January 3, 2016 | Leave a comment ।। श्रीगुरु स्तोत्रम् ।। ।। ॐ नम: श्रीनाथाय ।। ।। श्रीमहादेव्युवाच ।। गुरोरर्मन्त्रस्य देवस्य धर्मस्य तस्य एव वा । विशेषस्तु महादेव ! तत् वदस्व दयानिधे ।। ।। श्रीमहादेव उवाच ।। जीवात्मनं परमात्मनं दानं ध्यानं योगो ज्ञानम् । उत्कलकाशीगङ्गामरणं न गुरोरधिकं न गुरोरधिकम् ।। १ ।। प्राणं देहं गेहं राज्यं स्वर्गं भोगं योगं मुक्तिम् । भार्यामिष्टं पुत्रं मित्रं न गुरोरधिकं न गुरोरधिकम् ।। २ ।। वानप्रस्थं यतिविधधर्मं पारमहंस्यं भिक्षुकचरितम् । साधो: सेवां बहुसुखभुक्तिं न गुरोरधिकं न गुरोरधिकम् ।। ३ ।। vaficjagat विष्णोभक्तिं पूजनरक्तिं वैष्णवसेवां मातरिभक्तिम् । विष्णोरिव पितृसेवनयोगं न गुरोरधिकं न गुरोरधिकम् ।। ४ ।। प्रत्याहारं चेन्द्रिययजनं प्राणायां न्यास विधानम् । इष्टे पूजा जप तपभक्तिर्न न गुरोरधिकं न गुरोरधिकम् ।। ५ ।। काली दुर्गा कमला भुवना त्रिपुरा भीमा बगला पूर्णा । श्रीमातङ्गी धूमा तारा न गुरोरधिकं न गुरोरधिकम् ।। ६ ।। मात्स्यं कौर्मं श्रीवाराहं नरहरिरूपं वामनचरितत् । नरनारायण चरितं योगं न गुरोरधिकं न गुरोरधिकम् ।। ७ ।। श्रीभृगुदेवं श्रीरघुनाथं श्रीयदुनाथं बौद्धं कल्क्यम् । अवतारा दश वेदविधानं न गुरोरधिकं न गुरोरधिकम् ।। ८ ।। गङ्गा काशी काञ्ची द्वारा मायाऽयोध्याऽवन्ती मथुरा । यमुना रेवा पुष्करतीर्थं न गुरोरधिकं न गुरोरधिकम् ।। १ ।। गोकुलगमनं गोपुररमणं श्रीवृन्दावनमधुपुररटनम् । एतत् सर्वसुन्दरि ! मातर्न गुरोरधिकं न गुरोरधिकम् ।। १० ।। तुलसीसेवा हरिहरभक्ति: गङ्गासागरसङ्ममुक्ति: । किमपरमधिक कृष्णेभकिर्न गुरोरधिकं न गुरोरधिकम् ।। ११ ।। एतस्तोत्रं पठति च नित्यं मोक्षज्ञानी सोऽपि च धन्यम् । ब्रह्माण्डान्तर्यद्-यद्ध्येयंनगुरोरधिकं न गुरोरधिकम् ।। १२ ।। ।। वृहद्विज्ञान परमेश्वरतंत्रे त्रिपुराशिवसंवादे श्रीगुरोःस्तोत्रम् ।। Related