त्रयोदश-श्लोकी चण्डी
(त्रयोदश-श्लोकी दुर्गा)

पूर्व-पीठिका
।। श्रीशिव उवाच ।।

देवि ! त्वं भक्ति-सुलभे ! सर्व-कार्य-विधायिनी ।
कलौ हि कार्य-सिद्धयर्थमुपायं ब्रुहि यत्नतः ।।
।।श्रीदेवी उवाच ।।
श्रृणु देव ! प्रवक्ष्यामि, कलौ सर्वेष्ट-साधनम् ।
मया तवैव स्नेहेनाप्यम्बा-स्तुतिः प्रकाश्यते ।।
विनियोगः- ॐ अस्य श्रीदुर्गा-त्रयोदश-श्लोकी-चण्डी-स्तोत्र-मन्त्रस्य श्रीब्रह्मा-विष्णु-रुद्राः ऋषयः, गायत्र्युष्णिगनुष्टुभः छन्दांसि, श्रीमहा-काली-महा-लक्ष्मी-महा-सरस्वत्यो देवताः, श्रीनन्दा-शाकम्भरी-भीमाः शक्तयः, श्रीरक्त-दन्तिका-दुर्गा-भ्रामर्यः बीजानि, अग्नि-वायु-सूर्याः तत्त्वानि, ऋग्-यजुः-साम-वेदाः स्वरुपाणि, सकल-कामना-सिद्धये श्रीजगदम्बा-दुर्गा-प्रीत्यर्थं त्रयोदश-श्लोकी-चण्डी-पाठे विनियोगः ।
ऋष्यादि-न्यासः- श्रीब्रह्मा-विष्णु-रुद्राः ऋषिभ्यो नमः शिरसि, गायत्र्युष्णिगनुष्टुप् छन्दोभ्यो नमः मुखे, श्रीमहा-काली-महा-लक्ष्मी-महा-सरस्वत्यो देवताभ्यो नमः हृदि, श्रीनन्दा-शाकम्भरी-भीमाः शक्तिभ्यो नमः नाभौ, श्रीरक्त-दन्तिका-दुर्गा-भ्रामर्यः बीजेभ्यो नमः लिङ्गे, अग्नि-वायु-सूर्याः तत्त्वेभ्यो नमः गुह्ये, ऋग्-यजुः-साम-वेदाः स्वरुपेभ्यो नमः पादयोः, सकल-कामना-सिद्धये श्रीजगदम्बा-दुर्गा-प्रीत्यर्थं त्रयोदश-श्लोकी-चण्डी-पाठे विनियोगाय नमः सर्वाङ्गे ।

षडङ्ग-न्यास – कर-न्यास –  अंग-न्यास –
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा,
शङ्खिनी चापिनी बाण-भुशुण्डी-परिघायुधा –
अंगुष्ठाभ्यां नमः हृदयाय नमः
शूलेन पाहि नो देवि ! पाहि खड्गेन चाम्बिके !
घण्टा-स्वनेन नः पाहि चाप-ज्या-निःस्वनेन च –
तर्जनीभ्यां नमः शिरसे स्वाहा
प्राच्यां रक्ष प्रतीच्यां च चण्डिका ! रक्ष दक्षिणे,
भ्रामणेनात्म-शूलस्य उत्तरस्यां तथेश्वरि ! –
मध्यमाभ्यां नमः शिखायै वषट्
सौम्यानि यानि रुपाणि त्रैलोक्ये विचरन्ति ते
यानि चात्यर्थ-घोराणि तै रक्षास्मांस्तथा भुवम् –
अनामिकाभ्यां नमः कवचाय हुम्
खड्ग-शूल-गदादीनि यानि चास्त्राणि तेऽम्बिके !
कर-पल्लव-सङ्गीनि तैरस्मान् रक्ष सर्वतः-
कनिष्ठिकाभ्यां नमः नेत्र-त्रयाय वौषट्
सर्व-स्वरुपे ! सर्वेशे ! सर्व-शक्ति-समन्विते !
भयेभ्यस्त्राहि नो देवि ! दुर्गे ! देवि ! नमोऽस्तु ते –
 करतल-कर-पृष्ठाभ्यां नमः अस्त्राय फट्

ध्यानः-
ॐ खड्गं चक्रगदेषुचाप परिधाञ्छूलं भुशुण्डीं शिरः
शङ्खं संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्य पाददशकां सेवे महाकालिकाम्
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ।। १।।
ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां,
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ।। २।।
घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दशतीं घनान्तविलसच्छितांशुतुल्य प्रभाम् ।।
गौरीदेहसमुद्भुवां त्रिजगतामाधारभूतां महापूर्वामत्र
सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ।। ३।।
मानस-पूजनः-
ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीजगदम्बा-दुर्गा-प्रीतये समर्पयामि नमः ।
ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीजगदम्बा-दुर्गा-प्रीतये समर्पयामि नमः ।
ॐ यं वायु-तत्त्वात्मकं धूपं श्रीजगदम्बा-दुर्गा-प्रीतये घ्रापयामि नमः ।
ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीजगदम्बा-दुर्गा-प्रीतये दर्शयामि नमः ।
ॐ वं जल-तत्त्वात्मकं नैवेद्यं श्रीजगदम्बा-दुर्गा-प्रीतये निवेदयामि नमः ।
ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्रीजगदम्बा-दुर्गा-प्रीतये समर्पयामि नमः ।

।।मूल-पाठ ।।
यच्च किञ्चित् क्वचिद्-वस्तु, सदसद्-वाऽखिलात्मिके !
तस्य सर्वस्य या शक्तिः, सा त्वं की स्तूयसे तदा ।। १।।
सम्मानिता ननादोच्चैः, साट्टहासं मुहुर्मुहुः ।
तस्या नादेन घोरेण, कृत्स्नमापूरितं नभः ।। २।।
अर्ध-निष्क्रान्त एवासौ, युध्यमानो महाऽसुरः ।
तया महाऽसिना देव्या, शिरश्छित्वा निपातितः ।। ३।।
दुर्गे ! स्मृता हरसि भीतिमशेष-जन्तोः, स्वस्थैः स्मृता मतिमतीव-शुभां ददासि ।
दारिद्रय-दुःख-भय-हारिणि ! का त्वदन्या, सर्वोपकार-करणाय सदाऽऽर्द्र-चित्ता ।। ४।।
यो मां जयति संग्रामे, तो मे दर्पं व्यपोहति ।
यो मे प्रति-बलो लोके, स मे भर्ता भविष्यति ।। ५।।
इत्युक्त्वा सोऽभ्यधावत् तामसुरो धूम्र-लोचनः ।
हुंकारेणैव तं भस्म, सा चकाराम्बिका ततः ।। ६।।
भ्रुकुटी-कुटिलात् तस्याः, ललाट-फलकाद्-द्रुतम् ।
काली कराल-वदना, विनिष्क्रान्ताऽसि-पाशिनी ।। ७।।
ब्रह्मेश-गुह-विष्णुनां, तथेन्द्रस्य च शक्तयः ।
शरीरेभ्यो विनिष्क्रम्य, तद्-रुपैश्चण्डिकां ययुः ।। ८।।
तस्य निष्क्रामतो देवी, प्रहस्य स्वनवत् ततः ।
शिरश्चच्छेद खड्गेन, ततोऽसावपतद् भुवि ।। ९।।
एकैवाऽहं जगत्यत्र, द्वितीया का ममापरा ?
पश्यैता दुष्ट ! मय्येव, विशन्त्यो मद्-विभूतयः ।। १०।।
सर्व-स्वरुपे ! सर्वेशे ! सर्व-शक्ति-समन्विते !
भयेभ्यस्त्राहि नो देवि ! दुर्गे ! देवि ! नमोऽस्तु ते ।। ११।।
मधु-कैटभ-नाशं च, महिषासुर-घातनम् ।
कीर्तयिष्यन्ति ये तद्-वद्, वधं शुम्भ-निशुम्भयोः ।। १२।।
यत् प्रार्थ्यते त्वया भूप ! त्वया च कुल-नन्दन !
मत्तस्तत् प्राप्यतां सर्वं, परितुष्टा ददामि तत् ।। १३।।
।।फल-श्रुति।।
त्रिकालं यस्तु कामाक्षीं, पठेदेकान्त-चेतसा ।
स्वेष्टं सर्वं च प्राप्नोति, प्रसादेनाम्बया ध्रुवम् ।।
सम्पुटितं च कृत्वा यः, पठेत् सप्तशतीं नरः ।
स प्राप्य मानसी-सिद्धिं, भक्तः सौख्यं समश्नुते ।।
यश्च धारयते दिव्यं, यन्त्रं कृत्वा विधानतः ।
आधयस्तस्य नश्यन्ति, व्याधयश्चाप्यपोहते ।।
भूत-प्रेत-भयो नास्ति, शत्रु-शस्त्र-भयो नहि ।
डाकिनी-शाकिनी-नाशः, भवत्यम्बाऽनुकम्पया ।।
यश्चानुष्ठीयते प्रेम्णा, देवीं दुर्गामिमां नरः ।
सर्व-काम्यं स प्राप्नोति, ध्रुवं दुर्गाऽनुकम्पया ।।
सन्ततिं धन-धान्यं च, पाठ-मात्रेण केवलम् ।
सौभाग्यं राज-सम्मानं, लभतेऽहर्निशं ध्रुवम् ।।
।। क्षमा-प्रार्थना ।।
ॐ यदक्षरं परिभ्रष्टं, मात्रा-हीनं तु यद् भवेत् !
तत् सर्वं क्षम्यतां देवि ! प्रसीद परमेश्वरि ! ।।
।। पाठ-समर्पण ।।
ॐ गुह्याति-गुह्य-गोप्त्री त्वं, गृहाणास्मत्-कृतं जपम् ।
सिद्धिर्मे भवतु देवि ! त्वत्-प्रसादान्महेश्वरि ! ।।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.