॥ हेरम्बोपनिषत् ॥ ॐ सहनाववतु । ॐ शान्तिः शान्तिः शान्तिः ॥ अथातो हेरम्बोपनिषदं व्याख्यास्यामः । गौरी सा सर्वमङ्गला सर्वज्ञं परिसमेत्योवाच । अधीहि भगवन्नात्मविद्यां प्रशस्तां यया जन्तुर्मुच्यते मायया च । यतो दुःखाद्विमुक्तो याति लोकं परं शुभ्रं केवलं सात्विकं च ॥ १॥… Read More


॥ अथर्ववेदीया श्रीकृष्णोपनिषत् ॥ श्रीकृष्ण परिकररूप में देवी देवताओं का अवतरण, श्रीकृष्ण से उनकी एकरूपता “हरिः ॐ श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं दृष्ट्वा सर्वाङ्गसुन्दर मुनयो वनवासिनो विस्मिता बभूवः । तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिङ्गामो भवन्तमिति । भवान्तरे कृष्णावतारे यूयं गोपिका भूत्वा मामालिङ्गथ अन्ये येऽवतारास्ते हि गोपा नः स्त्रीश्च नो करु । अन्योऽन्यविग्रहं धार्यं तवाङ्गस्पर्शनादिह । शश्वत्स्पर्शयितास्माकं गृह्णीमोऽवतारान्वयम् ॥… Read More


॥ अथर्गुह्योपनिषत् ॥ यथोर्णनाभिः सूत्राणि सृजत्यपि गिलत्यपि । यथा पृथिव्यामौषध्यः संभवन्ति गरन्त्यपि ॥ १ ॥ पुरुषात् केशलोमानि जायन्ते च क्षरन्त्यपि । उत्पद्यन्ते विलीयन्ते तथा तस्यां जगन्त्यपि ॥ २ ॥ ज्वलतः पावकात् यद्वत् स्फुलिङ्गाः कोटिकोटिशः । निर्गत्य च विनश्यति विश्वं तस्यास्तथा प्रिये ॥ ३ ॥… Read More


॥ कालीमेधादीक्षितोपनिषत् ॥ अथाह वै देवानां पत्नीं भजते । तस्योपासकोऽन्यां गच्छन् ॐ अथैनां मेधादीक्षितरूपिणीं भावयेत् । स शिवो भवेत्, स कालीरूपो भवेत् । सोऽयं मेधास्पर्शमणिकालीं दीक्षयेत् । ततश्चिन्तामणिकालीं दीक्षयेत् । ततः सिद्धकाल्यधिकारी भवेत् । विद्याराज्ञीं जपेत् । ततः कामकलाकालीं परारूपिणीं जपेत् ।… Read More


॥ कालिकोपनिषत् ॥ अथ हैनां ब्रह्मरन्ध्रे ब्रह्मस्वरूपिणीमाप्नोति सुभगां कामरेफेन्दिरां समष्टिरूपिणीमादौ तदन्वकर्तुर्बीजद्वयकूर्चबीजं तद्धोमषष्ठस्वरबिन्दुमेलनरूपं तदनु भुवना द्वयभुवना तु व्योमज्वलनेन्दिराशून्यमेलनरूपा दक्षिणे कालिके वेत्यभिमुखं गता तदनु बीजसप्तकमुच्चार्य बृहद्भानुजायामुच्चरेत् । अयं सर्वमन्त्रोत्तमोत्तमं सकृज्जपन् स तु विश्वेश्वरः, स तु नारीश्वरः, स तु वेदेश्वरः, स सर्वगुरुः, सर्वनमस्यः, सर्वेषु वेदेष्वधिश्रितो भवति । स सर्वेषु तीर्थेषु स्नातो भवति, सर्वेषु यज्ञेषु दीक्षितो भवति, स स्वयं… Read More


॥ कालिकोपनिषत् ॥ ॐ अथैनं ब्रह्मरन्ध्र ब्रह्मरूपिणीमाप्नोति । सुभगां त्रिगुणितां मुक्तासुभगां कामरेफेन्दिरासमस्तरूपिणीमेतानि त्रिगुणितानि तदतु कूर्चबीजं व्योमषष्ठस्वरां बिन्दुमेलनरूपां तद्द्वयं मायाद्वयं दक्षिणे कालिके चेत्यभिमुखगतां तदनु बीजसप्तकमुच्चार्य बृहद्भानुजायामुच्चरेत् । स तु शिवमयो भवेत् । सर्वसिद्धीश्वरो भवेत् । गतिस्तस्यास्तीति । नान्यस्य गतिरस्तीति । स तु वागीश्वरः । स तु नारीश्वरः । स तु देवेश्वरः । स तु सर्वेश्वरः ।… Read More


॥ गुह्यकाल्युपनिषत् ॥ अथर्ववेदमध्ये तु शाखा मुख्यतमा हि षट् । स्वयंभुवा याः कथिताः पुत्रायाथर्वणं प्रति ॥ १ ॥ तासु गुह्योपनिषदस्तिष्ठन्ति वरवर्णिनि । नामानि शृणु शाखानां तत्राद्या वारतन्तवी ॥ २ ॥ मौञ्जायनी द्वितीया तु तृतीया तार्णवैन्दवी । चतुर्थी शौनकी प्रोक्ता पञ्चमी पैप्पलादिका ॥ ३ ॥… Read More


॥ अथर्ववेदीया श्रीराधिकातापनीयोपनिषत् ॥ [ श्रुतियों द्वारा श्रीराधिकाजी की अपरिमित महिमा की प्रतिपादक स्तुति] “ब्रह्मवादिनो वदन्ति, कस्माद्राधिकामुपासते आदित्योऽभ्यद्रवत् ॥ १ ॥ श्रुतय ऊचुः— सर्वाणि राधिकाया दैवतानि सर्वाणि भूतानि राधिकायास्तां नमामः ॥ २ ॥ देवतायतनानि कम्पन्ते राधाया हसन्ति नृत्यन्ति च सर्वाणि राधादैवतानि । सर्वपापक्षयायेति व्याहृतिभिर्हुत्वाथ राधिकायै नमामः ॥ ३ ॥ भासा यस्याः कृष्णदेहोऽपि गौरो जायते देवस्येन्द्रनीलप्रभस्य… Read More


॥ ऋग्वेदीया श्रीराधोपनिषत् ॥ [ भगवत्स्वरूपा श्रीराधिकाजी की महिमा तथा उनका स्वरूप ] “ओमथोर्ध्व मन्थिन ऋषयः सनकाद्या भगवन्तं हिरण्यगर्भमुपासित्वोचुः देव कः परमो देवः, का वा तच्छक्तयः, तासु च का वरीयसी भवतीति सृष्टिहेतुभूता च केति । स होवाच — हे पुत्रकाः शृणुतेदं ह वाव गुह्याद् गुह्यतरमप्रकाश्यं यस्मै कस्मै न देयम् । स्निग्धाय ब्रह्मवादिने गुरुभक्ताय देयमन्यथा दातुर्महदघम्भवतीति… Read More


॥ राधोपनिषत् ॥ प्रथमः प्रपाठकः ॐ अथ सुषुप्तौ रामः स्वबोधमाधायेव किं मे देवः ? क्वासौ कृष्णो योऽयं मम भ्रातेति ? तस्य का निष्ठा ब्रूहीति । सा वै ह्युवाच । राम शृणु-भूर्भुवः स्वर्महर्जनस्तपः सत्यं तलं वितलं सुतलं रसातलं तलातलं महातलं पातालं एवं पञ्चाशत्कोटियोजनं बहुलं स्वर्णाण्डं ब्रह्माण्डमिति अनन्तकोटिब्रह्माण्डानामुपरि कारणजलोपरि महाविष्णोर्नित्यं स्थानं वैकुण्ठः ।… Read More