अभीष्ट फल-दायक सदा-शिव-कवच
भगवान् शिव का प्रस्तुत कल्याणकारी कवच अत्यन्त छोटा है और प्रायः अनुभूत है । आशा है, भक्त-जन इसका प्रातः-काल नित्य-पाठ कर इससे लाभ उठाएँगे । इस कवच के पाठ से सभी कामनाओं की पूर्ति एवं सर्व प्रकार से रक्षा होती है ।

।।श्रीदेवी उवाच।।
भगवन् देव-देवेश ! सर्वाम्नाय-प्रपूजित!
सर्वं मे कथितं देव ! कवचं न प्रकाशितम्।।१
प्रासादाख्यस्य मन्त्रस्य, कवचं मे प्रकाशय।
सर्व-रक्षा-करं देव ! यदि स्नेहोऽस्ति मां प्रति।।२
।।श्री भगवानुवाच।।
विनियोगः-
ॐ अस्य प्रासाद-मन्त्र-कवचस्य श्री वाम-देव ऋषिः । पंक्तिश्छन्दः। सदा-शिवः देवता। सकलाभीष्ट-सिद्धये जपे विनियोगः।
ऋष्यादि-न्यासः- श्री वाम-देव ऋषये नमः शिरसि। पंक्तिश्छन्दसे नमः मुखे। सदा-शिवः देवाय नमः हृदि। सकलाभीष्ट-सिद्धये जपे विनियोगाय नमः सर्वांगे।
।।मूल पाठ।।
शिरो मे सर्वदा पातु, प्रासादख्यः सदा-शिवः ।
षडक्षर-स्वरुपो मे, वदनं तु महेश्वरः ।।१
पञ्चाक्षरात्मा भगवान्, भुजौ मे परि-रक्षतु ।
मृत्युञ्जयस्त्रि-बीजात्मा, आस्यं रक्षतु मे सदा ।।२
वट-मूलं समासीनो, दक्षिणामूर्तिरव्ययः ।
सदा मां सर्वतः पातु, षट्-त्रिंशार्ण-स्वरुप-धृक् ।।३
द्वा-विंशार्णात्मको रुद्रो, दक्षिणः परि-रक्षतु ।
त्रि-वर्णात्मा नील-कण्ठः, कण्ठं रक्षतु सर्वदा ।।४
चिन्ता-मणिर्बीज-रुपो, ह्यर्द्ध-नारीश्वरो हरः ।
सदा रक्षतु मे गुह्यं, सर्व-सम्पत्-प्रदायकः ।।५
एकाक्षर-स्वरुपात्मा, कूट-व्यापि महेश्वरः ।
मार्तण्ड-भैरवो नित्यं, पादौ मे परि-रक्षतु ।।६
तुम्बुराख्यो महा-बीज-स्वरुपस्त्रिपुरान्तकः ।
सदा मां रण-भूमौ च, रक्षतु त्रि-दशाधिपः ।।७
ऊर्ध्वमूर्द्धानमीशानो, मम रक्षतु सर्वदा ।
दक्षिणास्यं तत-पुरुषः, पायान्मे गिरि-नायकः ।।८
अघोराख्यो महा-देवः, पूर्वास्यं परि-रक्षतु ।
वाम-देवः पश्चिमास्यं, सदा मे परि-रक्षतु ।।९
उत्तरास्यं सदा पातु, सद्योजात-स्वरुप-धृक् ।
इत्थं रक्षा-करं देवि ! कवचं देव-दुर्लभम् ।।१०
।। फल-श्रुति ।।
प्रातः-काले पठेद् यस्तु, सोऽभीष्टं फलमाप्नुयात् ।
पूजा-काले पठेद् यस्तु, कवचं साधकोत्तमः ।।११
कीर्ति-श्री-कान्ति-मेधायुः, सहितो भवति ध्रुवम् ।
तव स्नेहान्महा-देवि ! कथितं कवचं शुभम् ।।१२
।। इति भैरव-तन्त्रे सदा-शिव-कवचं ।।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.