October 29, 2015 | aspundir | Leave a comment बगलामुखी ब्रह्मास्त्र कवचम् इस कवच में प्रयुक्त मंत्र के जप एवं सम्पुटित दुर्गा पाठ कराने पर शत्रुनाश, प्रेतदोषशमन, आर्थिक उन्नति आदि के सफल प्रयोग किये जा सकते हैं । षट्त्रिंशतात्मक (३६ अक्षर) मंत्र के विकल्प में इस मंत्र में मंत्रोच्चारण या ध्यान समय त्रुटि की सम्भावना भी नहीं रहती है । कैलासाचलमधऽयगं पुरवहं शान्तं त्रिनेत्रं शिवम् । वामस्था गिरिजा प्रणम्य कवचं भूतिप्रदं पृच्छति ।। देवी श्रीबगलामुखी रिपुकुलारण्याग्निरुपा च या । तस्याशऽचापविमुक्त-मन्त्र-सहितं प्रीत्याधुना ब्रुहिमाम् ।। १ ।। ।। श्री शंकर उवाच ।। देवी श्री भववल्लभे श्रृणु महामन्त्रं विभूतिप्रदम् । देव्या वर्मयुतं समस्त-सुखदं साम्राज्यदं मुक्तिदम् ।। तारं रुद्रवधू विरिञ्चिमहिला विष्णुप्रिया कामयुक् । कान्ते श्रीबगलानने मम रिपून् नाशय युग्मं त्वति ।। २ ।। ऐश्वर्याणि पदं च देहि युगलं शीघ्रं मनोवाञ्छितं । कार्यं साधय युग्मयुच्छिववधूवह्निप्रियान्तो मनुः ।। कंसारेस्तनयं च बीजमपरा शक्तिश्च वाणी तथा । कीलं श्रीमति भैरवर्षि-सहितं छन्दो विराट्संयुतम् ।। ३ ।। स्वेष्टार्थस्य परस्य वेति नितरां कार्यस्य सम्प्राप्तये । नानाऽसाध्यमहागदस्य नियतं नाशाय वीर्याप्तये ।। ध्यात्वा श्रीबगलाननां मनुवरं जप्त्वा सहस्राख्यकम् । दीर्घैः षट्कयुतैश्च रुद्रमहिलाबीजैर्विन्यस्यांगके ।। ४ ।। ।। ध्यानम् ।। सौवर्णासन-संस्थितां त्रिनयनांपीतांशुकोल्लासिनीम् । हेमाभांगरुचिं शशांक-मुकुटांसच्चम्पकस्रग्युताम् ।। हस्तैर्मुद्गरपाशवज्ररसनाः संबिभ्रतीं भूषणैः । व्याप्तांगीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयेत् ।। विनियोगः- ॐ अस्य श्रीबगलामुखी ब्रह्मास्त्र-मन्त्र-कवचस्य भैरव ऋषिः, विराट् छन्दः, श्रीबगलामुखी देवता, क्लीं बीजम्, ऐं शक्तिः, श्रीं कीलकं, मम (परस्य) च मनोभिलषितेष्टकार्य सिद्धये विनियोगः । ऋष्यादि-न्यासः- भैरव ऋषये नमः शिरसि, विराट् छन्दसे नमः मुखे, श्रीबगलामुखी देवतायै नमः हृदि, क्लीं बीजाय नमः गुह्ये, ऐं शक्तये नमः पादयोः, श्रीं कीलकाय नमः नाभौ, मम (परस्य) च मनोभिलषितेष्टकार्य सिद्धये विनियोगाय नमः सर्वांगे । षडङ्ग-न्यास कर-न्यास अंग-न्यास ह्रां अंगुष्ठाभ्यां नमः हृदयाय नमः ह्रीं तर्जनीभ्यां नमः शिरसे स्वाहा ह्रूं मध्यमाभ्यां नमः शिखायै वषट् ह्रैं अनामिकाभ्यां नमः कवचाय हुं ह्रौं कनिष्ठिकाभ्यां नमः नेत्र-त्रयाय वौषट् ह्रः करतल-कर-पृष्ठाभ्यां नमः अस्त्राय फट् मन्त्रोद्धारः- ॐ ह्रीं ऐं श्रीं क्लीं श्रीबगलानने मम रिपून् नाशय नाशय, ममैश्वर्याणि देहि देहि शीघ्रं मनोवाञ्छितं कार्यं साधय साधय ह्रीं स्वाहा । ।। कवच-पाठ ।। शिरो मे पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् । सम्बोधन-पदं पातु नेत्रे श्रीबगलानने ।। १ श्रुतौ मम रिपुं पातु नासिकां नाशयद्वयम् । पातु गण्डौ सदा मामैश्वर्याण्यन्तं तु मस्तकम् ।। २ देहिद्वन्द्वं सदा जिह्वां पातु शीघ्रं वचो मम । कण्ठदेशं मनः पातु वाञ्छितं बाहुमूलकम् ।। ३ कार्यं साधयद्वन्द्वं तु करौ पातु सदा मम । मायायुक्ता तथा स्वाहा, हृदयं पातु सर्वदा ।। ४ अष्टाधिकचत्वारिंशदण्डाढया बगलामुखी । रक्षां करोतु सर्वत्र गृहेऽरण्ये सदा मम ।। ५ ब्रह्मास्त्राख्यो मनुः पातु सर्वांगे सर्वसन्धिषु । मन्त्रराजः सदा रक्षां करोतु मम सर्वदा ।। ६ ॐ ह्रीं पातु नाभिदेशं कटिं मे बगलाऽवतु । मुखिवर्णद्वयं पातु लिंग मे मुष्क-युग्मकम् ।। ७ जानुनी सर्वदुष्टानां पातु मे वर्णपञ्चकम् । वाचं मुखं तथा पादं षड्वर्णाः परमेश्वरी ।। ८ जंघायुग्मे सदा पातु बगला रिपुमोहिनी । स्तम्भयेति पदं पृष्ठं पातु वर्णत्रयं मम ।। ९ जिह्वावर्णद्वयं पातु गुल्फौ मे कीलयेति च । पादोर्ध्व सर्वदा पातु बुद्धिं पादतले मम ।। १० विनाशयपदं पातु पादांगुल्योर्नखानि मे । ह्रीं बीजं सर्वदा पातु बुद्धिन्द्रियवचांसि मे ।। ११ सर्वांगं प्रणवः पातु स्वाहा रोमाणि मेऽवतु । ब्राह्मी पूर्वदले पातु चाग्नेय्यां विष्णुवल्लभा ।। १२ माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु । कौमारी पश्चिमे पातु वायव्ये चापराजिता ।। १३ वाराही चोत्तरे पातु नारसिंही शिवेऽवतु । ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदाऽवतु ।। १४ इत्यष्टौ शक्तयः पान्तु सायुधाश्च सवाहनाः । राजद्वारे महादुर्गे पातु मां गणनायकः ।। १५ श्मशाने जलमध्ये च भैरवश्च सदाऽवतु । द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ।। १६ योगिन्यः सर्वदा पान्तु महारण्ये सदा मम । इति ते कथितं देवि कवचं परमाद्भुतम् ।। १७ ।। फल-श्रुति ।। श्रीविश्वविजयं नाम कीर्ति-श्रीविजय-प्रदम् । अपुत्रो लभते पुत्रं धीरं शूरं शतायुषम् ।। १८ निर्धनो धनमाप्नोति कवचस्यास्य पाठतः । जपित्वा मन्त्रराजं तु ध्यात्वा श्रीबगलामुखीम् ।। १९ पठेदिदं हि कवचं निशायां नियमात् तु यः । यद् यत् कामयते कामं साध्यासाध्ये महीतले ।। २० तत् यत् काममवाप्नोति सप्तरात्रेण शंकरि । गुरुं ध्यात्वा सुरां पीत्वा रात्रौ शक्ति-समन्वितः ।। २१ कवचं यः पठेद् देवि तस्यासाध्यं न किञ्चन । यं ध्यात्वा प्रजपेन् मंत्रं सहस्रं कवचं पठेत् ।। २२ त्रिरात्रेण वशं याति मृत्योः तन्नात्र संशयः । लिखित्वा प्रतिमां शत्रोः सतालेन हरिद्रया ।। २३ लिखित्वा हृदि तन्नाम तं ध्यात्वा प्रजपेन् मनुम् । एकविंशद्दिनं यावत् प्रत्यहं च सहस्रकम् ।। २४ जप्त्वा पठेत् तु कवचं चतुर्विंशतिवारकम् । संस्तम्भं जायते शत्रोर्नात्र कार्या विचारणा ।। २५ विवादे विजयं तस्य संग्रामे जयमाप्नुयात् । श्मशाने च भयं नास्ति कवचस्य प्रभावतः ।। २६ नवनीतं चाभिमन्त्र्य स्त्रीणां सद्यान् महेश्वरि । वन्ध्यायां जायते पुत्रो विद्यावल-समन्वितः ।। २७ श्मशानांगारमादाय भौमे रात्रौ शनावथ । पादोदकेन स्पृष्ट्वा च लिखेत् लोहशलाकया ।। २८ भूमौ शत्रोः स्वरुपं च हृदि नाम समालिखेत् । हस्तं तद्धदये दत्वा कवचं तिथिवारकम् ।। २९ ध्यात्वा जपेन् मन्त्रराजं नवरात्रं प्रयत्नतः । म्रियते ज्वरदाहेन दशमेऽह्नि न संशयः ।। ३० भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन संलिखेत् । धारयेद् दक्षिणे बाहौ नारी वामभुजे तथा ।। ३१ संग्रामे जयमाप्नोति नारी पुत्रवती भवेत् । ब्रह्मास्त्रदीनि शस्त्राणि नैव कृन्तन्ति तं जनम् ।। ३२ सम्पूज्य कवचं नित्यं पूजायाः फलमालभेत् । वृहस्पतिसमो वापि विभवे धनदोपमः ।। ३३ कामतुल्यश्च नारीणां शत्रूणां च यमोपमः । कवितालहरी तस्य भवेद् गंगा-प्रवाहवत् ।। ३४ गद्य-पद्य-मयी वाणी भवेद् देवी-प्रसादतः । एकादशशतं यावत् पुरश्चरणमुच्यते ।। ३५ पुरश्चर्या-विहीनं तु न चेदं फलदायकम् । न देयं परशीष्येभ्यो दुष्टेभ्यश्च विशेषतः ।। ३६ देयं शिष्याय भक्ताय पञ्चत्वं चान्यथाऽऽप्नुयात् । इदं कवचमज्ञात्वा भजेद् यो बगलामुखीम् । शतकोटि जपित्वा तु तस्य सिद्धिर्न- जायते ।। ३७ दाराढ्यो मनुजोऽस्य लक्षजपतः प्राप्नोति सिद्धिं परां विद्यां श्रीविजयं तथा सुनियतं धीरं च वीरं वरम् । ब्रह्मास्त्राख्यमनुं विलिख्य नितरां भूर्जेष्टगन्धेन वै धृत्वा राजपुरं ब्रजन्ति खलु ये दासोऽस्ति तेषां नृपः ।। ३८ ।। श्रीविश्वसारोद्धारतन्त्रे पार्वतीश्वरसंवादे बगलामुखी कवचम् ।। Related