October 29, 2015 | Leave a comment श्री बगला यंत्रराज रक्षा स्तोत्रम् इस स्तोत्र में बगला मंत्र ऋषि नारद, छंद पंक्ति, देवता पीताम्बरा, ह्लीं बीजं, स्वाहा शक्ति, सं कीलक, शत्रु-विनाशक विनियोग कहा गया है तथा इस स्तोत्र के पाठ से यंत्रार्चन का फल प्राप्त होता है । वन्दे सकलसन्देह दावपावकमीश्वरम् । करुणावरुणावासं भक्तकल्परुं गुरुम् ।। १ ।। उल्लसत्पीतविद्योति विद्योतिततनुत्रयम् । निगमागम सर्वस्वमीडेऽहं तन्महन्महः ।। २ ।। ॐ पूर्वे स्थिरमायां च बगलामुखि सर्वतः । दुष्टानां वाचमुच्चार्य मुखं पदं तथोद्धरेत् ।। ३ ।। स्तम्भयेति ततो जिह्वां कीलयेति समुद्धरेत् । बुद्धिं विनाशयेति पदं स्थिरमायामनुस्मरेत् ।। ४ ।। प्रणवं वह्निजायां चेत्येष पैताम्बरो मनुः । पातु मां सर्वदा सर्व-निग्रहानुग्रहक्षमः ।। ५ ।। कण्ठं नारद ऋषिः पातु पङ्क्तिश्छन्दोऽवतान्मुखम् । पीताम्बरा देवता तु हृन्मध्यमवतान्मम् ।। ६ ।। ह्लीं बीजं स्तनयोर्मेऽव्यात् स्वाहा शक्तिश्च दन्तयोः । सं कीलकं तथा गुह्ये विनियोगोगोऽवताद् वपुः ।। ७ ।। षड्दीर्घभाजा बीजेन न्यासोऽव्यान्मे करादिकम् । द्विपञ्चपञ्चनन्देषुदशभिर्मन्त्र वर्णकैः ।। ८ ।। षडंगकल्पना पातु षडंगानि ह्यनुक्रमात् । ऐं विद्यातत्त्वं क्लीम मायातत्त्वं सौश्च शिवात्मकम् ।। ९ ।। तत्त्वत्रयं सं बीजं च मूलं हृत्कण्ठमध्यगः । सुधाब्धौ हेमभूरुढचम्पकोद्यानमध्यतः ।। १० ।। गारुडोत्पलनिर्व्यूढ स्वर्णसिंहासनोपरि । स्वर्णपंकजसंविष्टां त्रिनेत्रां शशिशेखराम् ।। ११ ।। पीतालंकारवसनां मल्लीचन्दनशोभिताम् । सव्याभ्यां पञ्चशाखाभ्यां वज्रं जिह्वां च विभ्रतीम् ।। १२ ।। मुद्गरं नागपाशं च दक्षिणाभ्यां मदालसाम् । भक्तारिविग्रहोद्योग प्रगल्भां बगलामुखीम् ।। १३ ।। ध्यायमानस्य मे पातु शात्रवोद्द्वेषणे भृशम् । भूकलादलदिक्-पत्रषट्कोणं त्र्यस्रबैगैन्दुकम् ।। १४ ।। यन्त्रं पृताम्बरं पायाद् पायात् सा माम् अविग्रहा । आधारशक्तिमारभ्य ज्ञानात्मान्तास्तु शक्तयः ।। १५ ।। पीठाद्याः पान्तु पीठेऽत्र प्रथमं मां च रक्षतु । शान्तिशंखविशेषात्मशक्ति भूतानि पान्तु माम् ।। १६ ।। आवाहनाद्याः पञ्चापि मुद्राश्च सुमनोजलैः । त्रिकोणमध्यमारभ्य पूजिता बगलामुखी ।। १७ ।। क्रोधिनी स्तम्भिनी चापि धारिण्यश्चापि मध्यगाः । ओजः पूषादिपीठानि कोणाग्रेषु स्थितानि वै ।। १८ ।। त्रिकोणबाह्यतः सिद्धनाथाद्या गुरवस्तथा । सिद्धनाथः सिद्धनन्दनाथः सिद्धपरेष्ठि हि ।। १९ ।। नाथः सिद्धः श्रीकण्ठश्च नाथः सिद्धचतुष्टयम् । पातु मामथ षट्कोणे सुभगा भग-रुपिणी ।। २० ।। भगोदया च भगनिपातिनी भगमालिनी । भगावह च मां पातु षट्कोणाग्रेषु च क्रमात् ।। २१ ।। त्वगामा शोणितात्म च मांसात्मा मेदसात्मकः । रुपात्मा परमात्मा च पातु मां स्थिरविग्रहा ।। २२ ।। अष्टपत्रेषु मूलेषु ब्राह्मी माहेश्वरी तथा । कौमारी वैष्णवी वाराहीन्द्राणी च तथा पुनः ।। २३ ।। चामुण्डा च महालक्ष्मीस्तत्र मध्ये पुनर्जया । विजया च जयाम्बा च राजिता जृम्भिणी तथा ।। २४ ।। स्तम्भिनी मोहिनी वश्याऽकर्षिणि अथ तदग्रके । असितांगी रुरुश्चण्डः क्रोधोन्मत्तकपालिनः । भीषणश्चापि संहार एते रक्ज़न्तु मां सदा ।। २५ ।। ततः षोडशपत्रेषु मंगला स्तम्भिनी तथा । जृम्भिणी मोहिनी वश्या ज्वालासिंही वलाहका ।। २६ ।। भूधरा कल्मषा धात्री कन्यका कालकर्षिणी । भान्तिका मन्दगमना भोगस्था भाविकेति च ।। २७ ।। पातु मामथ भूसद्म दशदिक्षु दिगीश्वराः । इन्द्रोऽनलो यमो रक्षो वरुणो मारुतः शशी ।। ईशाऽनन्तः स्वयम्भूश्च दशैते पान्तम मे वपुः ।। २८ ।। वज्र शक्तिर्दण्डखङ्गौ पाशांकुशगदाः क्रमात् । शूलं चक्रं सरोजं च तत्तच्छस्त्राणि पान्तु माम् ।। २९ ।। अथ च पूर्वादिचतुद्वरिषु परतः क्रमात् । पातु विघ्नेशवटुकौ योगिनी क्षेत्रपालकः ।। ३० ।। गुरुत्रयं त्रिरेखासु पातु मे वपुञ्जसा । पुनः पीताम्बरा पातु उपचारैः प्रपूजिता ।। ३१ ।। सांगावरणशक्तिश्च जयश्रीः पातु सर्वदा । वलयं वटुकादिभ्यो रक्षां कुर्वन्तु मे सदा ।। ३२ ।। शक्तयः साधका वीराः पान्तु मे देवता इमाः । इत्यर्चाक्रमतः प्रोक्तं स्तोत्रं पैताम्बरं परम् ।। ३३ ।। यः पठेत् सकृदप्येतत् सोऽर्चाफलमाप्नुयात् । सर्वथा कारयेत् क्षिप्रं प्रपद्यन्ते गदातुरान् ।। ३४ ।। राजानो राजपल्याश्च पौर जानपदास्तथा । वशगास्तस्य जायन्ते सततं सेवका इव ।। ३५ ।। गुरुकल्पाश्च विबुधा मूकता यान्ति तेऽग्रतः । स्थिरीभवति तद्-गेहे चपलानि हरिप्रिया ।। ३६ ।। पीताम्बरांगवसनो यदि लक्षसंख्यं , पैताम्बरं मनुममुं प्रजपेत् नरो यः । हैमीं सकृन्नियमवान् विधीना जरिद्रामालां, दधत् भवति तदवशगा त्रिलोकी ।। ३७ ।। भवानि बगलामुखि त्रिदशकल्पवल्लि, प्रभो कृपाजलनिधे तव चरणधूतबाधाखिलः । सुरासुरनरादिक सकलभक्तभाग्यप्रदे, त्वदंघ्रिसरसीरुहद्वयमहं तु ध्याये सदा ।। ३८ ।। त्वमम्ब जगतां जनिस्थितिविनाशबीं, निज प्रकाशबहुलद्युति भक्तहृन्मध्यगा । त्रयीमनुसुपुजिता हरिहरादिवृन्दारकै, रनुक्षणमनुक्षणं मयि शिवे क्षणं वीक्ष्यताम् ।। ३९ ।। शिवे तव तनूमहं हरिहराद्यगम्यां पराम्, निखिलतापप्रत्यूह हृद्दयाभावयुक्तां स्मरे । विदारय विचूर्णय ग्लपय शोषय स्तम्भय, प्रणोदय विरोधय प्रविलय प्रबद्धारीणाम् ।। ४० ।। क्व पार्वती कूपालसन् मयि कटाक्षपातं मनाग् । अनाकुलतया क्षणं क्ज़िप विपक्ष-संक्षोभिणि । यदीक्षणपथं गतः सकृदपि प्रभुः, कश्चन् स्फुटं मय वशंवदा भवतु तेन पीताम्बरे ।। ४१ ।। ॐ नमो भगवते महारुद्राय हुं फट् स्वाहा । इति भैरव मन्त्र । इति अथर्वणरहस्ये बगलामुख्या अर्चाक्रमस्तोत्रम् ।। ।। श्रीदेवानन्दशिष्यरामचन्द्रनाथ विरचितायां मन्त्रसंग्रह दीपिकायां श्रीबगलास्तवराजः ।। Related