December 9, 2018 | aspundir | 1 Comment ॥ गायत्री स्तवराजः ॥ इस स्तव में श्लोक ४, ५, ८, १०, ११, २५, २६ में अन्य मंत्रों के प्रयोग हैं। विनियोगः- “ॐ अस्य श्री गायत्री स्तवराज मन्त्रस्य श्रीविश्वामित्रः ऋषिः सकल जननी चतुष्पदा गायत्री परमात्मा देवता। सर्वोत्कृष्टं परम धाम तत्-सवितुर्वरेण्यं बीजं भर्गो देवस्य धीमहि शक्तिः। धियो यो नः प्रचोदयात् कीलकं। ॐ भूः ॐ भुव ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं ॐ तत्-सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॐ धियो यो नः प्रचोदयात् ॐ आपो ज्योती रसोऽमृतं व्यापकं मम धर्मार्थ काममोक्षार्थे जपे विनियोगः । ऋष्यादि-न्यासः- श्रीविश्वामित्र ऋषये नमः शिरसि । सकल जननी चतुष्पदा गायत्री परमात्मा देवताये नमः इदि । सर्वोत्कृष्टं परम धाम तत्-सवितुर्वरेण्यं बीजाय नमः लिङ्गे । भर्गो देवस्य धीमहि शक्तये नमः नाभौ । धियो यो नः प्रचोदयात् कीलकाय नमः पादयो । ॐ भूः ॐ भुव ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं ॐ तत्-सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॐ धियो यो नः प्रचोदयात् ॐ आपो ज्योती रसोऽमृतं व्यापकं नमः सर्वाङ्गे । मम धर्मार्थ काममोक्षार्थे जपे विनियोगाय नमः अञ्जलौ । ॥ ध्यान ॥ गायत्रीं वेदधात्रीं शतमखफलदां वेदशास्त्रैक वेद्याम् । चिच्छक्तिं ब्रह्मविद्यां परमशिवपदां श्रीपदं वै करोति । सर्वोत्कृष्टं पदं तत्सवितुरनु पदान्ते वरेण्यं शरण्यम्, भर्गो देवस्य धीमहि धियो यो नः प्रचोदयादित्यौर्वतेजः ॥ १ ॥ साम्राज्यवीजं प्रणव त्रिपादं सव्यापसव्यं प्रजपेत् सहस्रकं । सम्पूर्ण कामं प्रणवं विभूतिं तथा भवेद् वाक्यविचित्रवाणी ॥ २ ॥ शुभं शिव शोभनमस्तु मह्यं सौभाग्यभोगोत्सवमस्तु नित्यं । प्रकाशविद्या त्रयशास्त्रसर्वं भजेन्महामन्त्रफलं प्रिये ! वे ॥ ३ ॥ ब्रह्मास्त्रे ब्रह्मदण्डं शिरसि शिखिमहद् ब्रह्मशीर्षं नमोन्तकं । सूक्तं पारायणोक्तं प्रणवमथ महावाक्य सिद्धान्तमूलम् । सूर्यं त्रीणि द्वितीयं प्रथममनु महावेद वेदान्तसूक्तं । नित्यं स्मृत्यनुसारं नियमित चरितं मूलमन्त्रं नमोऽन्तम् ॥ ४ ॥ अस्त्रं शस्त्रहतं त्वघोरसहितं दण्डेन वाजीहतम्, आदित्यादिहतं शिरोऽन्तसहितं पापक्षयार्थं परम् । तुर्यान्त्यादि विलोममंत्र पठनं बीजं शिखान्तोर्ध्वकम्, नित्यं कालनियम्य विप्रविदुषां किं दुष्कृतं भूसुरान् ॥ ५ ॥ नित्यं मुक्तिप्रदं नियम्य पवनं निर्घोषशक्तित्रयम्, सम्यग्ज्ञान गुरूपदेश विधिवद् देवीं शिखां तामपि । षष्ट्यैकोत्तर संख्ययानुगत सौषुम्णादि मार्गत्रयीम् , ध्यायेन्नित्य समस्त वेदजननीं देवीं त्रिसंध्यामयीम् ॥ ६ ॥ गायत्रीं सकलागमाथ विदुषां सौरस्य बीजेश्वरीम् , सर्वाम्नाय समस्तमंत्रजननीं सर्वज्ञधामेश्वरीम् । ब्रह्मादि त्रयसम्पुटार्थ करणीं संसार पारायणीम् , सन्ध्यां सर्वसमानतन्त्र परया ब्रह्मानु-सन्धायिनीम् ॥ ७ ॥ एक दि त्रि चतुः समानगणना वर्णाष्टकं पादयोः , पादादा प्रणवादि मन्त्रपठने मन्त्रत्रयी सम्पुटाम् । सन्ध्यायां द्विपदं पठेत् परतरं सायं तुरीयं युतम् , नित्यानित्यानन्त कोटिफलदं प्राप्तं नमस्कुर्महे ॥ ८ ॥ ओजोऽसीति सहोस्यवो बलमसि भ्राजोऽसि तेजस्विनी , वर्चस्वी सविताग्नि सोमममृतं रूपं धरं धीमहि । देवानां द्विजवर्यतां मुनिगणे मुक्तार्थिनां शान्तिनां , ओमित्येकमृचं पठन्ति यमिनो यं यं स्मरेत् प्राप्नुयात् ॥ ९ ॥ ओमित्येकमज-स्वरूपममलं तत्सप्तधा भादितम् , तारं तन्त्रसमन्वितं परतरे पादत्रयं गर्भितम् । आपो ज्योति रसोऽमृतं जनमहः सत्यं तपः स्वर्भुवः , भूयो भूय नमामि भूर्भुवः स्वरोमेतैर्महामंत्रकम् ॥ १० ॥ आदौ बिन्दुमनुस्मरन् परतरे बालात्रिवर्णोच्चरन् , व्याहृत्यादि सबिन्दुयुक्त त्रिपदातारत्रयं तुर्यकम् । आरोहादवरोहतः क्रमगता श्रीकुण्डलीत्थं स्थिता , देवी मानस पङ्कजे त्रिनयना पञ्चानना पातु माम् ॥ ११ ॥ सर्वे सर्ववश समस्त समये सत्यात्मिके सात्विके , सावित्री सहितात्मके शशियुते सांख्यायन गोत्रजे ! । सन्ध्या त्रीण्युपकल्प्य संग्रहविधिः सन्ध्याभिधा नामके , गायत्री प्रणवादि मन्त्रगुरुणा सम्प्राप्य तस्मै नमः ॥ १२ ॥ क्षेमं दिव्यमनोरथाः परतरे चेतः समाधीयताम् , ज्ञानं नित्य वरेण्यमेतदमलं देवस्य भर्गो धियन् । मोक्ष श्रीर्विजयार्थिनोऽथ सवितुः श्रेष्ठं विधिस्तत्पदम् , प्रज्ञामेध प्रचोदयात् प्रतिदिनं यो नः पदं पातु माम् ॥ १३ ॥ सत्यं तत्सवितुर्वरेण्य विरलं विश्वादि मायात्मकम् , सर्वाद्य प्रतिपाद पादरमया तारं तथा मन्मथम् । तुर्याऽन्य त्रितयं द्वितीयमपरं संयोग सव्याहृतिम् , सर्वाम्नाय मनोन्मनी मनसिजा ध्यायामि देवीं पराम् ॥ १४ ॥ आदौ गायत्रि मन्त्रं गुरुकृत नियमं धर्मकर्मानुकूलम् , सर्वाद्यं सारभूतं सकल मनुमयं देवतानामगम्यम् । देवानां पूर्वदेव द्विजकुल मुनिभिः सिद्ध विद्याधराद्यैः , को वा वक्तुं समर्थस्तव मनु महिमा बीज राजादिमूलं ॥ १५ ॥ गायत्रीं त्रिपदां त्रिबीजसहितां त्रिव्याहृतिं त्रैपदाम् , त्रिब्रह्म त्रिगुणां त्रिकालनियमां वेदत्रयीं तां पराम् । सांख्यादित्रयरूपिणीं त्रिनयनां मातृत्रयीं तत्पराम् , त्रैलोक्य त्रिदश त्रिकोटि सहितां सन्ध्यां त्रयीं तां नुमः ॥ १६ ॥ ओमित्येतत् त्रिमात्रा त्रिभुवन करणं त्रिस्वरं वह्निरूपं , त्रीणि त्रीणि त्रिपादं त्रिगुणगुणमयं त्रैपुरान्तं त्रिसूक्तं । तत्वानां पूर्वशक्तिं द्वितयगुरुपदं पीठयन्त्रात्मकं तम , तस्मादेतत् त्रिपादं त्रिपदमनुसरं त्राहि मां भो नमस्ते ॥ १७ ॥ स्वस्ति श्रद्धाति मेधा मधुमति मधुरः संशयः प्रज्ञकान्तिः,, विद्या बुद्धिर्बलं श्रीरतनुधनपतिः सौम्यवाक्यानुवृत्तिः ॥ १८ ॥ मेधा प्रज्ञा प्रतिष्ठा मृदुपतिमधूरा पूर्णविद्याप्रपूर्णम् , प्राप्तं प्रत्यूषचिन्त्यं प्रणवपरवशात् प्राणिनां नित्यकर्मम् ॥ १८ ॥ पञ्चाशद्-वर्णमध्ये प्रणवपरयुते मन्त्रमाद्यं नमोऽन्तम्, सर्वं सव्यापसाव्यं शतगुणमभितो वर्ममष्टोत्तरं ते । एवं नित्यं प्रजप्तं त्रिभुवनसहितं तुर्यमन्त्रं त्रिपादम् , ज्ञानं विज्ञानगम्यं गगनसुदृशं ध्यायते यः स मुक्तः ॥ १९ ॥ आदिक्षान्तसविन्दुयुक्तसहितं मे क्षकारात्मकम्, व्यस्ताव्यस्तसमस्तवर्ग सहितं पूर्ण शताष्टोत्तरम् । गायत्री जपतां त्रिकाल सहितां नित्यं सनैमित्तिकम् , चैवं जाप्यफलं शिवेन कथितं सद्भोगमोक्ष प्रदम् ॥ २० ॥ सप्तव्याहृतिसप्ततारविकृति: सत्यं वरेण्यं धृतिः , सर्वं तत्-सवितुश्च धीमहि महार्भस्य देवं भजे । धाम्नो धामधर्माधिधारण महान् धीमत्पदं ध्यायते , ॐ तत्सर्वमनुप्रपूर्णं दशकं पादत्रयं केवलम् ॥ २१ ॥ विज्ञानं विलसद्-विवेकवचसः प्रज्ञानुसन्धारिणीम् , श्रद्धामेध्ययशः शिरः सुमनसः स्वस्तिश्रियः स्वां सदा । आयुष्यं धनधान्यलक्ष्मिमतुलां देवीं कटाक्षं परम् । तत्काले सकलार्थसाधनमहान् मुक्तिर्महत्वं पदम् ॥ २२ ॥ पृथ्वी गन्धार्चनायां नभसि कुसुमता वायुर्धूप प्रकर्षो , वह्निर्दीपप्रकाशो जलममृतमयं नित्यसङ्कल्पपूजा । एतत् सर्वं निवेद्य सुख वसति हृदि सर्वदा दम्पतीनाम् , त्वं सर्वज्ञ ! शिवं कुरुष्व ममता नाहं त्वया ज्ञेयसि ॥ २३ ॥ सौम्यं सौभाग्यहेतु सकलसुखकरं सर्वसौख्यं समस्तं , सत्यं सद्भोगनित्यं सुखजनसुहृदं सुन्दरं श्रीसमस्तं । सौमङ्गल्यं समग्रं सकलशुभकरं स्वस्तिवाचं , सर्वाद्यं सद्विवेकं त्रिपदपदयुगं प्राप्तमध्या समस्तं ॥ २४ ॥ गायत्री पदपञ्च पञ्चप्रणवद्वन्द्वं त्रिधा सम्पुटम् , सृष्ट्यादि क़ममन्त्रजाप्य दशकं देवी पदं क्षुत्त्रयम् । मन्त्रादिस्थितकेषु सम्पुटमिदं श्रीमातृकावेष्टितं , वर्णान्त्यादिविलोममन्त्र जपनं संहारसम्मोहनम् ॥ २५ ॥ भूराद्यं भूर्भुव स्वस्त्रिपदपदयुतं त्र्यक्षमाद्यन्तयोज्यम् , सृष्टिस्थित्यन्तकार्यं क्रमशिखि सकलं सर्वमन्त्रं प्रशसतम् । सर्वाङ्गं मातृकाणां मनुमयवपुषं मन्त्रयोगं प्रयुक्तं , संहारं क्षादिवर्णं वसुशतगणनं मन्त्रराजं नमामि ॥ २६ ॥ वैश्वामित्र मुदाहृतं हितकरं सर्वार्थसिद्धिप्रदम् , स्तोत्राणां परमं प्रभातसमये पारायणं नित्यशः । वेदानां विधिवादमन्त्रसकलं सिद्धिप्रदं सम्पदाम् , सम्प्राप्नोत्यपरत्र सर्वसुखदामायुष्यमारोग्यताम् ॥ २७ ॥ ॥ श्रीविश्वामित्र कृतो श्रीगायत्रीस्तवराजः शुभ भूयात् ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe
गायत्री स्तवराज का हिंदी अनुवाद है क्या उपलब्ध आपके पास? कृपया 9221022722 पे जानकारी प्रदान करें।। Reply