September 2, 2015 | Leave a comment श्रीबालरक्षा श्रीगणेशाय नमः । श्रीकृष्णाय नमः । अव्यादजोङघ्रिंमणिमांस्तव जान्वथोरू यज्ञोऽच्युतः कटितटं जठरं हयास्यः । ह्रत्केशवस्त्वदुर ईश इनस्तु कंठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ १ ॥ चक्रयग्रतः सहगदो हरिरस्तु पश्चात्त्वत्पार्श्वयोर्धनुरसौ मधुहाजनश्च । कोणेषु शंख उरुगाय उपर्युपेन्द्रस्तार्क्ष्यः क्षितौ हलधरः पुरुषः समंतात् ॥ २ ॥ इन्द्रियाणि ह्रषीकेशः प्राणान्नारायणोऽवतु । श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ ३ ॥ पृश्निगर्भश्च ते बुद्धिमात्मानं भगवान्परः । क्रीडंतं पातु गोविंदः शयानं पातु माधवः ॥ ४ ॥ व्रजंतमव्याद्वैकुंठ आसीनं त्वां श्रियः पतिः । भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयंकरः ॥ ५ ॥ डाकिन्यो यातुधान्यश्च कूष्मांडायेऽर्भकग्रहाः । भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ॥ ६ ॥ कोटरारेवतीज्येष्ठापूतनामातृकादयः । उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ॥ ७ ॥ स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये । सर्वे नश्यंतु ते विष्णोर्नमग्रहणभीरवः ॥ ८ ॥ इति श्रीमद्भागवते दशमस्कंधे गोपीकृतबालरक्षा संपूर्णम् । Related