Print Friendly, PDF & Email

सिद्ध-लक्ष्मी-स्तोत्र
विनियोग-
ॐ अस्य श्रीसिद्ध-लक्ष्मी-स्तोत्र-मन्त्रस्य हिरण्य-गर्भः ऋषिः, अनुष्टुप् छन्दः, श्रीमहा-काली-महा-लक्ष्मी-महा-सरस्वती देवताः, श्रीं बीजं, ह्रीं शक्तीः, क्लीं कीलकं, मम सर्व-क्लेश-पीडा-परिहार्थं सर्व-दुःख-दारिद्रय-नाशनार्थं सर्व-कार्य-सिद्धयर्थं च श्रीसिद्ध-लक्ष्मी-स्तोत्र-पाठे विनियोगः।
ऋष्यादि-न्यास- हिरण्य-सर्भ ऋषये नमः शिरसि। अनुष्टुप-छन्दसे नमो मुखे। श्रीमहा-काली-महा-लक्ष्मी-महा-सरस्वती देवताभ्यो नमओ हृदि। श्रीं बीजाय नमः गुह्ये। ह्रीं शक्तये नमः पादयोः। क्लीं कीलकाय नमो नाभौ। मम सर्व-क्लेश-पीडा-परिहार्थं सर्व-दुःख-दारिद्रय-नाशनार्थं सर्व-कार्य-सिद्धयर्थं च श्रीसिद्ध-लक्ष्मी-स्तोत्र-पाठे विनियोगाय नमः सर्वांगे।
कर-न्यास- श्री सिद्ध-लक्ष्म्यै अंगुष्ठाभ्यां नमः। ह्रीं विष्णु-तेजसे तर्जनीभ्यां नमः। क्लीं अमृताऽऽनन्दायै मध्यमाभ्यां नमः। श्री दैत्य-मालिन्यै अनामिकाभ्यां नमः। ह्रीं तेजः-प्रकाशिन्यै कनिष्ठिकाभ्यां नमः। क्लीं ब्राह्म्यै-वैष्णव्यै-रुद्राण्यै करतल-कर-पृष्ठाभ्यां नमः।
षडंग-न्यास- श्री सिद्ध-लक्ष्म्यै हृदयाय नमः। ह्रीं विष्णु-तेजसे शिरसे स्वाहा। क्लीं अमृताऽऽनन्दायै शिखायै वषट्। श्री दैत्य-मालिन्यै कवचाय हुं। ह्रीं तेजः-प्रकाशिन्यै नेत्र-त्रयाय वौषट्। क्लीं ब्राह्म्यै-वैष्णव्यै-रुद्राण्यै अस्त्राय फट्।
‘ॐ श्रीं ह्रीं क्लीं श्रीं श्रीसिद्ध-लक्ष्म्यै नमः’ मन्त्र से ताल-त्रय कर ‘दिग्-बन्धन’ करे। अब ध्यान करे-
ब्राह्मीं च वैष्णवीं भद्रां, षड्-भुजां च चतुर्मुखीम्।
त्रि-नेत्रां खड्ग-त्रिशूल-पद्म-चक्र-गदा-धराम्।।
पीताम्बर-धरां देवीं, नानाऽलंकार-भूषिताम्।
तेजः-पुञ्ज-धरीं श्रेष्ठां, ध्यायेद् बाल-कुमारिकाम्।।
।।मूल-स्तोत्र।।
ॐ-कारं लक्ष्मी-रुपं तु, विष्णुं हृदयमव्ययं। विष्णुमानन्दमव्यक्तं, ह्रीं-कारं बीज-रुपिणिम्।।
क्लीं अमृतानन्दिनीं भद्रां, सत्यानन्द-दायिनीं। श्री दैत्य-शमनीं शक्तीं, मालिनीं शत्रु-मर्दिनीम्।।
तेज-प्रकाशिनीं देवी, वरदां, शुभ-कारिणीम्, ब्राह्मी च वैष्णवीं रौद्रीं, कालिका-रुप-शोभिनीम्।।
अ-कारे लक्ष्मी-रुपं तू, उ-कारे विष्णुमव्ययम्, म-कारः पुरुषोऽव्यक्तो, देवी-प्रणव उच्यते।
सूर्य-कोटी-प्रतीकाशं, चन्द्र-कोटि-सम-प्रभम्, तन्मध्ये निकरं सूक्षमं, ब्रह्म-रुपं व्यवस्थितम्।
ॐ-कारं परमानन्दं सदैव सुख-सुन्दरीं, सिद्ध-लक्ष्मि! मोक्ष-लक्ष्मि! आद्य-लक्ष्मि नमोऽस्तु ते।
सर्व-मंगल-मांगल्ये शिवे! सर्वार्थ-साधिके! शरण्ये त्रयम्बके गौरि, नारायणि! नमोऽस्तु ते।
प्रथमं त्र्यम्बका गौरी, द्वितीयं वैष्णवी तथा। तृतीयं कमला प्रोक्ता, चतुर्थं सुन्दरी तथा।
पञ्चमं विष्णु-शक्तिश्च, षष्ठं कात्यायनी तथा। वाराही सप्तमं चैव, ह्यष्टमं हरि-वल्लभा।
नवमी खडिगनी प्रोक्ता, दशमं चैव देविका। एकादशं सिद्ध-लक्ष्मीर्द्वादशं हंस-वाहिनी।
एतत् स्तोत्र-वरं देव्या, ये पठन्ति सदा नराः। सर्वोपद्भ्यो विमुच्यन्ते, नात्र कार्या विचारणा,।
एक-मासं द्वि-मासं च, त्रि-मासं माश्चतुष्टयं। पञ्चमासं च षष्मासं, त्रिकालं यः सदा पठेत्।
ब्राह्मणः क्लेशितो दुःखी, दारिद्रयामय-पीड़ितः। जन्मान्तर-सहस्रोत्थैर्मुच्यते सर्व-किल्वषैः।
दरिद्रो लभते लक्ष्मीमपुत्रः पुत्र-वान् भवेत्। धन्यो यशस्वी शत्रुघ्नो, वह्नि-चौर-भयेषु च।
शाकिनी-भूत-वेताल-सर्प-व्याघ्र-निपातते। राज-द्वारे सभा-स्थाने, कारा-गृह-निबन्धने।
ईश्वरेण कृतं स्तोत्रं, प्राणिनां हित-कारकम्। स्तुवन्तु ब्राह्मणा नित्यं, दारिद्रयं न च बाधते।
सर्व-पाप-हरा लक्ष्मीः सर्व-सिद्धि-प्रदायिनी।
।।इति श्री ब्रह्म-पुराणे श्रीसिद्ध-लक्ष्मी-स्तोत्र।।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.