Print Friendly, PDF & Email

शत्रुबाधा निवारण हेतु नृसिंह कवच प्रयोग
सर्वप्रथम दाहिने हाथ में जल लेकर निम्नलिखित विनियोग का पाठ करें :-
विनियोगः- “ॐ अस्य श्रीनृसिंह कवच मन्त्रस्य प्रजापतिर्ऋषिः गायत्रीश्छन्दः नृसिंह देवता, क्ष्रौं बीजं, मम सर्वारिष्ट च शत्रुक्षयाय पूर्वकं ममाभीष्ट सिद्ध्यर्थे जपे विनियोगः ॥”
ध्यान :- हाथ में पुष्प लेकर भगवान् नृसिंह का निम्नलिखित श्लोक से ध्यान करें : –
“श्रीमन्नृ-केसरि-तनो जगदेक-बन्धो श्री-नीलकण्ठ-करुणार्णव-सामराज ।
वह्नीन्दु – तीव्र -कर-नेत्र-पिनाक – पाणे-शीतांशु-शेखर रमेश्वर पाहि विष्णो ॥”

हे नर और सिंहरूप उभयात्मक शरीर वाले ! हे जगत् के एक मात्र बन्धु ! हे नीलकण्ठ ! हे करुणासागर ! हे सामगान से प्रसन्न होने वाले ! हे चन्द्र-सूर्य और अग्नि स्वरूप तीन नेत्रों वाले ! हे धनुर्धर ! हे चन्द्रकला को मस्तक पर धारण करने वाले ! हे रमा के स्वामी ! श्रीविष्णु मेरी रक्षा कीजिए ।


मानस पूजा :- अब भगवान् नृसिंह की मानस पूजा करनी चाहिए :-
ॐ लं पृथ्वीतत्त्वात्मकं गन्धं श्रीनृसिंहप्रीतये समर्पयामि नमः ।
ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीनृसिंहप्रीतये समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्रीनृसिंहप्रीतये आघ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्रीनृसिंहप्रीतये दर्शयामि नमः ।
ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीनृसिंहप्रीतये निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीनृसिंहप्रीतये समर्पयामि नमः ।
इसके पश्चात् कवच का पाठ करें –


॥ नारद उवाच ॥
इन्द्रादिदेव वृन्देश इड्येश्वर (तातेश्वर) जगत्पते ।
महाविष्णोर्नृसिंहस्य कवचं ब्रुहि मे प्रभो !
यस्य प्रपठनाद् विद्वान् त्रैलोक्ये विजयी भवेत् ॥ १ ॥
॥ ब्रह्मोवाच ॥
शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोघन(तपोधन) ।
कवचं नरसिंहस्य त्रैलोक्य विजयी भवेत् (विजयाभिधम्) ॥ २ ॥
यस्य प्रपठनाद् वाग्मी त्रैलोक्यविजयी भवेत् ।
स्रष्ठाऽहं जगतां वत्स पठनाद्धारणाद् यतः ॥ ३ ॥
लक्ष्मीर्जगत्त्रयपतिं संहर्ता च महेश्वरः ।
पठनाद्धारणाद्देवा बहचश्च (बभुवुश्च) दिगीश्वराः ॥ ४ ॥
ब्रह्म-मन्त्रमयं वक्ष्ये भ्रान्त्यादि (भूतादि) विनिवारकम् ।
यस्य प्रसादाद्दुर्वासास्त्रैलोक्यविजयी भवेत (मुनिः) ।
पठनाद् धारणाद् यस्य शास्ता च क्रोधभैरवः ॥ ५ ॥
त्रैलोक्यविजय-स्यास्य(-स्यापि) कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री नृसिंहो देवता विभुः ।
चतुर्वर्गे च शान्तौ च विनियोगः प्रकीर्त्तितः ॥ ६ ॥
क्ष्रौं बीजं मे शिरः पातु चन्द्रवर्णो महामनुः ।
उग्रवीरं महाविष्णुं ज्वलन्तः सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्योर्मृत्युं नमाम्यहम् ॥ ७ ॥
द्वात्रिंशादक्षरो मन्त्रः मन्त्रराजः सुरद्रुमः ।
कण्ठं पातु ध्रुवम् क्ष्रौं हृद्भगवते चक्षुषी मम ॥ ८ ॥
नरसिंहाय च ज्वालामालिने पातु मस्तकम् (कर्णकम्) ।
दीप्तदंष्ट्राय च तथाग्निनेत्राय च नासिकाम् ॥ ९ ॥
सर्वरक्षोघ्नाय देवाय(च तथा) सर्वभूतविनाशाय च ।
सर्वज्वरविनाशाय दह दह पच(पद) द्वयम् ॥ १० ॥
रक्ष रक्ष सर्वमन्त्रम् स्वाहा पातु मुखं मम ।
तारादि रामचन्द्राय नमः पातु हृदयं (पायाद्गूह्यं) मम ॥ ११ ॥
क्लीं पायात्पार्श्वयुग्म च (पायात्पाणियुग्मंश्च) तारो (तक्रम्) नमः पदम् ततः ।
नारायणाय नाभिं (नरायणाऽप्रसवम्) च आं ह्रीं क्रौं क्ष्रौं चं हुं फट् ॥ १२ ॥
षडक्षरः कटिं पातु ॐ नमो भगवते पदम् ।
वासुदेवाय च पृष्ठं क्लीं कृष्णाय क्लीं उरुद्वयम् ॥ १३ ॥
क्लीं कृष्णाय सदा पातु जानुनी च मनूत्तमः ।
क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः पायात्पदद्वयम् ॥ १४ ॥
क्ष्रौं नरसिंहाय क्ष्रौं च सर्वाङ्गे मे सदाऽवतु ॥ १५ ॥
इति ते कथितं वत्स सर्वमन्त्रौघ विग्रहम् ।
तवस्नेहान्मया ख्यातं प्रवक्तव्यं न कस्यचित् ॥ १६ ॥
॥ फल-श्रुति ॥
गुरुपूजा विधायाथ गृहीत्वा (गृहणीयात्) कवचं ततः ।
सर्वपुण्ययुतो भूत्वा सर्वसिद्धि युतोभवेत् ॥ १७ ॥
शतमष्टोत्तरं चास्य (चैव) पुरश्चर्याविधि स्मृतः ।
हवनादीन् दशांशेन कृत्वा साधकसत्तमः ॥ १८ ॥
ततस्तु सिद्ध कवचः पुण्यात्मा मदनोपमः ।
स्पर्द्धामुद्धय भवने लक्ष्मीर्वाणी वसेत् ततः ॥ १९ ॥
पुष्पाञ्जल्याष्टकम् दत्वामूले नैव पठेत् सकृत् ।
अपि वर्षसहस्राणाम् पूजायाः फलमाप्नुयात् ॥ २० ॥
भूर्जे विलिख्य गुटिकाम् स्वर्णस्थाम् धारयेत् यदि ।
कण्ठे वा दक्षिणे बाहौ नरसिंहो भवेत् स्वयम् ॥ २१ ॥
योषिद्वामभुजे चैव पुरुषो दक्षिणे करे ।
विभृयात् कवचं पुण्यम् सर्वसिद्धियुतो भवेत् ॥ २२ ॥
काकबन्ध्या च या नारी मृतवत्सा च या भवेत् ।
जन्मबन्ध्या नष्टपुत्रा बहुपुत्रवती भवेत् ॥ २३॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
त्रैलोक्य क्षोभयत्येव त्रैलोक्यं विजयी भवेत् ॥ २४॥
भूतप्रेतपिशाचाश्च राक्षसा दानवश्च ये ।
तं दृष्ट्वा प्रपलायन्ते देशाद्देशान्तरं ध्रुवम् ॥ २५॥
यस्मिन् गेहे च कवचं ग्रामे वा यदि तिष्ठति ।
तं देशन्तु परित्यज प्रयान्ति चाति दूरतः ॥ २६॥
॥ इति श्रीब्रह्मसंहितायां सप्तदशाध्याये त्रैलोक्यविजयं नाम श्रीनृसिंहकवचं सम्पूर्णम् ॥

इस कवच का पाठ करने के पश्चात् निम्नलिखित मन्त्र का 108 बार जप करें –
“जय जय श्रीनृसिंह ।”
अन्त में श्रीसूक्त का पाठ करना चाहिए । ऐसा प्रतिदिन करें । चालीस दिनों के पश्चात् आपको इसका प्रभाव स्वतः दिखने लगेगा । यह अनुभवसिद्ध प्रयोग है ।

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.