October 14, 2015 | aspundir | Leave a comment श्रीचामुण्डा-कवच-स्तोत्रम् विनियोगः- ॐ अस्य श्रीदेवी-चामुण्डा-कवच-स्तोत्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीचामुण्डा देवता, ऐं बीजं, ह्रीं शक्तिः, क्लीं कीलकं, श्रीचण्डिका-चामुण्डा-प्रीत्यर्थे पाठे विनियोगः। ऋष्यादि-न्यासः- श्रीब्रह्मर्षये नमः शिरसि, अनुष्टुप् छन्दसे नमः मुखे, श्रीचामुण्डा देवतायै नमः हृदि, ऐं बीजाय नमः गुह्ये, ह्रीं शक्तये नमः पादयो, क्लीं कीलकाय नमः नाभौ, श्रीचण्डिका-चामुण्डा-प्रीत्यर्थे पाठे विनियोगाय नमः सर्वांगे। “ऐं” – बीज से षडङ्ग-न्यास कर स्तोत्र पाठ करे – या देवी खड्ग-हस्ता सकल-जन-पद-व्यापिनी विश्व-दुर्गा, श्यामांगी शुक्ल-पाशा द्विज-गण-गणिता ब्रह्म-देहार्द्ध-वासा । ज्ञानानां साधयन्ती यति-गिरि-गमन-ज्ञान-दिव्य-प्रबोधा, सा देवी दिव्य-मूर्तिः प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।१ ह्रां ह्रीं ह्रूं चर्म-मुण्डे ! शव-गमन-हते ! भीषणे ! भीम-वक्त्रे ! क्रां क्रीं क्रूं क्रोध-मूर्ति विकृत-स्तन-मुखे रौद्र-द्रष्टा करालम् । कं कं कं काल-धारी भ्रमसि जगदिदं भक्षयन्ती ग्रसन्ती, हुंकारोच्चारयन्ती, प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।२ ह्रां ह्रीं ह्रूं रुद्र-रुपे ! त्रिभुवन-नमिते ! पाश-हस्ते ! त्रिनेत्रे ! रां रीं रुं रंग-रंगे ! किलि-किलित-रवे ! शूल-हस्ते ! प्रचण्डे ! लां लीं लूं लम्ब-जिह्वे ! हसति कह-कहा शुद्ध-घोराट्ट-हासैः कंकाली काल-रात्रिः, प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।३ घ्रां घ्रीं घ्रूं घोर-रुपे ! घ-घ-घर-घटितं घुर्घुरा-राव-घोरे ! निर्मांसी-शुष्क-जंघे ! पिबन्तु नर-वसा धूम्र-धूम्रायमाने । द्रां द्रीं द्रूं द्रावयन्ती सकल-भुवि-तले यक्ष-गन्धर्व-नागैः, क्षां क्षीं क्षूं क्षोभयन्ती, प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।४ भ्रां भ्रीं भ्रूं भद्र-काली हरि-हर-नमिते रुद्र-मूर्तिश्च कीर्तिः, चन्द्रादित्यौ च कर्णौ जड़-मुकुट-शिरो-वेष्टिता केतु-माला । स्त्रक्-सर्वो चोरगेन्द्रो शशि-करण-निभो तारको हार-कण्ठे, सा देवी दिव्य-मूर्तिः प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।५ खं खं खं खड्ग-हस्ते ! वर-कनक-निभे ! सूर्य-कान्ति-स्वतेजो, विद्युज्ज्वालावलीनां नव-निशित-महाकृतिका दक्षिणेन । वामे हस्ते कपालं वर-विमल-सुरा-पूरितं धारयन्ती, सा देवी दिव्य-मूर्तिः प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।६ हुं हुं हुं फट् काल-रात्रिं रुरु-सुर-मथनी धूम्र-मारी कुमारी, ह्रां ह्रीं ह्रूं हन्ति दुष्टान्, कलित-किल-किला शब्द अट्टाट्ट-हासे ! हा-हा भूत-प्रभूते, किल-किलित-मुखा, कीलयन्ती ग्रसन्ती, हुंकारोच्चारयन्ती, प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।७ ह्रीं श्रीं क्रीं कपालीं परिजन-सहिते चण्डि चामुण्ड ! नित्ये, रं रं रं रंकार-शब्दे शशि-कर-धवले काल-कूटे दुरन्ते ! हुं हुं हुंकार-कारि सुर-गण-नमिते काल-कारी विकारी, त्रैलोक्यं वश्य-कारी, प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।८ वन्दे दण्ड-प्रचण्डा डमरु-रुणि-मणिप्टोप-टंकार-घण्टैः, नृत्यन्ती तांवैषा थइ थइ-विभवैर्निर्मला मन्त्र-माला । सुक्षौ कुक्षौ हसन्ती खर-खरित-सखा चाचिनि प्रेत-माला, उच्चैस्तैश्चाट्टहासै हह-हसति हहा चण्ड-मुण्ड-प्रचण्डा ।।९ त्वं ब्राह्मी त्वं च रौद्री स च शिख-गमना त्वं च देवि ! कुमारी, त्वं च चक्री चक्र-हस्त-घुर्घुरित-रवा त्वं वराह-स्वरुपा । रौद्रे त्वं चर्म-मुण्डा सकल-भुवि-तले संस्थिते स्वर्ग-मार्गे, पाताले शैल-श्रृंगे हरि-हर-नमिते ! देवि चण्डे ! नमस्ते ।।१० रक्ष त्वं मुण्ड-धारी गिरि-गृह-विवरे निर्जरे पर्वते वा, संग्रामे शत्रु-मध्ये विश विश भविशे संकटे कुत्सिते वा । व्याघ्रे चौरे च सर्पेऽप्युदधि-भुवि-तले वह्नि-मध्ये च दुर्गे, रक्षेत् स-दिव्य-मूर्तिः, प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।११ ।।फल-श्रुति।। इत्येवं बीज-मन्त्रैः स्तवनमति-शिवं पातक-व्याधि-नाशम्, प्रत्यक्षं दिव्य-रुपं ग्रह-गण-मथनं मर्दनं शाकिनीनाम् । इत्येवं वेद-वेद्यं सकल-भय-हरं मन्त्र-शक्तिश्च नित्यम्, मन्त्राणां स्तोत्रकं यः पठति स लभते प्रार्थनां मन्त्र-सिद्धिम् ।। चं चं चं चन्द्र-हासा चचम चम-चमा चातुरी चित्त-केशी, यं यं यं योग-माया जननि जग-हिता योगिनी योग-रुपा ! डं डं डं डाकिनीनाम् डमरुक-सहिता दोल डिंहोल-डिम्भा, रं रं रं रक्त-वस्त्रा सरसिज-नयना पातु मां देवि दुर्गा ।। Related