सर्वरक्षाकर श्रीराधाकवचम् ॥ सर्वरक्षाकर श्रीराधाकवचम् ॥ इस कवच को हल्दी, गोरोचन, केसर, हरिचन्दन से भोजपत्र पर लिखकर (श्लोक ९ – २१) धारण करने से अभीष्ट सिद्धि होती है । ॥ श्रीपार्वत्युवाच ॥ कैलासवासिन् भगवन् भक्तानुग्रह-कारक । राधिका-कवचं पुण्यं कथयस्व मम प्रभो ॥ १ ॥ यद्यस्ति करुणा-नाथ त्राहि मां दुःखतो भयात् । त्वमेव शरणं नाथ शूल-पाणे पिनाक-धृक् ॥… Read More
श्रीराधा भक्तिज्ञान कवचम् ॥ अथ श्रीराधा भक्तिज्ञान कवचम् ॥ कवच की महिमा तथा राधा अष्टाक्षर व नवाक्षर मंत्र का फल बताते हुए कहा कि ब्रह्मा, धर्मराज, नरनारायण, कामदेव, अग्नि, वायु, शेष कूर्मादि ने अपना अपना यथेष्ट सिद्ध किया । महर्षि दधीचि ने कवच तथा राधा मन्त्र — “ॐ श्रीं ह्रीं क्लीं ऐं रां राधिकायै स्वाहा ।” के प्रभाव… Read More
श्रीराधाकवचस्तोत्रम् ब्रह्मयामले ॥ श्रीराधाकवचस्तोत्रम् ॥ ॥ श्रीपार्वत्युवाच ॥ ॐ देवदेव महादेव परमप्रीतिदायक । राधायाः कवचं देव कथय प्राणवल्लभ ॥ १ ॥ ॥ श्रीमहादेवौवाच ॥ साधु साधु महादेवि भद्रं भद्रं सुमङ्गलम् । प्रेमभावान्वितायाश्च राधायाः कवचं परम् ॥ २ ॥ श्यामप्रेमविलासन्या गोपिन्या प्रेमसागरे । मग्नायाः कवचं देवि कथयामि शृणुष्व तत् ॥ ३ ॥ ऋषिर्नारायणः प्रोक्तो गायत्री छन्द इत्यपि ।… Read More
राधाकृष्ण उपासनायां विविध न्यासाः ॥ राधाकृष्ण उपासनायां विविध न्यासाः ॥ राधाकृष्ण की उपासना में दुर्गा व दशमहाविद्याओं की तरह प्रणव, मातृका,नक्षत्रादि न्यास करने चाहिये । केशव एवं श्रीकण्ठादि न्यास तथा निम्न न्यास दैनिक पूजन समय अपने शरीर में करे अथवा पर्वादि के दिन करे । मूर्ति प्रतिष्ठा में भी ये न्यास देवमूर्ति में करने चाहिये । ॥ प्रणव न्यास… Read More
युगलसरकार-प्रार्थना ॥ युगलसरकार-प्रार्थना ॥ सारसागरानाथौ पुत्रमित्रगृहाकुलात् । गोप्तारौ मे युवामेव प्रपन्नभयभञ्जनौ ॥ योऽहं ममास्ति यत्किञ्चिदिह लोके परत्र च । तत् सर्वं भवतोरद्य चरणेषु समर्पितम् ॥ अहमस्म्यपराधानामालयस्त्यक्तसाधनः । अगतिश्च ततो नाथौ भवन्तावेव मे गतिः ॥… Read More
ब्रह्मणा कृतं श्रीराधास्तोत्रम् ॥ ब्रह्मणा कृतं श्रीराधास्तोत्रम् ॥ ॥ ब्रह्मोवाच ॥ हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः ॥ १ ॥ सुदुर्लभं च सर्वेषां भारते च विशेषतः । षष्टिवर्षसहस्राणि तपस्तप्तं पुरा मया ॥ २ ॥ भास्करे पुष्करे तिर्थे कृष्णस्य परमात्मनः । आजगाम वरं दातुं वरदाता हरिः स्वयम् ॥ ३ ॥ वरंवृणीष्वेत्युक्ते च स्वाभिष्टं च वृतं मुदा । राधिकाचरणाम्भोजं सर्वेषामपि दुर्लभम् ॥… Read More
श्रीराधास्तोत्रं उद्धवकृतम् ॥ श्रीराधास्तोत्रं उद्धवकृतम् ॥ ॥ अथ उद्धवकृतं श्रीराधास्तोत्रम्॥ ॥ उद्धव उवाच ॥ वन्दे राधापदाम्भोजं ब्रह्मादिसुरवन्दितम् । यत्कीर्तिकीर्तनेनैव पुनाति भुवनत्रयम् ॥ १ ॥ नमो गोकुलवासिन्यै राधिकायै नमो नमः । शतशृङ्गनिवासिन्यै चन्द्रावत्यै नमो नमः ॥ २ ॥ तुलसीवनवासिन्यै वृन्दारण्यै नमो नमः । रासमण्डलवासिन्यै रासेश्वर्यै नमो नमः ॥ ३ ॥ विरजातीरवासिन्यै वृन्दायै च नमो नमः । वृन्दावनविलासिन्यै कृष्णायै… Read More
श्रीराधास्तवनम् गणेशकृतम् ॥ श्रीराधास्तवनम् गणेशकृतम् ॥ ॥ श्रीगणेश उवाच ॥ तव पूजा जगन्मातर्लोकशिक्षाकरी शुभे। ब्रह्मस्वरूपा भवती कृष्णवक्षःस्थलस्थिता ॥ १ ॥ यत्पादपद्ममतुतलं ध्यायन्ते ते सुदुर्लभम् । सुरा ब्रह्मेशशेषाद्या मुनीन्द्राः सनकादयः ॥ २ ॥ जिवन्मुक्ताश्च भक्ताश्च सिद्धेन्द्राः कपिलादयः । तस्य प्राणाधिदेवि त्वं प्रिया प्राणाधिका परा ॥ ३ ॥… Read More
श्रीनारायणकृतं राधाषोडशनामवर्णनम् ॥ श्रीनारायणकृतं राधाषोडशनामवर्णनम् ॥ ॥ श्रीनारायण उवाच ॥ राधा रासेश्वरी रासवासिनी रसिकेश्वरी । कृष्णप्राणाधिका कृष्णप्रिया कृष्णस्वरूपिणी ॥ १ ॥ कृष्णवामाङ्गसम्भूता परमान्दरूपिणी । कृष्णा वृन्दावनी वृन्दा वृन्दावनविनोदिनी ॥ २ ॥ चन्द्रावली चन्द्रकान्ता शतचन्द्रप्रभानना । नामान्येतानि साराणि तेषामभ्यन्तराणि च ॥ ३ ॥… Read More
श्रीराधाप्रार्थना उद्धवकृता ॥ श्रीराधाप्रार्थना उद्धवकृता ॥ ॥ उद्धव उवाच ॥ चेतनं कुरु कल्याणि जगन्मातर्नमोऽस्तु ते । त्वमेव प्राक्तनं सर्वं कृष्णं द्रक्ष्यसि साम्प्रतम् ॥ १ ॥ त्वत्तो विश्वं पवित्रं च त्वत्पादरजसा मही । सुपवित्रं त्वद्वदनं पुण्यवत्यश्च गोपिकाः ॥ २ ॥… Read More