कामाख्या-कवच महा-भागवत पुराणोक्त ‘कामाख्या-कवच’ श्री महादेव उवाच (पूर्व-पीठिका)- अमायां वा चतुर्दश्यामष्टम्यां वा दिन-क्षये। नवम्यां रजनी-योगे, योजयेद् भैरवी-मनुम्।। क्षेत्रेऽस्मिन् प्रयतो भूत्वा, निर्भयः साहसं वहन्। तस्य साक्षाद् भगवती, प्रत्यक्षं जायते ध्रुवम्।। आत्म-संरक्षणार्थाय, मन्त्र-संसिद्धयेऽपि च। यः पठेत् कवचं देव्यास्ततो भीतिर्न जायते।। तस्मात् पूर्वं विधायैवं, रक्षां सावहितो नरः। प्रजपेत् स्वेष्ट-मन्त्रस्तु, निर्भीतो मुनि-सत्तम!।।… Read More