॥ अथ त्वरित रुद्रमन्त्र प्रयोगः॥
(हेमाद्रिशांति रत्नेषु)

इस मन्त्र का प्रयोग सभी कामनाओं की सिद्धि हेतु तथा विघ्ननाश हेतु किया जाता है । औषधोपचार में यदि दवाकाम नहीं कर रही है तो इसके प्रयोग से मार्गदर्शन होकर रोगी को लाभ प्राप्त होगा ।

मन्त्रोयथा – ॐ यो रुद्रो ऽग्नौ योऽप्सुय ओषधीषु यो रुद्रो विश्वाभुवनाविवेश तस्मै रुद्राय नमोऽस्तु ।

विनियोगः – अस्य त्वरितरुद्र मन्त्रस्य अथर्वण ऋषिः, अनुष्टप् छन्दः, त्वरितरुद्रसंज्ञिका देवता, नमः बीजम्, अस्तु शक्तिः त्वरितरुद्र प्रीत्यर्थे जपे विनियोगः ।

अङ्गन्यास        करन्यास               षडङ्गन्यास
ॐ यो रुद्रः अंगुष्ठाभ्यां नमः । (हृदयाय नमः)
अग्नौ तर्जनीभ्यां नमः । (शिरसे स्वाहा)
योऽप्सु मध्यमाभ्यां नमः । (शिखायै वषट्)
ओषधीषु अनामिकाभ्यां नमः । (कवचाय हुँ)
यो रुद्रो विश्वा भुवना विवेश कनिष्ठिकाभ्यां नमः । (नेत्रत्रयाय वौषट्)
तस्मै रुद्राय नमोऽस्तु करतल करपृष्ठाभ्यां नमः । (अस्त्राय फट्) ।

पादादिन्यास – ॐ यः पादयोः । ॐ रुद्र जङ्घयोः । ॐ अग्नौ जानुनोः । ॐ यः ऊर्वोः । ॐ अप्सु गुल्फयोः । ॐ यः मेढ़्रे । ॐ ओषधीषु नाभौ । ॐ यः उदरे । ॐ रुद्रः हृदये । ॐ विश्वाकण्ठे । ॐ भुवनामुखे । ॐ विवेश नासिकायाम् । ॐ तस्मै नेत्रयोः । ॐ रुद्राय भुवोः । ॐ नमः ललाटे । ॐ अस्तु शिरसि ।

मूर्द्धादिन्यास – ॐ यः शिरसि । ॐ रुद्र ललाटे । ॐ अग्नौ नेत्रयोः । ॐ यः कर्णयो । ॐ अप्सु नासिकायाम् । ॐ यः मुखे । ॐ ओषधीषु बाह्वोः । ॐ यः हृदये । ॐ रुद्रः नाभौ । ॐ विश्वा गुह्ये । ॐ भुवना अपाने । ॐ विवेश ऊर्वोः । ॐ तस्मै जानुनोः । ॐ रुद्राय जङ्घयोः । ॐ नमः गुल्फयोः । ॐ अस्तु चरणयोः ॥
इस प्रकार न्यास करके शिवजी को शुभमुद्रा दिखावें – ॐ एषते रुद्रभागः सहस्वस्राम्बिकया तञ्जुषस्व स्वाहैषतेरुद्रभाग आखुस्तेपशुः । इत्यादि मन्त्रों से मुद्रा दिखाकर ध्यान करें ।

ॐ रुद्रं चतुर्भुजं देवं त्रिनेत्रं वरदाभयम् ।
दधानमूर्ध्वं हस्ताभ्यां शूलं डमरूमेव च ॥ १ ॥
अङ्क संस्थामुमां पद्मे दधानं च करद्वये ।
आद्ये करद्वये कुम्भं मातुलुंगं च बिभ्रतम् ॥ २ ॥

इस प्रकार ध्यान कर शिव पूजा करें । मन्त्र का पुरश्चरण २० हजार जप का है । विशेष जप २ लाख संख्या में करने चाहिये । दशांश होम, तर्पण, मार्जन, ब्राह्मण भोजन करे । जपकाल में भूमिशयन करे एक समय भोजन करें ।
जपेत्त्वरितरुद्रं तु सर्वकामसमृद्धये ।
श्रीकामः शांतिकामो जपेल्लक्षमतंद्रितः ॥ १ ॥
बिल्वसमिद्भिः श्रीकामः शांतिकामः शमीमयैः ।
जुहुयादाज्यसंमिश्रेस्तर्पण मार्जनं ततः ॥ २ ॥
जप्त्वा लक्षं सुपुत्रार्थी पायसं जुहुयात्ततः ।
वित्तार्थी श्रीफलैर्होममायुष्कामस्तु दूर्वया ॥ ३ ॥
तिलैराज्येन संमिश्रेस्तेस्कामो घृतेन वै ।
व्रीहिभिः पशुकामस्तु राष्ट्रकामस्तु वै यवैः ॥ ४ ॥
पायसं सर्वकामेन होतव्यं शर्करान्वितम् ।
मध्वक्तान्याम्रपत्राणि तीव्रज्वरविनाशिनी ॥ ५ ॥
हिमभूतज्वरार्थं तु गुडूचीभिर्हनेद् ध्रुवम् ।
सर्वरोग विनाशाय सूर्यस्याभिमुखो जपेत् ॥ ६ ॥
अयुते द्वे जपा होमः कार्योऽर्क समिधा शुभः ।
औदुम्बरैरन्नकामस्तेजस्कामस्तु बादरैः ॥ ७ ॥
अपामार्ग समिध होमात् भूतबाधा विनश्यति ।
ग्रहबाधा विनाशाय जपेत् अश्वत्थसन्निधौ ॥ ८ ॥
लवणान्वित दध्यक्तास्तीक्ष्णाग्राश्वत्थ संभवा ।
हूयंते समिधः शुष्काः स्वाहांतं मन्त्रमुच्चरेत् ॥ ९ ॥
लाजाहोमेन कन्यार्थी कन्या प्राप्नोगति रूपिणीम् ।
लाजाश्चमधुसंमिश्राः श्वेतपुष्पाणि वा पुनः ॥ १० ॥
हुयंते हरिते देशे तस्य विश्वं वशेभवेत् ॥
वामाङ्ग मुत्तमं कार्यं स्त्रीवशित्वे विचक्षणैः ॥ ११ ॥

होम के स्थान पर जलकुंभ रखें उसको स्पर्श करके १ हजार जप करे उसके जल से अभिषेक द्वारा व शाला को प्रोक्षण करने पर सभी अरिष्ट की शांति होती है ।
लाजा होम से पुरुष वाञ्छित पत्नि व कन्या वाञ्छित पति को प्राप्त करता है । वृष्टि कामना हेतु तिलों से पलाश समिध से होम करें । वास्तुपूजा, ईशान को बलिद्रव्य आदि प्रदान कर विधिवत् कार्य करें ।

॥ इति त्वरितरुद्र प्रयोगः ॥

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.