ३८ ॥ ह्रदयाद् वामहस्ताग्रपर्यन्तं परमेश्वरः । ह्रदयान्मम दक्षाङिघ्रनखान्तं मे शिवोऽवतु ॥ ३९ ॥ सदानन्दा सदा पातु ह्रदाद्यङ्घ्रिं तु उन्मदः । वासुकीवल्लभः पातु ह्रदादिगुददेशकम् ॥ ४० ॥ अनन्तनाथ आपातु ह्रदादिमूर्धदेशकम् । व्यापकः सर्वदा पातु सदाशिव उमापतिः ॥ ४१ ॥ तारात्मकः कयसिद्धः शक्तीशः शुक्रदेवता । पञ्चचूडः सदा पातु पञ्चतत्त्वाङुरुपकम् ॥ ४२ ॥ शीर्षादिपादपर्यन्तं कामधेनुः सदाऽवतु । जलेऽरण्ये घोरवने सङ्कटे च महापथे ॥ ४३ ॥ प्रान्तरे पातु गुप्ताक्षः कामराजः परापरः । अर्धनारीश्वरः पातु मातृकापरमेश्वरः ॥ ४४ ॥ मातृकामन्त्रपुटितः स्वस्वस्थानं सदावतु । धर्मात्म धर्मसन्धि मे पिङुला पातु चण्डिकाम् ॥ ४५ ॥ विहवलः सर्वदा पातु भोलानाथः सदाऽवतु । सर्वदेशे सर्वपीठे कामरुपे विशेषतः ॥ ४६ ॥ सर्वदा योगिनीनाथः परमात्मा सदाऽवतु । कामरुपाख्यपीठादि पञ्चाशत् पीठदेवताः ॥ ४७ ॥ पञ्चाशत्पीठमाया तु कामरुपं सदाशिवः । भवो रुद्रो महेशश्च शङ्करो मन्मथान्तकः ॥ ४८ ॥ गुह्यकेशः पापहर्ता कपाली शूलधारकः । पञ्चवक्त्रो दशभुजो भुजङुभूषणो हरः ॥ ४९ ॥ महाकालो महारुद्रो महावीरो हदि स्थितः । महादेवो महागुह्यो महामाया महागुणः ॥ ५० ॥ पशुपर्तिर्विरुपक्षो हरीशो धवलेश्वरः । वटुकोशः क्रमाचार्यः पञ्चशूली हदुद्भवः ॥ ५१ ॥ उन्मनीश साहसिकः पराख्यः पर्वतेश्वरः । सर्वात्मा च महात्मा च शिवात्मा च श्मशानगः ॥ ५२ ॥ क्रोधवीरः कालकारी सूक्ष्मधर्मा धुरन्धरः । श्यामकः क्रूरहर्ता च गणेशः कालमाघवः ॥ ५३ ॥ ज्ञानात्मा कपिलात्मा च सिद्धात्मा योगिनीपतिः । कोटिसूर्यप्रतीकाश एकपञ्चाशदीश्वराः ॥ ५४ ॥ सदा पान्तु मातृकस्थाः स्थितिसर्गलयात्मकाः । आदिपीठं कामरुपं काञ्चीपीठं तदन्तिके ॥ ५५ ॥ अयोध्यापीठनगरं तदूर्ध्वे जालकन्धरम् । जालन्धरं तदूर्ध्वे तु सिद्धपीठं तदन्तिके ॥ ५६ ॥ कालीपीठं तदूर्ध्वे तु चण्डिकापीठमग्रके । अष्टपुरीमहपीठं कण्ठदेशं सदाशिवः ॥ ५७ ॥ सदा पातु महावीरः कालधर्मी परात्परः । मधुपुरीमहापीठं चाष्टपुरान्तरस्थितम् ॥ ५८ ॥ मायावतीमहापीठं तदूर्ध्वे परिकीर्तितम् । वारानसीमहापीठं धर्मपीठं तदन्तिके ॥ ५९ ॥ ज्वालामुखीमहापीठं तदन्तःस्थं प्रकीर्तितम् । तदूर्ध्वे च महापीठं ज्वलन्तीपीठमेव च ॥ ६०॥ तदूर्ध्वे पूणगिर्याख्यं कुरुक्षेत्रं तदन्तिके । उड्डियानं तदूर्ध्वे तु कमलापीठमेव च ॥ ६१ ॥ हरिद्वारं महापीठं बदरीपीठमेव च । व्यासपीठं नारदाख्यं तदूर्ध्वे वाडवानलम् ॥ ६२ ॥ हिङ्गुलादं तदूर्ध्वे तु लङ्कापीठं तदूर्ध्वके । तदूर्ध्वे शारदापीठं रतिपीठं तदूर्ध्वके ॥ ६३ ॥ लिङुपीठं कलापीठं द्वारकापीठमेव च । कपालपीठं हर्याख्ये वरदापीठमुत्तरे ॥ ६४ ॥ कालीपीठं तदूर्ध्वे तु तारापीठं तदूर्ध्वके । उग्रतारामहापीठं महोग्रापीठमेव च ॥ ६५ ॥ नीलसरस्वतीपीठं जरापीठं तदूर्ध्वके । तदूर्ध्वे तारिणीपीठं सहस्रदलमध्यके । कर्त्रीपीठं तदूर्ध्वे च देवीपीठं तदूर्ध्वके ॥ ६७ ॥ राजराजेश्वरीपीठं षोडशीपीठमेव च । सहस्रदलमध्ये तु सहस्रपीठमेव च ॥ ६८ ॥ मध्ये एकजटापीठं कर्त्रीतीरकलोपरि । षोडशीमुखविद्याभिर्वेष्टिता तारिणीकला ॥ ६९ ॥ काली नीला महाविद्या त्वरिता छिन्नमस्तका । वाग्वादिनी चान्नपूर्णा देवी प्रत्यङिरा पुनः ॥ ७० ॥ कामाख्या वासली बाला मातङी शैलवासिनी । षोडशी भुवनेशानी भैरवी बगलामुखी ॥ ७१ ॥ धूमावती वेदमाता हरसिद्धा च दक्षिणा । एता विद्या महाविद्याः शिवसेवनशोभिताः ॥ ७२ ॥ द्वाविंशतिमहाविद्या द्वारं द्वाविंशतिस्थलम् । महापीठे सहस्त्रारे सर्वदा पान्तु मां कलाः ॥ ७३ ॥ सदाशिवः शक्तियुक्तः पातु चण्डेश्वरो हरः । पञ्चामराधरः पातु देवीनाथः सदाऽवतु ॥ ७४ ॥ पार्वतीप्राणनाथो मे सर्वाङो पातु सर्वदा । अघोरनाथ ईशानो वरदो मदनात्नकः ॥ ७५ ॥ यज्ञहर्ता दक्षखण्डो वीरभद्रो दिगम्बरः । अष्टादशभुजो रौद्रो नीलपङ्कलोचनः ॥ ७६ ॥ त्रिलोचनः कालकामो महारुद्रो गणेश्वरः । काकिनीवल्लभः शूली योगकर्ता महेश्वरः ॥ ७७ ॥ वागीश्वरः स्मरहरो महामन्त्रो हलायुधः । श्रीनाथः पूजितो बालो बालेन्द्रो बलवाहनः ॥ ७८ ॥ बलरामः कृष्णरामो गोविन्दो माधवीश्वरः । जितामित्रेश्वरश्चूडामणीशो मानदः सुखी ॥ ७९ ॥ मुखं वृन्दावनं पातु षड्दलाम्भोरुहस्थितम् । वैष्णवीवल्लभः पातु ब्रह्माणं कुलकुण्डली ॥ ८० ॥ विष्णुनाथः सदा पातु ब्रह्माग्निं गरुडध्वजः । ज्वालामालाधरः पातु कालानलधरोऽवतु ॥ ८१ ॥ काकिनीवल्लभः पातु ईश्वरो भैरवेश्वरः । महारुद्रो नीलकण्ठो मणिपूरं सुलाकिनीम् ॥ ८२ ॥ सदा पातु मणिगृहं रुद्राणीप्रियावल्लभः । महारुद्रो नीलकण्ठो महाविष्णु सदावतु ॥ ८३ ॥ राकिणीं विष्णुलक्ष्मीं च पातु मे वैष्णवीं कलाम् । सदाशिवो नीलकण्ठो मम पातु ह्रदि स्थलम् ॥ ८४ ॥ ईश्वरं परमात्मानं मम रक्षतु शाकिनीम् । सदाशिवं सदा पातु द्विदलस्थोऽपरो हरः ॥ ८५ ॥ हाकिनीशक्तितः पातु सहस्रारं शिवोऽवतु । तारानाथविधिः पातु सहस्रारनिवासिनीम् ॥ ८६ ॥ महाकाशं सदा पातु तदधो वायुमण्डलम् । वहिनमण्डलमापातु तदधः शाकिनीश्वरः ॥ ८७ ॥ तदात्मकः सदा पातु कीलालं कौलदेवता । पृथिवीं पार्थिवः पातु सर्वदैकं सदाशिवः ॥ ८८ ॥ इत्थं रक्षाकरं नाथ कवचं देवदुर्लभम् । प्रातःकाले पठेद्यस्तु सोऽभीष्टं फलमाप्नुयात् ॥८९ ॥ पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः । कीर्तिश्रीकान्तिमेधायुर्बृंहितो भवति ध्रुवम् ॥ ९० ॥ अप्रकाश्यं महावीरकवचं सर्वसिद्धिदम् । ज्ञानमात्रेण भूर्लोके जेता कालस्य योगिराट् ॥ ९१ ॥ अस्य धारणमात्रेण कालसूत्रान्तको भवेत् । अस्य धारणपाठेन सर्वज्ञो भवति ध्रुवम् ॥ ९२ ॥ सर्वे व्यासवशिष्ठादिमहासिद्धाश्च योगिनः । पठित्वा धारयित्वा ते प्रधानास्तत्त्वचिन्तकाः ॥ ९३ ॥ कण्ठे यो धारयेदेतत् कवचं त्वत्स्वरूपकम् । मद्वक्त्राम्भोरुहोद्भूतं विद्यावाक्सिद्धिदायकम् ॥ ९४ ॥ युद्धे विजयमाप्नोति द्यूते वादे च साधकः । कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥ ९५ ॥ देवा मनुष्या गन्धर्वास्तस्य वश्या न संशयः । कवचं शिरसा यस्तु धारयेद् यतमानसः ॥ ९६ ॥ करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः । भूर्जपत्रे त्विमां विद्यां शुक्लपट्टेन वेष्टिताम् ॥ ९७ ॥ रजतोदरसंविष्टां कृत्वा च धारयेत् सुधीः । संप्राप्य महतीं लक्ष्मीमन्ते तव शरीरधृक् ॥ ९८ ॥ यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन । शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ ९९ ॥ योगिने ज्ञानयुक्ताय देयं धर्मात्मने सदा । अन्यथा सिद्धिहानिः स्यात्सत्यं सत्यं न संशयः ॥ १०० ॥ तव स्नेहान्महादेव कथितं कवचं शुभम् । न देयं कवचं सिद्धं यदीच्छेदात्मनो हितम् ॥ १०१ ॥ यदि भाग्यफलेनापि कवचं यदि लभ्यते । धूर्तो वा कपटी वापि खलो वा दुर्ग्रहस्थितः ॥ १०२ ॥ निजकर्मफलत्यागमवश्यं खलु कारयेत् । तदा सिद्धिमवाप्नोति धर्मधाराधरो भवेत् ॥ १०३ ॥ सिद्धिपूजाफलं तस्य दिवसे दिवसे सुधीः । धूर्ततां खलतां मिथ्यां कापट्यं स विहाय च ॥ १०४ ॥ राजराजेश्वरो भूत्वा जीवन्मुक्तो न संशयः । योऽर्चयेद् गन्धपुष्पाद्यैः कवचं मन्मुखोदितम् ॥ १०५ ॥ तेनार्चिता महादेव सर्वदेवा न संशयः । राजसिकं मानसिकं तामसिकं परन्तपः ॥ १०६ ॥ हृद्ये मानसिकं ध्यायन् पूजा राजसिकं स्मृतम् । तामसिकं लोकमध्ये कवचार्चा त्रिधा मता ॥ १०७ ॥ सिद्धकवचमाख्यातं केवलं ज्ञानसिद्धये । मोक्षाय जगतां शम्भोः प्रियाय परमेश्वर ॥ १०८ ॥ तन्त्रेऽस्मिन् सारसङ्केतं पूजाऽप्यारोपणादिकम् । अन्तःकरणमध्ये तु सर्वकार्यमुदीरयेत् ॥ १०९ ॥ राज्ये च प्रपठेत् स्तोत्रं कवचं ज्ञानसिद्धये । इति ते कथितं नाथ परमात्मनि मङ्गलम् ॥ ११० ॥ यस्याराधनमात्रेण शिवत्वमुत किं प्रभो ॥ १११ ॥ ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे सदाशिवकवचपाठो नाम चतुःसप्ततितमः पटलः ॥ हे देवि ! यह देवदुर्लभ रक्षाकर कवच है । जो प्रातःकाल इसका पाठ करता है वह अभीष्ट फल प्राप्त करता है । जो श्रेष्ठ साधक पूजाकाल में इसका पाठ करता है वह निश्चित रूप से कीर्ति, श्री, कान्ति, मेधा तथा आयु प्राप्त करता है। जो मेरे स्वरूप के तुल्य इस कवच को कण्ठ में धारण करता है वह युद्ध में, द्यूत में, तथा वाद-विद में जय प्राप्त करता है। जो साधक दाहिने हाथ में इसे धारण करता है उसके वश में देवता, गन्धर्व तथा मनुष्य सभी हो जाते हैं। जो मन को एकाग्र करके कवच को शिर में धारण करता है उसको हे देवेशि ! अणिमा आदि आठों सिद्धियाँ हस्तगत हो जाती है । जो भोजपत्र पर इस विद्या को लिख कर सफेद कपडे में बाँध कर चाँदी की ताबीज में रखकर धारण करता हे वह बहुत बड़ी समृद्धि को प्राप्त कर अन्त में मेरे देहरूप का भागी बन जाता है। इसे जिस किसी को नहीं देना चाहिये । जो शिष्य भक्तियुक्त और साधक हो उसे बताना चाहिये अन्यथा सिद्धिहानि होती है। हे मनोरमे, यह सत्य है । तुम्हारे स्नेहवश ही हे महादेवि, मैने इस शुभ कवच को तुम्हें बताया है । हे भद्दे, यदि अपना हित चाहे तो इसे किसी को न देवे । जो मनुष्य मेरे द्वारा कथित इस कवच की गन्ध और पुष्पादि से पूजा करता है उसने, हे महादेवि, सभी देवताओं की पूजा कर ली है, इसमें कोई संशय नहीं है । See Also :- अभीष्ट फल-दायक सदा-शिव-कवच Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe