September 14, 2015 | aspundir | Leave a comment ।। नारायण हृदयम् ।। भगवान् लक्ष्मी-नारायण की प्रसन्नता के लिए “लक्ष्मी-हृदय” के साथ इसका पाठ करने से धन-धान्य व ऐश्वर्य की वृद्धि होती है । आचम्य प्राणानायम्य देशकालौ स्मृत्वा। अस्मद्गुर्वन्तर्गत – श्रीभारतीरमणमुख्यप्राणान्तर्गत – श्रीलक्ष्मीनारायणप्रेरणया श्रीलक्ष्मीनारायणप्रीत्यर्थं ममाभीष्टसिद्ध्यर्थं सङ्कलीकरणरीत्या सम्पुटीकरणरीत्या वा नारायणहृदयस्य सकृदावर्तनं करिष्ये । विनियोगः- ॐ अस्य श्रीनारायण-हृदय-स्तोत्र-मन्त्रस्य भार्गव ऋषिः, अनुष्टुप छन्दः, श्रीलक्ष्मीनारायणो देवता, ॐ बीजं, नमः शक्तिं, नारायणायेति कीलकं, श्रीलक्ष्मीनारायण प्रीत्यर्थे पाठे विनियोगः । ऋष्यादि-न्यासः- ॐ भार्गव ऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीलक्ष्मीनारायणदेवतायै नमः हृदि । ॐ बीजाय नमः गुह्ये । नमः शक्त्यै नमः पादयोः । नारायणायेति कीलकाय नमः नाभौ । श्रीलक्ष्मीनारायणप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे । करन्यासः- ॐ नारायणः परं ज्योतिः अङ्गुष्ठाभ्यां नमः । ॐ नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः । ॐ नारायणः परोदेव इति मध्यमाभ्यां नमः । ॐ नारायणः परो ध्यायेति अनामिकाभ्यां नमः । ॐ नारायणः परो धामेति कनिष्ठिकाभ्यां नमः । ॐ नारायणः परो धर्म इति करतल-कर-पृष्ठाभ्याम् नमः । हृदयादि-न्यासः- ॐ नारायणः परं ज्योतिः हृदयाय नमः । ॐ नारायणः परं ब्रह्मेति शिरसे स्वाहा । ॐ नारायणः परोदेव इति शिखायै वषट् । ॐ नारायणः परो ध्यायेति कवचाय हुं । ॐ नारायणः परो धामेति नेत्र-त्रयाय वौषट् । ॐ नारायणः परो धर्म इति अस्त्राय फट् । दिग् रक्षणः – ॐ नमः सुदर्शनायास्त्राय हुं फट् बध्नामि नमश्चक्राय स्वाहा । इस मन्त्र से तीन ताली देकर दशों दिशाओं में दिग्बंधन करें । अथ ध्यानम् – उद्यद्भास्वत्समाभासः चिदानन्दैकदेहवान् । शङ्खचक्रगदापद्मधरो ध्येयोऽहमीश्वरः ।।१।। लक्ष्मीधराभ्यामाश्लिष्टः स्वमूर्तिगणमध्यगः । ब्रह्मवायुशिवाहीशविपैः शक्रादिकैरपि ।।२।। सेव्यमानोऽधिकं भक्त्या नित्यनिश्शेषशक्तिमान् । मूर्तयोऽष्टावपि ध्येयाश्चक्रशङ्खवराभयैः ।।३।। उद्यदादित्यसङ्काशं पीतवाससमच्युतम् । शङ्खचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ।।४।। ।। “ॐ नमो नारायणाय” इति मन्त्रजपं (१०८ बार) कृत्वा ।। मूलाष्टकम् ॐ नारायणः परं ज्योतिरात्मा नारायणः परः । नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ।।१।। नारायणः परो देव दाता नारायणः परः । नारायणः परो ध्याता नारायण नमोऽस्तु ते ।।२।। नारायणः परं धाम ध्यानं नारायणः परः । नारायणः परो धर्मो नारायण नमोऽस्तु ते ।।३।। नारायणः परो वेद्यो विद्या नारायण परः । विश्वं नारायणः साक्षान्नारायण नमोऽस्तु ते ।।४।। नारायणद्विधिर्जातो नारायणाच्छिवः । जातो नारायणादिन्द्रो नारायण नमोऽस्तु ते ।।५।। रविर्नारायणं तेजश्चान्द्रं नारायणं महः । वह्निर्नारायणः साक्षान्नारायण नमोऽस्तु ते ।।६।। नारायण उपास्यः स्याद्गुरुर्नारायणः परः । नारायणः परो बोधो नारायण नमोऽस्तु ते ।।७।। नारायणः फलं मुख्यं सिद्धिर्नारायणः सुखम् । सेव्यो नारायणः शुद्धो नारायण नमोऽस्तु ते ।।८।। ।। इति मूलाष्टकम् ।। ।। प्रार्थनादशकम् ।। ॐ नारायणस्त्वमेवासि दहराख्ये हृदि स्थितः । प्रेरकः प्रेर्य्यभाणानां त्वया प्रेरितमानसः ।।१।। त्वदाज्ञां शिरसा धृत्वा जपामि जनपावनम् । नानोपासन मार्गाणां भवहृद्भावबोधकः ।।२।। भावार्थकृद्भावभूतो भावसौख्यप्रदो भव । त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ।।३।। त्वदधिष्ठानमात्रेण सैषा सर्वार्थकरिणी । त्वमेव तां पुरस्कृत्य मम कामान्समर्प्पय ।।४।। न मे त्वदन्यस्त्राताऽस्ति त्वदन्यन्नहि दैवतम् । त्वदन्यं नहि जानामि पालकं पुण्यरुपकम् ।।५।। यावत् सांसारिको भावो मनःस्थो भावनात्मकः । तावत् सिद्धिर्भवेत् साध्या सर्वथा सर्वदा विभो ।।६।। पापिनामहमेवाग्य्रो दयालूनां त्वमग्रणीः । दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ।।७।। त्वयाऽण्यहं न सृष्टश्चेन्न स्यात् तव दयालुता । आमयो नैव सृष्टश्चेदौषधस्य वृथोदयः ।।८।। पापसङ्घपरिक्रान्तः पापात्मा पापरूपधृक् । त्वदन्यः कोऽत्र पापेभ्यस्त्राता मे जगतीतले ।।९।। त्वमेव माता च पिता त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या च गुरुस्त्मेव सर्वं मम देव देव ।।१०।। ।। फल-श्रुति ।। प्रार्थानदशकं चैव मूलाष्टकमुदाहृतम् । यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ।।११।। नारायणस्य हृदयं सर्वाभीष्टफलप्रदम् । लक्ष्मीहृदयकं स्तोत्रं यदि चेत्तद्विना कृतम् ।।१२।। सत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुध्यति सर्वदा । एतत् सम्पुटितं स्तोत्रं सर्वकामफलप्रदम् ।।१३।। लक्ष्मीहृदयकं चैव तथा नारायणात्मकम् । जपेद्यः सम्पुटिकृत्य सर्वाभीष्टमवाप्नुयात् ।।१४।। नारायणस्य हृदयमादौ जप्त्वा ततः परम् । लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः ।।१५।। पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीकृतं जपेत् । पुनर्नारायणं जाप्यं सङ्कलीकरणं भवेत् ।।१६।। एवं मध्ये द्विवारेण जपेत्सङ्कलितं हि तत् । लक्ष्मीहृदयकं स्तोत्रं सर्वकामप्रकाशितम् ।।१७।। तद्वज्जपादिकं कुर्यादेतत् सङ्कलितं शुभम् । सर्वान्कामानवाप्नोति आधिव्याधिभयं हरेत् ।।१८।। गोप्यमेतत् सदा कुर्यान्न सर्वत्र प्रकाशयेत् । इति गुह्यतमं शास्त्रमादौ ब्रह्मादिकैः पुरा ।।१९।। तस्मात्सर्वप्रयत्नेन गोपयेत् साधयेत् सुधीः । यत्रैतत्पुस्तकं तिष्ठेल्लक्ष्मीनारायणात्मकम् । भूतपैशाचवेतालाः न स्थितास्तत्र सर्वदा ।।२०।। लक्ष्मीहृदयकं प्रोक्तं विधिना साधयेत्सुधीः । भृगुवारे च रात्रौ च पूजयेत्पुस्तकद्वयम् ।।२१।। सर्वथा सर्वदा सत्यं गोपयेत्साधयेत्सुधीः । गोपनात् साधनाल्लोके धन्यो भवति तत्त्वतः ।।२२।। ।।इत्यथर्वणरहस्ये उत्तरभागे नारायणहृदयम् ।। Please follow and like us: Related