October 29, 2015 | aspundir | Leave a comment श्री ब्रह्मास्त्र बगला वज्र कवचम् ।। श्री ब्रह्मोवाच ।। विश्वेश दक्षिणामूर्ते निगमागमवित् प्रभो । मह्यं पुरा त्वया दत्ता विद्या ब्रह्मास्त्रसंज्ञिता ।। १ तस्य मे कवचं बूहि येनाहं सिद्धिमाप्नुयात् । भवामि वज्रकवचं ब्रह्मास्त्रन्यासमात्रतः ।। २ ।। श्री दक्षिणामूर्तिरुवाचः ।। श्रृणु ब्रह्मन् परम् गुह्यं ब्रह्मास्त्रकवचं शुभम् । यस्योच्चारणमात्रेण भवेद् वै सूर्यसन्निभः ।। ३ सुदर्शनं मयादत्तं कृपया विष्णवे तथा । तद्वत् ब्रह्मास्त्रविद्यायाः कवचं कथयाम्यहम् ।। ४ अष्टाविंशत्यस्त्रहेतुमाद्यं ब्रह्मास्त्रमुत्तमम् । सर्वतेजोमयं सर्व सामर्थ्य विग्रहं परम् ।। ५ सर्वशत्रुक्षयकरं सर्वदारिद्रयनाशनम् । सर्वापच्छैलराशीनामस्त्रकं कुलिशोपमम् ।। ६ न तस्य शत्रवश्चापि भयं चौर्यभयं जरा । नरा नार्यश्च राजेन्द्र खगा व्याघ्रादयोऽपि च ।। ७ तं दृष्ट्वा वशमायान्ति किमन्यत् साधवो जनाः । यस्य देहे न्यसेद् धीमान् कवचं बगलामयम् ।। ८ स एव पुरुषो लोके केवलः शंकरोपमः । न देय परशीष्याय शठाय पिशुनाय च ।। ९ दातव्यं भक्तियुक्ताय गुरुदासाय धीमते । कवचस्य ऋषिः श्रीमान् दक्षिणामूर्तिरेव च ।। १० अस्यानुष्टुप् छन्दः स्यात् श्रीबगला चास्य देवता । बीजं श्रीवह्निजाया च शक्तिः श्रीबगलामुखी ।। ११ कीलकं विनियोगश्च स्वकार्ये सर्वसाधके । ।।ध्यानम् ।। शुद्धस्वर्णनिभां रामां पीतेन्दुखण्डशेखराम् । पीतगन्धानुलिप्तांगीं पीतरत्नविभूषणाम् ।। पीनोन्नतकुचां स्निग्धां पीतलांगीं सुपेशलाम् । त्रिलोचनां चतुर्हस्तां गम्भीरां मदविह्वलाम् ।। वज्रारि रसनापाशमुदगरं दधतीं करैः । महाव्याघ्रासनां देवीं सर्वदेवनमस्कृताम् ।। प्रसन्नां सुस्मितां क्लिन्नां सुपीतां प्रमदोत्तमाम् । सुभक्तदुःखहरणे दयार्द्रां दीनवत्सलाम् ।। एवं ध्यात्वा परेशानि बगलाकवचं स्मरेत् । ।।मूल-पाठ।। बगला मे शिरः पातु ललाटं ब्रह्मसंस्तुता । बगला मे भ्रवौ नित्यं कर्णयोः क्लेशहारिणी ।। त्रिनेत्रा चक्षुषी पातु स्तम्भिनी गण्डयोस्तथा । मोहिनी नासिकां पातु श्रीदेवी बगलामुखी ।। ओष्ठयोर्दुर्धरा पातु सर्वदन्तेषु चञ्चला । सिद्धान्नपूर्णा जिह्वायां जिह्वाग्रे शारदाम्बिके ।। अकल्मषा मुखे पातु चिबुके बगलामुखी । धीरा मे कष्ठदेशे तु कण्ठाग्रे कालकर्षिणी ।। शुद्धस्वर्णनिभा पातु कण्ठमध्ये तथाऽम्बिका । कणऽठमूले माहभोगा स्कन्धौ शत्रुविनाशिनी ।। भुजौ मे पातु सततं बगला सुस्मिता परा । बगला मे सदा पातु कूर्परे कमलोद्भवा ।। बगलाऽम्बा प्रकोष्ठौ तु मणिबन्धे महाबला । बगलाश्रीर्हस्तयोश्च कुरुकुल्ला करांगुलिम् ।। नखेषु वज्रहस्ता च हृदये ब्रह्मवादिनी । स्तनौ मे मन्दगमना कुक्षयोर्योगिनी तथा ।। उदरं बगला माता नाभिं ब्रह्मास्त्रदेवता । पुष्टिं मुद्गरहस्ता च पातु नो देववन्दिता ।। पार्शवयोर्हनुमद्वन्द्या पशुपाश-विमोचिनी । करौ रामप्रिया पातु ऊरुयुग्मं महेश्वरी ।। भगमाला तु गुह्यं मे लिंगं कामेश्वरी तथा । लिंगमूले महाक्लिन्ना वृषणौ पातु दूतिका ।। बगला जानुनी पातु जानुयुग्मं च नित्यशः । जंघे पातु जगदधात्री गुल्फौ रावण-पूजिता ।। चरणौ दुर्जया पातु पीताम्बा चरणांगुलीः । पादपृष्ठं पद्महस्ता पादाधश्चक्रधारिणी ।। सर्वांगं बगला देवी पातु श्रीबगलामुखी । ब्राह्मी मे पूर्वतः पातु माहेशी बह्निभागतः ।। कौमारी दक्षिणे पातु वैष्णवी स्वर्गमार्गतः । ऊर्ध्वं पाशधरा पातु शत्रुजिह्वाधरा ह्यधः ।। रणे राजकुले वादे महायोगे महाभये । बगला भैरवी पातु नित्यं क्लींकाररुपिणी ।। ।। फल-श्रुति ।। इत्येवं वज्रकवचं महाब्रह्मास्त्र संज्ञकम् । त्रिसन्ध्यं यः पठेद् धीमान् सर्वैश्वर्यमवाप्नुयात् ।। न तस्य शत्रवः केऽपि सखायः सर्व एव च । बलेनाकृष्य शत्रुं सोऽपि मित्रत्वमाप्नुयात् ।। श्तुत्वे मरुता तुल्यो धनेन धनदोपमः । रुपेण कामतुल्यः स्याद् आयुषा शूलधृक्समः ।। सनकादिसमो धैर्य श्रिया विष्णुसमो भवेत् । तत्तुल्यो विद्यया ब्रह्मन् यो जपेत् कवचं नरः ।। नारी वापि प्रयत्नेन वाञ्छितार्थमवाप्नुत्यात् । द्वितीया सूर्यवारेण यदा भवति पद्मभूः ।। तस्यां जातं शतावृत्या शीघ्रं प्रत्यक्षमाप्रंयात् । याता तुरीयं सन्ध्यायां भूशय्यायां प्रयत्नतः ।। सर्वान् शत्रून् क्षयं कृत्वा विजयं प्राप्नुयान् नरः । दारिद्रयान् मुच्यते चाऽऽशु स्थिरा लक्ष्मीर्भवेद् गृहे ।। सर्वान् कमानवाप्नोति सविषो निर्विषो भवेत् । ऋण निर्मोचनं स्याद् वै सहस्त्रावर्तनाद् विधे ।। भूतप्रेतपिशाचादिपीडा तस्य न जायते । द्युणिभ्राजते यद्वत् तद्वत् स्याच्छ्रीप्रभावतः ।। स्थिरा भवेत् तस्य यः स्मरेद् बगलामुखीम् । जयदं बोधनं कामममुकं देहि मे शिवे ।। जपस्यान्ते स्मरेद् यो वै सोऽभीष्टफलमाप्नुयात् । न स सिद्धिमवाप्नोति साक्षाद् वै लोकपूजितः । तस्मात् सर्वप्रयत्नेन कवचं ब्रह्मतेजसम् ।। नित्यं पदाम्बुजध्यानन् महेशानसमो भवेत् । ।। श्रीदक्षिणामूर्ति संहितायां ब्रह्मास्त्र-बगलामुखी कवचम् ।। Related