॥ सिद्धिचण्डी महाविद्या सहस्राक्षर मन्त्र ॥

वन्दे परागम-विद्यां, सिद्धि-चण्डीं सङ्गिताम् ।
महा-सप्तशती-मन्त्र-स्वरुपां सर्व-सिद्धिदाम् ॥

विनियोगः- ॐ अस्य सर्व-विज्ञान-महा-राज्ञी-सप्तशती रहस्याति-रहस्य-मयी-परा-शक्ति श्रीमदाद्या-भगवती-सिद्धि-चण्डिका-सहस्राक्षरी-महा-विद्या-मन्त्रस्य श्रीमार्कण्डेय-सुमेधा ऋषि, गायत्र्यादि नाना-विधानि छन्दांसि, नव-कोटि-शक्ति-युक्ता-श्रीमदाद्या-भगवती-सिद्धि-चण्डी देवता, श्रीमदाद्या-भगवती-सिद्धि-चण्डी-प्रसादादखिलेष्टार्थे जपे विनियोगः ।

ऋष्यादिन्यासः- श्रीमार्कण्डेय-सुमेधा ऋषिभ्यां नमः शिरसि, गायत्र्यादि नाना-विधानि छन्देभ्यो नमः मुखे, नव-कोटि-शक्ति-युक्ता-श्रीमदाद्या-भगवती-सिद्धि-चण्डी देवतायै नमः हृदि, श्रीमदाद्या-भगवती-सिद्धि-चण्डी-प्रसादादखिलेष्टार्थे जपे विनियोगाय नमः सर्वाङ्गे ।

महाविद्यान्यासः- ॐ श्रीं नमः सहस्रारे । ॐ हैं नमः भाले । ॐ क्लीं नमः नेत्र-युगले । ॐ ऐं नमः कर्ण-द्वये । ॐ सौं नमः नासा-पुट-द्वये । ॐ ॐ नमो मुखे । ॐ ह्रीं ॐ नमः कण्ठे । ॐ श्रीं नमो हृदये । ॐ ऐं नमो हस्त-युग्मे । ॐ क्लीं नमः उदरे । ॐ सौं नमः कट्यां । ॐ ऐं नमो गुह्ये । ॐ क्लीं नमो जङ्घा-युग्मे । ॐ ह्रीं नमो जानु-द्वये । ॐ श्रीं नमः पादादि-सर्वांगे ॥

ॐ या माया मधु-कैटभ-प्रमथनी, या माहिषोन्मूलनी,
या धूम्रेक्षण-चण्ड-मुण्ड-दलनी, या रक्त-बीजाशनी ।
शक्तिः शुम्भ-निशुम्भ-दैत्य-मथनी, या सिद्धि-लक्ष्मीः परा,
सा देवी नव-कोटि-मूर्ति-सहिता, मां पातु विश्वेश्वरी ॥
ॐ ऐं ह्रीं श्रीं ह्यौं श्रीं ह्रीं क्लौं ऐं सौं ॐ ह्रीं श्रीं ऐं क्लीं सौं ऐं क्लीं ह्रीं श्रीं
जय जय महा-लक्ष्मि जगदाद्ये बीज-सुरासुर-त्रिभुवन-निदाने दयांकुरे
सर्व-तेजो-रुपिणि महा-महा-महिमे महा-महा-रुपिणि
महा-महा-माये महा-माया-स्वरुपिणि विरञ्चि-संस्तुते !
विधि-वरदे सच्चिदानन्दे विष्णु-देह-व्रते
महा-मोहिनि मधु-कैटभ-जिह्वासिनि नित्य-वरदान-तत्परे !
महा-स्वाध्याय-वासिनि महा-महा-तेज्यधारिणि !
सर्वाधारे सर्व-कारण-करणे अचिन्त्य-रुपे !
इन्द्रादि-निखिल-निर्जर-सेविते ! साम-गानं गायन्ति पूर्णोदय-कारिणि !
विजये जयन्ति अपराजिते सर्व-सुन्दरि रक्तांशुके
सूर्य-कोटि-शशांकेन्द्र-कोटि-सुशीतले अग्नि-कोटि-दहन-शीले
यम-कोटि-क्रूरे वायु-कोटि-वहन-सुशीतले !

ॐ-कार-नाद-बिन्दु-रुपिणि निगमागम-मार्ग-दायिनि
महिषासुर-निर्दलनि धूम्र-लोचन-वध-परायणे
चण्ड-मुण्डादि-सिरच्छेदिनि रक्त-बीजादि-रुधिर-शोषणि
रक्त-पान-प्रिये महा-योगिनि भूत-वैताल-भैरवादि-तुष्टि-विधायनि
शुम्भ-निशुम्भ-शिरच्छेदिनि ! निखिला-सुर-बल-खादिनि
त्रिदश-राज्य-दायिनि सर्व-स्त्री-रत्न-रुपिणि दिव्य-देह-निर्गुणे सगुणे
सदसत्-रुप-धारिणि सुर-वरदे भक्त-त्राण-तत्परे ।

वर-वरदे सहस्त्राक्षरे अयुताक्षरे सप्त-कोटि-चामुण्डा-रुपिणि
नव-कोटि-कात्यायनी-रुपे अनेक-लक्षालक्ष-स्वरुपे इन्द्राग्नि
ब्रह्माणि रुद्राणि ईशानि भ्रामरि भीमे नारसिंहे !
त्रय-त्रिंशत्-कोटि-दैवते अनन्त-कोटि-ब्रह्माण्ड-नायिके
चतुरशीति-मुनि-जन-संस्तुते !
सप्त-कोटि-मन्त्र-स्वरुपे महा-काले रात्रि-प्रकाशे
कला-काष्ठादि-रुपिणि चतुर्दश-भुवन-भावाविकारिणि गरुड-गामिनि !
कों-कार हों-कार ह्रीं-कार श्रीं-कार दलेंकार जूँ-कार सौं-कार
ऐं-कार क्लें-कार ह्रीं-कार ह्रौं-कार हौं-कार
नाना-बीज-कूट-निर्मित-शरीरे नाना-बीज-मन्त्र-राग-विराजते !
सकल-सुन्दरी-गण-सेवते करुणा-रस-कल्लोलिनि
कल्प-वृक्षाधिष्ठिते चिन्ता-मणि-द्वीपेऽवस्थिते मणि-मन्दिर-निवासे !
चापिनि खडिगनि चक्रिणि गदिनि शङ्खिनि पद्मिनि
निखिल-भैरवाधिपति-समस्त-योगिनी-परिवृते !

कालि कङ्कालि तोर-तोतले सु-तारे
ज्वाला-मुखि छिन्न-मस्तके भुवनेश्वरि !
त्रिपुरे लोक-जननि विष्णु-वक्ष-स्थलालङ्कारिणि !
अजिते अमिते अमराधिपे अनूप-सरिते गर्भ-वासादि
दुःखापहारिणि मुक्ति-क्षेमाधिषयनि शिवे शान्ति-कुमारि देवि !
सूक्त-दश-शताक्षरे चण्डि चामुण्डे महा-कालि
महा-लक्ष्मि महा-सरस्वति त्रयी-विग्रहे !
प्रसीद-प्रसीद सर्व-मनोरथान् पूरय सर्वारिष्ट-विघ्नं
छेदय-छेदय, सर्व-ग्रह-पीडा-ज्वरोग्र-भयं विध्वंसय-विध्वंसय,
सर्व-त्रिभुवन-जातं वशय-वशय, मोक्ष-मार्गं दर्शय-दर्शय,
ज्ञान-मार्गं प्रकाशय-प्रकाशय, अज्ञान-तमो नाशय-नाशय,
धन-धान्यादि कुरु-कुरु, सर्व-कल्याणानि कल्पय-कल्पय,
मां रक्ष-रक्ष, सर्वापद्भ्यो निस्तारय-निस्तारय ।
मम वज्र-शरीरं साधय-साधय,
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे नमोऽस्तु ते स्वाहा ॥

ॐ ऐं ह्रीं क्लीं नमो दैव्यै महा-देव्यै, शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै, नियताः प्रणताः स्म ताम् ॥
ॐ ऐं ह्रीं श्रीं सर्व-मंगल-माङ्गल्ये, शिवे सर्वार्थ-साधिके !
शरण्ये त्र्यम्बके गौरि ! नारायणि नमोऽस्तु ते ॥
ॐ ऐं ह्रीं श्रीं सर्व-स्वरुपे सर्वेशे, सर्व-शक्ति-समन्विते !
भयेभ्यस्त्राहि नो देवि ! दुर्गे देवि ! नमोऽस्तु ते ॥

सिद्धि-चण्डी-महा-मन्त्रं, यः पठेत् प्रयतो नरः ।
सर्व-सिद्धिमवाप्नोति, सर्वत्र विजयी भवेत् ॥
संग्रामेषु जयेत् शत्रून्, मातङ्गं इव केसरी ।
वशयेत् सदा निखिलान्, विशेषेण महीपतीन् ॥
त्रिकालं यः पठेन्नित्यं, सर्वेश्वर्य-पुरः सरम् ।
तस्य नश्यन्ति विघ्नानि, ग्रह-पीडाश्च वारणम् ॥
पराभिचार-शमनं, तीव्र-दारिद्रय-नाशनं ।
सर्व-कल्याण-निलयं, देव्याः सन्तोष-कारकम् ॥
सहस्त्रावृत्तितस्तु, देवि ! मनोरथ-समृद्धिदम् ।
द्वि-सहस्त्रावृत्तितस्तु, सर्व-संकट-नाशनम् ॥
त्रि-सहस्त्रावृत्तितस्तु, वशयेद् राज-योषितम् ।
अयुतं प्रपठेद् यस्तु, सर्वत्र चैवातन्द्रितः ।
स पश्येच्चण्डिकां साक्षात्, वरदान-कृतोद्यमाम् ॥
इदं रहस्यं परमं, गोपनीयं प्रयत्नतः ।
वाच्यं न कस्यचित् देवि ! विधानमस्थ सुन्दरि ॥

॥ श्रीसिद्धिडामरे शिवदेवीसंवादे सहस्त्राक्षरं सिद्धिचण्डीमहाविद्योत्तमाम् सम्पूर्णम् ॥

 

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.