July 23, 2015 | aspundir | Leave a comment श्रीबटुक-अपराध-क्षमापन-स्तोत्र ॐ गुरोः सेवां त्यक्त्वा गुरुवचन-शक्तोपि न भवे भवत्पूजा-ध्यानाज्जप 1 हवन-यागा 2 द्विरहितः । त्वदर्च-निर्माणे क्वचिदपि न यत्नं व कृतवान् जगज्जाल-ग्रसतो झटिति कुरु हार्दं मयि विभो ।।१ प्रभो ! दुर्गासूनो ! तव शरणतां सोऽधिगतवान् कृपालो ! दुःखार्तः कमपि भवदन्यं प्रकथये । सुहृत् 3 ! सम्पत्तेऽहं सरल 4-विरलः 5 साधकजन स्त्वदन्यः 6 कस्त्राता भव-दहन-दाहं शमयति ।।२ वदान्यो 7 मान्यस्त्वं विविधजनपालो भवसि वै दयालुर्दीनार्तान् भवजलधिपारं गमयसि । अतस्त्वत्तो याचे नति-नियमतोऽकिञ्चनधनः सदा भूयाद् भावः पदनलिनयोस्ते तिमिरहा ।।३ अजापूर्वो विप्रो मिलपदपरो योऽतिपतितो महामूर्खो दुष्टो वृजननिरतः पामरनृपः । असत्पानासक्तो यवन-युवती-वातरमणः प्रभावात्त्वन्नाम्नः परमपदवीं सोऽप्यधिगतः ।।४ दयां दीर्घां 8 दीने बटुक ! कुरु विश्वम्भर मयि न चान्यस्सन्त्राता परमशिव मां पालय विभो । महाश्चर्यं प्राप्तस्तव सरलदृष्ट्या 9 विरहितः कृपापूर्णैर्नेत्रैः कजदल 10 निमैर्मां खचयतात् 11 ।।५ सहस्ये 12 किं हंसो नहि तपति दीनं जनचयम् घनान्ते किं चन्द्रोऽसमकर-निपातो भुवितले । कृपादृष्टेस्तेहं भयहरविमो किं विरहितो जले वा हर्म्ये वा घनरसनिपातो न विषमः ।।६ त्रिमूर्तित्वं गीतो हरिहर-विधातात्मकगुणो 13 निराकारः शुद्धः परतरपरः सोऽप्यविषयः । दयारुपं शान्तं मुनिगणनुतं भक्तदयितं कदा पश्यामि त्वां कुटिल-कचशोभि-त्रिनयनम् ।।७ तपोयोगं सांख्यं यम-नियम-चेतः प्रयजनं न कौलार्च्चा-चक्रं हरिहरविधीनां प्रियतरम् । न जाने ते भक्तिं परममुनिमार्गं मधूविधिं 14 तथाप्येषा वाणी परिरटति नित्यं तव यशः ।।८ न मे कांक्षा धर्मे न वसुनिचये राज्यनिवहे न मे स्त्रीणां भोगे सखि-सुत-कुटुम्बेषु न च मे । यदा यद्यद्-भाव्यं भवतु भगवन् पूर्वसुकृतान् ममैतत्तु प्रार्थ्यं तव विमल-भक्तिः प्रभवतात् ।।९ कियांस्तेस्मद्-भारः पतितपतितांस्तारयसि भो ! मसन्यः कः पापी यजन-विमुखः पाठरहितः । दृढो मे विश्वासस्तव नियति15 रुद्धार विषयः सदा स्याद् विश्रम्भः क्वचिदपि मृषा मा च भवतात् ।।१० भवद्-भावाद्-भिन्नो व्यसन-निरतः को मदपरो मदान्धः पापात्मा वटुक ! शिव ! ते नामरहितः । उदारात्मन् बन्धो नहि तवकतुल्यः कलुषहा पुनः सञ्चिन्त्यैवं कुरु हृदि यथेच्छसि तथा ।।११ जपान्ते स्नानान्ते ह्युषसि च निशीथे जपति यो महासौख्यं देवो वितरति नु तस्मै प्रमुदितः । अहोरात्रं पार्श्वे परिवसति भक्तानुगमनो वयोन्ते संहृष्टः परिनयति भक्तान् स्वभुवनम् ।। ॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰ पाठान्तरः- 1॰ स्थूल-ध्यानात्, 2॰ ब्राह्मण-भोजनयज्ञात्, 3॰ हे सदा सहायक मित्र !, 4॰ निष्कपटः, 5॰ अन्यतमः, 6॰ ते उपासकः, 7॰ दानशूरः, 8॰ महत्तमाम्, 9॰ उदारदृष्ट्या, 10॰ कमल-पत्रनिभैः, 11॰ पवित्रीकुरुतात्, 12॰ पौषे, 13॰ हर्य्यादीनां स्वभावगुणः, प्रयत्नगुणो वा, 14॰ मदिरा (करण) विधानम्, 15॰ नियतिर्नियमे वैवे इति विश्वः । विशेषः- १॰ श्रीवटुक भैरव जगदम्बा के पुत्र हैं । वटुक भैरव के उपासना-प्रयोग में भूलचूक होने पर वटुक अपराध-क्षमापन-स्तोत्र पाठ किया जाता है । इस स्तोत्र में भक्ति-भाव से भक्त का पूर्ण-रुपेण समर्पण झलकता है, अतः साधक पाठ के समय स्वयं पूर्णतः समर्पित या विनम्र रहे । २॰ वटुक-भैरव के मूल-मन्त्र “ॐ ह्रीं वां वटुकाय क्ष्रौं क्ष्रौं आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं वटुकाय स्वाहा” के जप के बाद जो इस स्तोत्र का पाठ करता है, उसे स्वतः सिद्धि प्राप्त हो जाती है। ३॰ वटुक भैरव के इस पाठ के बाद किया गया श्रीदुर्गा-सप्तशती का पाठ भी सद्यःफल देनेवाला होता है। Related