October 8, 2019 | Leave a comment ॥ नवदुर्गा प्रार्थना व ध्यान ॥ वंदे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् । वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम् ॥ १ ॥ दधाना करपद्माभ्यामक्षमाला कमण्डलू । देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥ २ ॥ पिण्डजप्रवरारूढा चण्डकोपास्त्रकैर्युता । प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥ ३ ॥ सुरासम्पूर्णकलशं रुधिराप्लुतमेव च । दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥ ४ ॥ सिंहासनगता नित्यं पद्माञ्चितकरद्वया । शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥ ५ ॥ चन्द्रहासोज्ज्वलकरा शार्दूलवर वाहना । कात्यायनी शुभं दद्याद्देवी दानवघातिनी ॥ ६ ॥ एकवेणी जपाकर्णपूरा नग्ना खरास्थिता । लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्त शरीरिणी ॥ ६ ॥ वामपादोल्लसल्लोहलताकण्टक- भूषणा । वर्धन्मूर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥ ७ ॥ श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः । महागौरी शुभं दद्यान्महादेव प्रमोददा ॥ ८ ॥ सिद्धगंधर्व यक्षाद्यैरसुरैरमरैरपि । सेव्यमाना सदाभूयात् सिद्धिदा सिद्धिदायिनी ॥ ९ ॥ Related