August 7, 2019 | aspundir | Leave a comment ॥ श्रीमहाकालसहस्रनामस्तोत्रम् ॥ श्रीप्रकृष्टनन्दोक्तागमे ॥ ऋषिरुवाच ॥ महाकालसहस्रं तु श्रोतुमिच्छामि सुव्रत! । कथयस्व प्रसादेन शिष्याय वक्तुमर्हसि ॥ १ ॥ ॥ सूत उवाच ॥ सुधामयः सुतः श्रीमान् सुदामा नाम वै द्विजः । तेन गोपीपतिः कृष्णो विद्यामभ्यसितुङ्गतः ॥ २ ॥ सान्दीपनान्तिकेऽवन्त्यां गतौ तौ पठनार्थिनौ । चतुःषष्टिः कलाः सर्वाः कृता विद्याश्चतुर्दश ॥ ३ ॥ एकदा प्राह कृष्णं स सुदामा द्विजसत्तमः । ॥ सुदामोवाच ॥ महाकालं प्रतिबिल्वं केन मन्त्रेण वाऽर्पणम् ॥ ४ ॥ करोमि वद मे कृष्ण ! कृपया सात्त्वताम्पते ! । ॥ श्रीकृष्ण उवाच ॥ शृणु मित्र! महाप्राज्ञ! कथयामि तवाग्रतः ॥ ५ ॥ सहस्रं कालकालस्य महाकालस्य वै द्विज ! । सुगोप्यं सर्वदा विप्र! भक्तायाभाषितं मया ॥ ६ ॥ कुरु बिल्वार्पणं तेन येन त्वं विन्दसे सुखम् । सहस्रस्यास्य ऋष्योऽहं छन्दोऽनुष्टुप् तथैव च ॥ ७ ॥ देवः प्रोक्तो महाकालो विनियोगश्च सिद्धये । सङ्कल्प्यैवं ततो ध्यायेन्महाकालविभुं मुदा ॥ ८ ॥ विनियोगः –ॐ अस्य श्रीमहाकालसहस्रनामस्तोत्रमालामन्त्रस्य श्रीकृष्णऋषिः । अनुष्टुप्छन्दः । श्रीमहाकालो देवता । ॐ बीजं । नमः शक्तिः । महाकालायेति कीलकं । सर्वार्थसिद्ध्ये पाठे विनियोगः । ऋष्यादिन्यासः – ॐ श्रीकृष्णर्षये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । महाकालदेवतायै नमः हृदये । ॐ बीजाय नमः गुह्ये । नमः शक्तये नमः पादयोः । महाकालायेति कीलकाय नमः नाभौ । श्रीमहाकालप्रीतर्थे सहस्रनामस्तोत्रपाठे विनियोगाय नमः सर्वाङ्गे ॥ करन्यास एवं हृदयादिन्यास – करन्यासः – ॐ अङ्गुष्ठाभ्यां नमः । महाकालाय तर्जनीभ्यां नमः । नमः मध्यमाभ्यां नमः । ॐ अनामिकाभ्यां नमः । महाकालाय कनिष्ठिकाभ्यां नमः । नमः करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यास – ॐ हृदयाय नमः । महाकालाय शिरसे स्वाहा । नमः शिखायै वषट् । ॐ कवचाय हुम् । महाकालाय नेत्रत्रयाय वौषट् । नमः अस्त्राय फट् । व्यापक न्यास – ॐ महाकालाय नमः ॥ ॥ ध्यानम् ॥ कुङ्कुमागरु-कस्तूरी-केशरेण विचर्चितम् । नानापुष्पस्रजालङ्कृद्बिल्वमौलिवलान्वितम् ॥ ९ ॥ पुरो नन्दी स्थितो वामे गिरिराजकुमारिका । ब्राह्मणैरावृतं नित्यं महाकालमहं भजे ॥ १० ॥ ॥ इति ध्यानम् ॥ ॐ महाकालो महारूपो महादेवो महेश्वरः । महाप्राज्ञो महाशम्भुर्महेशो मोहभञ्जनः ॥ ११ ॥ मान्यो मन्मथहन्ता च मोहनो मृत्युनाशनः । मान्यदो माधवो मोक्षो मोक्षदो मरणापहा ॥ १२ ॥ मुहूर्तो मुनिवन्द्यश्च मनुरूपो मनुर्मनुः । मन्मथारिर्महाप्राज्ञो मनोनन्दो ममत्वहा ॥ १३ ॥ मुनीशो मुनिकर्ता च महत्त्वं महदाधिपः । मैनाको मैनकावन्द्यो मध्वरिप्राणवल्लभः ॥ १४ ॥ महालयेश्वरो मोक्षो मेघनादेश्वराभिधः । मुक्तीश्वरो महामुक्तो मन्त्रज्ञो मन्त्रकारकः ॥ १५ ॥ मङ्गलो मङ्गलाधीशो मध्यदेशपतिर्महान् । मागधो मन्मथो मत्तो मातङ्गो मालतीपति ॥ १६ ॥ माथुरो मथुरानाथो मालवाधीश-मन्युपः । मारुतिर्मीनपो मौनो मार्कण्डो मण्डलो मृडः ॥ १७ ॥ मधुप्रियो मधुस्नायी मिष्टभोजी मृणालधृक् । मञ्जुलो मल्लमोदज्ञो मोदकृन्मोददायकः ॥ १८ ॥ मुक्तिदो मुक्तरूपश्च मुक्तामालाविभूषितः । मृकण्डो मोदपो मोदो मोदकाशनकारकः ॥ १९ ॥ यज्ञो यज्ञपतिर्यज्ञो यज्ञेशो यज्ञनाशनः । यज्ञतेजा यशो योगी योगीशो योगदायकः ॥ २० ॥ यतिरूपो याज्ञवल्क्यो यज्ञकृद् यज्ञलुप्तहा । यज्ञमृद् यज्ञहा यज्ञो यज्ञभुग् यज्ञसाधकः ॥ २१ ॥ यज्ञाङ्गो यज्ञहोता च यज्वानो यजनो यतिः । यशःप्रदो यशःकर्ता यशो यज्ञोपवीतधृक् ॥ २२ ॥ यज्ञसेनो याज्ञिकश्च यशोदावरदायकः । यमेशो यमकर्ता च यमदूत-निवारणः ॥ २३ ॥ याचको यमुनाक्रीडो याज्ञसेनी-हितप्रदः । यवप्रियो यवरूपो यवनान्तो यवी यवः ॥ २४ ॥ ऋग्वेदो रोगहन्ता च रन्तिदेवो रणाग्रणीः । रैवतो रैवताधीशो रैवतेश्वर-संज्ञकः ॥ २५ ॥ रामेश्वरो रकारश्च रामप्रियो रमाप्रियः । रणी रणहरो रक्षो रक्षको ऋण-हारकः ॥ २६ ॥ रक्षिता राजरूपो राट् रवो रूपो रजःप्रदः । रामचन्द्रप्रियो राजा रक्षोघ्नो राक्षसाधिपः ॥ २७ ॥ राक्षसान् वरदो रामो राक्षसान्तकरो रथी । रथप्रियो रथस्थायी रथहा रथहारकः ॥ २८ ॥ रावणप्रियकृद् राव-स्वरूपश्च ऋतूरजः ॥ रति-वरप्रदाता च रन्तिदेव-वरप्रदः ॥ २९ ॥ राजधानीप्रदो रेतो रेवाभञ्जो रवी रजी । ऋत्विजो रसकर्ता च रसज्ञो रसदायकः ॥ ३० ॥ रुद्रो रुद्राक्षधृग् रौद्रो रत्नो रत्नैर्विभूषितः । रूपेश्वरो रमापूज्यो रुरु-राज्य-स्थलेश्वरः ॥ ३१ ॥ लक्षो लक्षपतिर्लिङ्गो लड्डुको लड्डुकप्रियः । लीलाम्बरधरो लाभो लाभदो लाभकृत् सदा ॥ ३२ ॥ लज्जारक्षो लघुरूपो लेखको लेखकप्रियः । लाङ्गलो लवणाब्धीशो लक्ष्मीपूजितलक्षकः ॥ ३३ ॥ लोकपालेश्वरो लम्पो लङ्केशो लम्पकेश्वरः । वहिर्नेत्रो वराङ्गश्च वसुरूपो वसुप्रदः ॥ ३४ ॥ वरेण्यो वरदो वेदो वेदवेदाङ्ग-पारगः । वृद्धकालेश्वरो वृद्धो विभवो विभवप्रद ॥ ३५ ॥ वेणुगीतप्रियो वैद्यो वाराणसीस्थितः सदा । विश्वेशो विश्वकर्ता च विश्वनाथो विनायकः ॥ ३६ ॥ वेदज्ञो वर्णकृद् वर्णो वर्णाश्रम-फलप्रदः । विश्ववन्द्यो विश्ववेत्ता विश्वावसुर्विभावसुः ॥ ३७ ॥ वित्तरूपो वित्तकर्ता वित्तदो विश्वभावनः । विश्वात्मा वैश्वदेवश्च वनेशो वनपालकः ॥ ३८ ॥ वनवासी वृषस्थायी वृषभो वृषभप्रियः । विल्वीदलप्रियो विल्वो विशालनेत्रसंस्थितः ॥ ३९ ॥ वृषध्वजो वृषाधीशो वृषभेशो वृषप्रियः । विल्वेश्वरो वरो वीरो वीरेशश्च वनेश्वरः ॥ ४० ॥ विभूति-भूषितो वेण्यो व्यालयज्ञोपवीतकः । विश्वेश्वरो वरानन्दो वटरूपो वटेश्वरः ॥ ४१ ॥ सर्वेशः सत्त्वः सारङ्गो सत्त्वरूपः सनातनः । सद्वन्द्यः सच्चिदानन्दः सदानन्दः शिवप्रियः ॥ ४२ ॥ शिवदः शिवकृत् साम्बः शशिशेखर-शोभनः । शरण्यः सुखदः सेव्यः शतानन्दवरप्रदः ॥ ४३ ॥ सात्त्विकः सात्त्वतः शम्भुः शङ्करः सर्वगः शिवः । सेवाफल-प्रदाता च सेवक-प्रतिपालकः ॥ ४४ ॥ शत्रुघ्नः सामगः शौरिः सेनानीः शर्वरीप्रियः । श्मशानी स्कन्दसद्वेदः सदा सुरसरित्प्रियः ॥ ४५ ॥ सुदर्शनधरः शुद्धः सर्वसौभाग्यदायकः । सौभाग्यः सुभगः सूरः सूर्यः सारङ्गमुक्तिदः ॥ ४६ ॥ सप्तस्वरश्च सप्ताश्वः सप्तः सप्तर्षिपूजितः । शितिकण्ठः शिवाधीशः सङ्गमः सङ्गमेश्वरः ॥ ४७ ॥ सोमेशः सोमतीर्थेशः सर्पधृक् स्वर्णकारकः । स्वर्णजालेश्वरः सिद्धः सिद्धेशः सिद्धिदायकः ॥ ४८ ॥ सर्वसाक्षी सर्वरूपः सर्वज्ञः शास्त्र-संस्कृतः । सौभाग्येश्वरः सिंहस्थः शिवेशः सिंहकेश्वरः ॥ ४९ ॥ शूलेश्वरः शुकानन्दः सहस्र-धेनुकेश्वरः । स्यन्दनस्थः सुराधीशः सनकाद्यर्चितः सुधीः ॥ ५० ॥ षडूर्मिः षट्-सुचक्रज्ञः षट्चक्रक-विभेदकः । षडाननः षडङ्गज्ञः षड्रसज्ञः षडाननः ॥ ५१ ॥ हरो हंसो हतारातिर्हिरण्यो हाटकेश्वरः । हेरम्बो हवनो होता हयरूपो हयप्रदः ॥ ५२ ॥ हस्तिदो हस्तित्वग्धारी हाहा-हूहू-वरप्रदः । हव्य-हेम-हविष्यान्नो हाटकेशो हविःप्रियः ॥ ५३ ॥ हिरण्यरेता हंसज्ञो हिरण्यो हाटकेश्वरः । हनुमदीशो हरो हर्षो हरसिद्धिपीठगः ॥ ५४ ॥ हैमो हैमालयो हूहू-हाहाहेतुर्हठो हठी । क्षत्रः क्षत्रप्रदः क्षत्री क्षेत्रज्ञः क्षेत्रनायकः ॥ ५५ ॥ क्षेमः क्षेमप्रदाता च क्षान्तिकृत् क्षान्तिवर्धनः । क्षीरार्णवः क्षीरभोक्ता क्षिप्राकूलक्षितेः पतिः ॥ ५६ ॥ क्षौद्ररसप्रियः क्षीरः क्षिप्रसिद्धिप्रदः सदा । ज्ञानो ज्ञानप्रदो ज्ञेयो ज्ञानातीतो ज्ञपो ज्ञयः ॥ ५७ ॥ ज्ञानरूपो ज्ञानगम्यो ज्ञानी ज्ञानवतांवरः । अजो ह्यनन्तश्चाव्यक्त आद्य आनन्ददायकः ॥ ५८ ॥ अकथ आत्मा ह्यान्दश्वाजेयो ह्यज आत्मभूः । आद्यरूपो ह्यरिच्छ्रेत्ताऽनामयश्चाप्यलौकिकः ॥ ५९ ॥ अतिरूपो ह्यखण्डात्मा चात्मज्ञानरतः सदा । आत्मवेत्ता ह्यात्मसाक्षी अनादिश्चान्तरात्मगः ॥ ६०॥ आनन्देशोऽविमुक्तेशश्चालर्केशोऽप्सरेश्वरः । आदिकल्पेश्वरोऽगस्त्यश्चाक्रूरेशोऽरुणेश्वरः ॥ ६१ ॥ इडारूप इभच्छ्रेत्ता ईश्वरश्चेन्दिरार्चितः । इन्दुरिन्दीवरश्चेश ईशानेश्वर ईर्षहा ॥ ६२ ॥ इज्य इन्दीवरश्चेभ इक्षुरिक्षुरस-प्रियः । उमाकान्त उमास्वामी तथोमायाः प्रमोदकृत् ॥ ६३ ॥ उर्वशी-वरद उच्चैरूरुत्तुङ्गधारकः । ? एकरूप एकस्वामी ह्येकात्मा चैकरूपवान् ॥ ६४ ॥ ऐरावत ऐस्थिरात्मा चैकारैश्वर्यदायकः । ओकार ओजस्वांश्चैव ह्यौखरश्चौखराधिपः ॥ ६५ ॥ औषध्य औषधिज्ञाता ह्योजोद औषधीश्वरः । अनन्तो ह्यन्तकश्चान्तो ह्यन्धकासुरसूदनः ॥ ६६ ॥ अच्युतश्चाप्रमेयात्मा अक्षरश्चाश्वदायकः । अरिहन्ता ह्यवन्तीशश्चाहिभूषणभृत् सदा ॥ ६७ ॥ अवन्तीपुरवासी चाप्यवन्तीपुर-पालकः । अमरश्चामराधीशो ह्यमरारिविहिंसकः ॥ ६८ ॥ कामहा कामकामश्च कामदः करुणाकरः । कारुण्यः कमलापूज्यः कपाली कलिनाशनः ॥ ६९ ॥ कामारिकृत् कल्लोलः कालिकेशश्च कालजित् । कपिलः कोटितीर्थेशः कल्पान्तः कालहा कविः ॥ ७० ॥ कालेश्वरः कालकर्ता कल्पाब्धिः कल्पवृक्षकः । कोटीश कामधेन्वीशः कुशलः कुशलप्रदः ॥ ७१ ॥ किरीटी कुण्डली कुन्ती कवची कर्परप्रियः । कर्पूराभः कलादक्षः कलाज्ञः किल्विषापहा ॥ ७२ ॥ कुक्कुटेशः कर्कटेशः कुलदः कुलपालकः । कञ्जाभिलाषी केदारः कुङ्कुमार्चितविग्रहः ॥ ७३ ॥ कुन्दपुष्पप्रियः कञ्जः कामारिः कामदाहकः । कृष्णरूपः कृपारूपश्चाथ कृष्णार्चिताङ्घ्रिकः ॥ ७४ ॥ कुण्डः कुण्डेश्वरः काण्वः केशवैः परिपूजितः । कामेश्वरः कलानाथः कण्ठेशः कुङ्कुमेश्वरः ॥ ७५ ॥ कन्थडेशः कपालेशः कायावरोहणेश्वरः । करभेशः कुटुम्बेशः कर्केशः कौशलेश्वरः ॥ ७६ ॥ कोशदः कोशभृत् कोशः कौशेयः कौशिकप्रियः । खचरः खचराधीशः खचरेशः खरान्तकः ॥ ७७ ॥ खेचरैः पूजितपदः खेचरीसेवकप्रियः । खण्डेश्वरः खड्गरूपः खड्गग्राही खगेश्वरः ॥ ७८ ॥ खेटः खेटप्रियः खण्डः खण्डपालः खलान्तकः । खाण्डवः खाण्डवाधीशः खड्गता-सङ्गमस्थितः ॥ ७९ ॥ गिरिशो गिरिजाधीशो गजारित्वग्विभूषितः । गौतमो गिरिराजश्च गङ्गाधरो गुणाकरः ॥ ८० ॥ गौतमीतटवासी च गालवो गोपतीश्वरः । गोकर्णो गोपतिर्गर्वो मजारिर्गरुडप्रियः ॥ ८१ ॥ गङ्गामौलिर्गुणग्राही गारुडीविद्यया युतः । गुरोर्गुरुर्गजारातिर्गोपालो गोमतीप्रियः ॥ ८२ ॥ गुणदो गुणकर्ता च गणेशो गणपूजितः । गणको गौरवो गर्गो गन्धर्वेण प्रपूजितः ॥ ८३ ॥ गोरक्षो गुर्विणीत्राता गेहो गेहप्रदायकः । गीताध्यायी गयाधीशो गोपतिर्गीतमोहितः ॥ ८४ ॥ गिरातीतो गुणातीतो गडःगेशो गुह्यकेश्वरः । ग्रहो ग्रहपतिर्गम्यो ग्रहपीडानिवारणः ॥ ८५ ॥ घटनादिर्घनाधारो घनेश्वरो घनाकरः । घुश्मेश्वरो घनाकारो घनरूपो घनाग्रणीः ॥ ८६ ॥ घण्टेवरो घटाधीशो घर्घरो घस्मरापहा । घुष्मेशो धोषकृद् घोषी घोषाघोषो घनध्वनिः ॥ ८७ ॥ घृतप्रियो घृताब्धीशो घण्टो घण्टघटोत्कचः । घटोत्कचाय वरदो घटजन्मा घटेश्वरः ॥ ८८ ॥ घकारो ङकृतो ङश्च ङकारो ङकृताङ् गजः । चराचरश्चिदानन्दश्चिन्मयश्चन्द्रशेखरः ॥ ८९॥ चन्द्रेश्वरश्चामरेशश्चामरेण विभूषितः । चामरश्चामराधीशश्चराचरपतिश्चिरः ॥ ९० ॥ चमत्कृतश्चन्द्रवर्णश्चर्मभृच्चर्म चामरी । चाणक्यश्चर्मधारी च चिरचामरदायक ॥ ९१ ॥ च्यवनेशश्चरुश्चारुश्चन्द्रादित्येश्वराभिधः । चन्द्रभागाप्रियश्चण्डश्चामरैः परिवीजितः ॥ ९२ ॥ छत्रेश्वरश्छत्रधारी छत्रदश्छलहा छली । छत्रेशश्छत्रकृच्छत्री छन्दविच्छन्ददायकः ॥ ९३ ॥ जगन्नाथो जनाधारो जगदीशो जनार्दनः । जाह्नवीधृग् जगत्कर्ता जगन्मयो जनाधिपः ॥ ९४ ॥ जीवो जीवप्रदाता च जेताऽथो जीवनप्रदः । जङ्गमश्च जगद्धाता जगत्केन-प्रपूजितः ॥ ९५ ॥ जटाधरो जटाजूटी जटिलो जलरूपधृक् । जालन्धर-शिरश्छ्रेत्ता जलजाङ्घ्रिर्जगत्पतिः ॥ ९६ ॥ जनत्राता जगन्निधिर्जटेश्वरो जलेश्वरः । झर्झरो झरणाकारी झूञ्झकृ झूझहा झरः ॥ ९७ ॥ ञकारश्च ञमुवासी ञजनप्रियकारकः । टकारश्च ठकारश्च डामरो डमरुप्रियः ॥ ९८ ॥ डण्डधृग् डमरुहस्तो डाकिहृड्डमकेश्वरः । ढुण्ढो ढुण्ढेश्वरो ढक्को ढक्कनादप्रियः सदा ॥ ९९ ॥ णकारो णस्वरूपश्च णुणो-णिणो-णकारण । तन्त्रज्ञस्त्र्यम्बकस्तन्त्रीतुम्बुरुस्तुलसीप्रियः ॥ १०० ॥ तूणीरधृक् तदाकारस्ताण्डवी ताण्डवेश्वरः । तत्त्वज्ञस्तत्त्वरूपो च तात्त्विकस्तरविप्रभः ॥ १०१ ॥ त्रिनेत्रस्तरुणस्तत्त्वस्तकारस्तलवासकृत् । तेजस्वी तेजोरूपी च तेजःपुञ्जप्रकाशकः ॥ १०२ ॥ तान्त्रिकस्तन्त्रकर्ता च तन्त्रविद्या-प्रकाशकः । ताम्ररूपस्तदाकारस्तत्त्वदस्तरणिप्रियः ॥ १०३ ॥ तान्त्रेयस्तमोहा तन्वी तामसस्तामसापहा । ताम्रस्ताम्रप्रदाता च ताम्रवर्णस्तरुप्रियः ॥ १०४ ॥ तपस्वी तापसी तेजस्तेजोरूपस्तलप्रियः । तिलस्तिलप्रदाता च तूलस्तूलप्रदायकः ॥ १०५ ॥ तापीशस्ताम्रपर्णीशस्तिलकस्त्राणकारकः । त्रिपुरघ्नस्त्रयातीतस्त्रिलोचनस्त्रिलोकपः ॥ १०६ ॥ त्रिविष्टपेश्वरस्तेजस्त्रिपुर-पुरदाहकः । तीर्थस्तारापतिस्त्राता ताडिकेशस्तडिज्जवः ॥ १०७ ॥ थकारश्च स्थुलाकारः स्थूलः स्थविरः स्थानदः । स्थाणुः स्थायी स्थावरेशः स्थम्भः स्थावरपीडहा ॥ १०८ ॥ स्थूलरूपस्थितेः कर्ता स्थूलदुःखविनाशनः । थन्दिलस्थदलः स्थाल्यस्थलकृत् थलभृत् स्थली ॥ १०९ ॥ थलेश्वरस्थलाकारस्थलाग्रजस्थलेश्वरः । दक्षो दक्षहरो द्रव्यो दुन्दुभिवरदायकः ॥ ११० ॥ देवो देवाग्रजो दानो दानवारिर्दिनेश्वरः । देवकृद् देवभृद् दाता दयारूपी दिवस्पतिः ॥ १११ ॥ दामोदरो दलाधारो दुग्धस्नायी दधिप्रियः । देवराजो दिवानाथो देवज्ञो देवताप्रियः ॥ ११२ ॥ देवदेवो दानरूपो दूर्वादलप्रियः सदा । दिग्वासा दरभो दन्तो दरिद्रघ्नो दिगम्बरः ॥ ११३ ॥ दीनबन्धुर्दुराराध्यो दुरन्तो दुष्टदर्पहा । दक्षघ्नो दक्षहन्ता च दक्षजामात देवजित् ॥ ११४ ॥ द्वन्द्वहा दुःखहा दोग्धा दुर्धरो दुर्धरेश्वरः । दानाप्तो दानभृद् दीप्तदीप्तिर्दिव्यो दिवाकरः ॥ ११५ ॥ दम्भहा दम्भकृद् दम्भी दक्षजापतिर्दीप्तिमान् । धन्वी धनुर्धरो धीरो धान्यकृद् धान्यदायकः ॥ ११६ ॥ धर्माधर्मभृतो धन्यो धर्ममूर्तिर्धनेश्वरः । धनदो धूर्जटिर्धान्यो धामदो धार्मिको धनी ॥ ११७ ॥ धर्मराजो धनाधारो धराधर-धरापतिः । धनुर्विद्याधरो धूर्तो धूलिधूसरविग्रहः ॥ ११८ ॥ धनुषो धनुषाकारो धनुर्धरभृतांवरः । धरानाथो धराधीशो धनेशो धनदाग्रजः ॥ ११९ ॥ धर्मभृद् धर्मसन्त्राता धर्मरक्षो धनाकरः । नर्मदो नर्मदाजातो नर्मदेशो नृपेश्वरः ॥ १२० ॥ नागभुन्नागलोकेशो नागभूषणभूषितः । नागयज्ञोपवीतेयो नगो नागारिपूजितः ॥ १२१ ॥ नान्यो नरवरो नेमो नूपुरो नूपुरेश्वरः । नागचण्डेश्वरो नागो नगनाथो नगेश्वरः ॥ १२२ ॥ नीलगङ्गाप्रियो नादो नवनाथो नगाधिपः । पृथुकेशः प्रयागेशः पत्तनेशः पराशरः ॥ १२३ ॥ पुष्पदन्तेश्वरः पुष्पः पिङ्गलेश्वरपूर्वजः । पिशाचेशः पन्नगेशः पशुपतीश्वरः प्रियः ॥ १२४ ॥ पार्वतीपूजितः प्राणः प्राणेशः पापनाशनः । पार्वतीप्राणनाथश्च प्राणभृत् प्राणजीवनः ॥ १२५ ॥ पुराणपुरुषः प्राज्ञः प्रेमज्ञः पार्वतीपतिः । पुष्करः पुष्कराधीशः पात्रः पात्रैः प्रपूजितः ॥ १२६ ॥ पुत्रदः पुण्यदः पूर्णः पाटाम्बरविभूषितः । पद्माक्षः पद्मस्रग्धारी पद्मेन परिशोभितः ॥ १२७ ॥ फणिभृत् फणिनाथश्च फेनिकाभक्षकारकः । स्फटिकः फर्शुधारी च स्फटिकाभः फलप्रदः ॥ १२८ ॥ बद्रीशो बलरूपश्च बहुभोजी बटुर्बटुः । बालखिल्यार्चितो बालो ब्रह्मेशो ब्राह्मणार्चितः ॥ १२९ ॥ ब्राह्मणो ब्रह्महा ब्रह्मा ब्रह्मज्ञो ब्राह्मणप्रियः । ब्राह्मणस्थो ब्रह्मरूपो ब्राह्मण-परिपालकः ॥ १३० ॥ ब्रह्ममूर्तिर्ब्रह्मस्वामी ब्राह्मणैः परिशोभितः । ब्राह्मणारिहरो ब्रह्म ब्राह्मणास्यैः प्रतर्पितः ॥ १३१ ॥ भूतेशो भूतनाथश्च भस्माङ्गो भीमविक्रमः । भीमो भवहरो भव्यो भैरवो भयभञ्जनः ॥ १३२॥ भूतिदो भुवनाधारो भुवनेशो भृगुर्भवः । भारतीशो भुजङ्गेशो भास्करो भिन्दिपालधृक् ॥ १३३ ॥ भूतो भयहरो भानुर्भावनो भवनाशनः । सहस्रनामभिश्चैतैर्महाकालः प्रसीदतु ॥ १३४ ॥ अथ महाकाल-सहस्रनाम-माहात्म्यम् । ॥ सूत उवाच ॥ इतीदं कीर्तितं तेभ्यो महाकालसहस्रकम् । पठनात् श्रवणात् सद्यो धूतपापो भवेन्नरः ॥ १३५ ॥ एकवारं पठेन्नित्यं सर्वसत्यं प्रजायते । द्विवारं यः पठेत् सत्यं तस्य वश्यं भवेज्जगत् ॥ १३६ ॥ त्रिवारं पठनान्मर्त्यो धनधान्ययुतो भवेत् । अतः स्थान-विशेषस्येदानीं पाठफलं शृणु ॥ १३७ ॥ वटमूले पठेन्नित्यमेकाकी मनुजो यदि । त्रिवारञ्च दिनत्रिंशत् सिद्धिर्भवति सर्वथा ॥ १३८॥ अश्वत्थे तुलसीमूले तीर्थे वा हरिहरालये । शुचिर्भूत्वा पठेद्यो हि मनसा चिन्तितं लभेत् ॥ १३९ ॥ यत्र तीर्थेऽस्ति चाश्वत्यो वटो वा द्विजसत्तम! स तीर्थः सिद्धिदः सर्वपाठकस्य न संशयः ॥ १४० ॥ तत्रैकाग्रमना भूत्वा यः पठेच्छुभमानसः । यं यं काममभिध्यायेत् तं तं प्राप्नोति निश्चितम् ॥ १४१ ॥ मनसा चिन्तितं सर्वं महाकालप्रसादतः । लभते सकलान् कामान् पठनाच्छ्रवणान्नरः ॥ १४२ ॥ शतावर्तं पठेद् यत्र चिन्तितं लभते ध्रुवम् । दुःसाध्यः सोऽपि साध्यः स्याद् दिनान्येकोनवींशतेः ॥ १४३ ॥ शिवरात्रिदिने मर्त्य उपवासी जितेन्द्रियः । निशामध्ये शतावर्तपठनाच्चिन्तितं लभेत् ॥ १४४ ॥ सहस्रावर्तनं तत्र तीर्थे ह्यश्वत्थसन्निधौ । पठनाद् भुक्तिर्मुक्तिश्च भवतीह कलौ युगे ॥ १४५ ॥ तद्दशांशः क्रियाद्धोमं तदृशांशं च तर्पणम् । दशांशं मार्जयेन्मर्त्यः सर्वसिद्धिः प्रजायते ॥ १४६ ॥ गतं राज्यमवाप्नोति वन्ध्या पुत्रवती भवेत् । कुष्ठरोगाः प्रणश्यन्ति दिव्यदेहो भवेन्नरः ॥ १४७ ॥ सहस्रावर्तपाठेन महाकालप्रियो नरः । महाकालप्रसादेन सर्वसिद्धिः प्रजायते ॥ १४८ ॥ शापानुग्रहसामर्थ्यं भवतीह कलौ युगे । सत्यं सत्यं न सन्देहः सत्यञ्च गदितं मम ॥ १४९ ॥ कोटितीर्थे पठेद् विप्र! महाकालः प्रसीदति । पाठाच्च रुद्रसरसि कुष्ठपीडा निवर्तते ॥ १५० ॥ सिद्धपीठे पठेद् यो हि तस्य वश्यं भवेज्जगत् । शिप्राकूले पठेत् प्राज्ञो धनधान्ययुतो भवेत् ॥ १५१ ॥ कालत्रयं पठेद् यश्च शत्रु-निर्मूलनं भवेत् । अपमृत्युमपाकुर्यात् पठनाद् भैरवालये ॥ १५२ ॥ सिद्धवटस्य च्छायायां पठते मनुजो यदि । वन्ध्यायां जायते पुत्रश्चिरञ्जीवी न संशयः ॥ १५३ ॥ औखरे पठनात् सद्यो भूतपीडा निवर्तते । गयाकूपे पठेद् यो हि तुष्टाः स्युः पितरस्ततः ॥ १५४ ॥ गोमत्याञ्च पठेन्नित्यं विष्णुलोकमवाप्नुयात् । अङ्कपाते पठेद् यो हि धूतपापः प्रमुच्यते ॥ १५५ ॥ खड्गतासङ्गमे सद्यः खड्गसिद्धिमवाप्नुयात् । पठेद् यमतडागे यो यमदुःखं न पश्यति ॥ १५६ ॥ नवनद्यां पठेद् यो हि ऋद्धिसिद्धिपतिर्भवेत् । योगिनीपुरतः पाठं महामारीभयं न हि ॥ १५७ ॥ पुत्रपौत्रयुतो मर्त्यो वृद्धकालेश्वरान्तिके । पाठस्थाने घृतं दीपं नित्यं ब्राह्मणभोजनम् ॥ १५८ ॥ एकादशाथवा पञ्च त्रयो वाऽप्येकब्राह्मणः । भोजनं च यथासाध्यं दद्यात् सिद्धि-समुत्सुकः ॥ १५९ ॥ विधिवद् भक्तिमान् श्रद्धायुक्तो भक्तः सदैव हि । पठन् यजन् स्मरँश्चैव जपन् वापि यथामति ॥ १६० ॥ महाकालस्य कृपया सकलं भद्रमाप्नुयात् । ॥ इति श्रीप्रकृष्टनन्दोक्तागमे श्रीकृष्णसुदाम्नः संवादे महाकालसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Related