June 10, 2019 | aspundir | Leave a comment ॥ अथ गुह्यकाली संजीवन स्तोत्रम् ॥ इस स्तोत्र को पढ़े बिना गुह्यकाली सहस्रनाम पठन का पूरा फल नहीं मिलता । अत: इस स्तोत्र का पाठ अवश्य करें । ॥ महाकाल उवाच ॥ इदं स्तोत्रं पुरा देव्या त्रिपुरघ्नाय कीर्तितम् । त्रिपुरघ्नोऽपि मां प्रादादुपदिश्य मनुं प्रिये ॥ १ ॥ गद्याकारं च स विभुः स्तोत्रं तस्यै चकार ह । ततः प्रभृति गद्यं तत् जीवन्यासाभिधं मतम् ॥ २ ॥ नाम्नां सहस्त्रं पठता पाठ्यं तदपि पार्वति । एतस्याः कीर्तनाद्देवि तस्यापि न भवेत् फलम् ॥ ३ ॥ आख्यातव्यमतो यत्नादेतत् गद्यमपि प्रिये । तस्य स्तोत्रस्य हि यतो जीवन्यासोऽयमीरितः ॥ ४ ॥ ॥ त्रिपुरघ्न उवाच ॥ ओं फ्रें ह्रीं छ्रीं हूं स्त्रीं श्रीं क्लीं ख्फ्रें नमो भगवत्यै गुह्यकाल्यै जय जय जय महाचण्डयोगेश्वरि चण्डकापालिनि सिद्धिकरालि विकरालि कालि – कापालिनि -त्रिजगतीपालिनि सृष्टि-स्थिति-संहारानाख्या भासाभिध-पञ्चरूप-धारिणि ब्रह्म-विष्णु-रुद्रावतारिणि प्रलयकारिणि महामारी-मारिणि महाघोरतर – पञ्चकालानल – वासिनि अट्टाट्टहासिनि ब्रह्मविद्या-प्रकाशिनि नवपञ्च-चक्रलयिनि महाभीषण-भुजङ्गबलयिनि त्रिभुवनजयिनि अध्यासित श्मशानज्वालजाले चन्द्रखण्डाङ्कितभाले परेतसुरासुरनिकरकीकश रचितग्रैवैयकभाले प्रविस्रस्त महापिङ्गलजटाभारे मृतब्रह्मकपालहारे त्रिभुवनसारे प्रदीपकेशरि गोमायुप्लवगसिंहभल्लूकमनुजसुपर्णमातङ्ग -मकरतरगाननाकारदशवदने कटकटायमानशित दीर्घवदने कृतदितिजदनुजकदने सप्तविंशति लोचने महाविततसंहारे पाशप्रमोचने कृतपरमसदाशिवमनःप्ररोचने शोणितोदशायिनि हालापायिनि महामायिनी रूधिरार्णवे द्वीपकृतावासे विहितपरमसदाशिव विलासे जयजनकमहादारुणहासे चतुर्वेद्य वेद्यानुभावे अध्यासितमहादावे घोरतररावे प्रज्वलत् पावक शिखान्तश्चारिणि महादुःखपापौघहारिणि भवभयतारिणी वृहल्लम्बमानोदरि तापत्रयहरि विश्वेश्वरि नवकोटिकुलाकुल चक्रप्रवर्तिनि निखिलरिपुकुलकर्तिनि महप्रलयकालर्तिनि चतुरशीतिकोटिब्रह्माण्डोत्पत्ति प्रतिपालसंहारशालिनि ब्रह्मेन्द्रोपेन्द्रमुण्डमालिनि महाचर्चरीकरतालिनि परापरसामरस्य रसमोहिनी भक्तजनमनोरथदोहिनी कालिकाकुलसमयसंदोहिनी वामकर्कशदोर्दण्ड विधृतरक्तमाला कपालचर्मपाशशक्ति खट्वाङ्ग मुण्डभुशुण्डी चापचक्रघण्टावाणप्रेत शिखरिणी मनुजकंकालनबभ्रु दर्वीकरोन्माद मुरलीमुद्गरवह्निकुण्ड डमरूपरिघ भिन्दिपालमुशल पट्टिशप्राशशतघ्नीशिवापोते दक्षिणभुजावलम्बितरत्नमालाकर्तृंका कृपाणतर्जनीसृणिदण्डे रत्नकुम्भत्रिशूलपञ्चपाशुपत वाणकुन्तपारिजात छुरिका तोमर कुसुममालाड़िण्डिमगृध्र कमण्डलु पललखण्डश्रुवबीजपूरसूची परशुगदायष्टिमुष्टिकुणपलालने नरमुण्डनक्षत्रमालालङ्कृते चतुर्दशभुवनसेवितपाद्मे दिगम्बरि सकलमन्त्रयन्त्रतन्त्राधिदैवते गुह्यातिगृहापरमशक्ति तत्त्वावतारे अष्टनागराजभूषित समस्तदोर्मण्डले वागगोचरे प्रपञ्चातीतनिष्कलतुरीयाकारे महाखेचरीसिद्धिदायिनी त्रिलोकीग्रासिनि वेदोपवेदाष्टदिक् पाल पञ्चप्रेतमयसिंहासनाधिरूढ़े नवकोटिमालामन्त्रमयकलेवरे महाविकरालतरे महाप्रलयकाल प्रकटिततमोगुणे परसदाशिवसङ्क्रामितनिजवैभवे समून्मूलितप्रणतनानाभवे ब्रह्मरन्धविनिविष्ट निजकान्तसामरस्य सिन्धुमज्जनोन्मज्जनप्रिये वीरघण्टाकिङ्किणी डमरुनिनादिते अपरिमिते बलपराक्रमे शुद्धविद्यासंप्रदाय संसिद्ध शुद्धचैतन्यस्वरूपे प्रकृत्यपरशिवनिर्वाणसाक्षिणी चण्डातिचण्डकाण्डखण्डितासुर समूहे भगमालिनि भगप्रिये भगातुरे भगाङ्किते भगरूपिणी भगलिङ्गद्राविणी कालचक्रनरसिंहाकारधारि परममहारुद्रसुरतरसलोलुपे महापिङ्गलकेशि व्योमकेशि नियुतवक्त्रकरचरणे त्रिलोकीशरणेदेह प्रभाजितमेघजाले त्रयस्त्रिंशत् कोटिमहादिव्यास्त्र सन्धानकारिणि महाशङ्खसमाकुलेखर्परविह (स्र ) स्तहस्ते विद्युत्कोटि दुर्निरीक्ष्ये शवमांसवसाकवलिनिवमदग्निमुखे फेरुकोटिपरिवृते नृत्यनिहित पादाघात परिवर्तित भूवलयधरेण भग्नीकृतकूर्मशेषनागभोगे मांसशोणितभोजिनि कुरुकुल्ले कृष्णतुण्डि रक्तमुखिचण्डे शवरि पीवरे रक्षिके यमघण्टे चर्चिके सकलमहोपद्रवप्रभजिनि सकलजनमनोरञ्जिनि महाभिचारकृत्यागञ्जिनि भक्तजनहृदयाधिनिर्दलिनि कोटिप्रचण्डदोर्वलिनि कैवल्यनिर्वाणनलिनि गुह्यकालि अरूपे विरूपे विश्वरूपे सिद्धिविद्ये महाविद्ये अजिते अलक्षते अमिते अद्वैते अपराजिते अप्रतिहते अगोचरे अव्यक्ते भद्रे सुभद्रे मातङ्गि किराति चाण्डालि द्राविणी भ्रामरि भ्रमरि उल्कापुञ्जिनि वेतण्डभण्डिनि प्रलयताण्डवमण्डिनि इन्द्रोपेन्द्रजननि मृत्युञ्जयगृहिणि सावित्रि गायत्रि महित्रि सवित्रि सरस्वति मेधे लक्ष्मीविभूतिप्रदे कुमारियुवतिवृद्धे सन्ध्ये महारात्रि मायूरि कुक्कुटि शान्तिकरि पुष्टिवर्द्धनि गङ्गे यमुने गोदावरि नर्मदे सदाशिवसहधर्मचारिणि महानिरयतारिणि कौलाचारव्रतिनि कौलाचारकुट्टिनि कुलधर्मरक्षिके अबीजे नानाबीजे जगद्वीजे बीजार्णवे अमूर्ते विमूर्ते नानामूर्ते मूर्त्यतीते सकलमूर्तिधरे ब्रह्माण्डेश्वरी ब्रह्माण्डकलेवरे कोटिब्रह्माण्डसृष्टिकारिणि सर्वेश्वरि सर्वेश्वरैकगम्ये सर्वैश्वर्यदायिनि सर्वसर्वेश्वरि प्रसीद प्रसीद प्रसीद फ्रें ख्फ्रें ह्स्ख् फ्रें हूं फट् हूं फट् हूं फट् नमः स्वाहा ओं । इति ते कथितं गद्यं त्रिपुरघ्नमुखोद्गतम् । पूर्वस्तवस्य ज्ञातव्यमिदं प्राणसमं प्रिये ॥ १ ॥ तत्पाठानन्तरं पाठ्यमेतद् यत्नेन पार्वति । तदैव लभते तस्य फलं झटिति नान्यथा ॥ २ ॥ गद्यस्योत्कीर्तनाद्देवि सर्वपापैः प्रमुच्यते । सर्वांश्च कामानाप्नोति सर्वांः सिद्धीश्च बिन्दति ॥ ३ ॥ मङ्गलानि च सर्वाणि लभते पाठ्मात्रतः । जगद्वशयति क्षिप्रं मोहयत्यपि पार्थिवान् ॥ ४ ॥ यान् यान् कामानभिध्यायन् पठत्युभयमीश्वरि । करामलकवत्तं तं कुरुते नात्र संशयः ॥ ५ ॥ चराचरमिदं विश्वं यत्किञ्चित् परिदृश्यते । नाकलोके च याः ख्याताः समस्ता देवयोनयः ॥ ६ ॥ पाताले मन्ति यावत्यो नागसपदिसृष्टयः । अधीश्वरी समस्तानां गुह्यकाली प्रकीर्तिता ॥ ७ ॥ सा देव्येतत्पाठकस्य वशीभूतेव तिष्ठति । इतः परं को महिमा किं फलं चास्य वर्ण्यताम् ॥ ८ ॥ पठितव्यमवश्यं ते पाठनीयाश्च बान्धवाः । भक्तेभ्यश्च प्रदातव्यमावयोः सुरवन्दिते ॥ ९ ॥ गोपनीयं नन्दिकेभ्यः सत्यं सत्यं वचो मम । ॥ इति सञ्जीवन स्तोत्र ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe