॥ गायत्री स्तवराजः ॥

इस स्तव में श्लोक ४, ५, ८, १०, ११, २५, २६ में अन्य मंत्रों के प्रयोग हैं।
विनियोगः- “ॐ अस्य श्री गायत्री स्तवराज मन्त्रस्य श्रीविश्वामित्रः ऋषिः सकल जननी चतुष्पदा गायत्री परमात्मा देवता। सर्वोत्कृष्टं परम धाम तत्-सवितुर्वरेण्यं बीजं भर्गो देवस्य धीमहि शक्तिः। धियो यो नः प्रचोदयात् कीलकं। ॐ भूः ॐ भुव ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं ॐ तत्-सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॐ धियो यो नः प्रचोदयात् ॐ आपो ज्योती रसोऽमृतं व्यापकं मम धर्मार्थ काममोक्षार्थे जपे विनियोगः ।
ऋष्यादि-न्यासः- श्रीविश्वामित्र ऋषये नमः शिरसि । सकल जननी चतुष्पदा गायत्री परमात्मा देवताये नमः इदि । सर्वोत्कृष्टं परम धाम तत्-सवितुर्वरेण्यं बीजाय नमः लिङ्गे । भर्गो देवस्य धीमहि शक्तये नमः नाभौ । धियो यो नः प्रचोदयात् कीलकाय नमः पादयो । ॐ भूः ॐ भुव ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं ॐ तत्-सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॐ धियो यो नः प्रचोदयात् ॐ आपो ज्योती रसोऽमृतं व्यापकं नमः सर्वाङ्गे । मम धर्मार्थ काममोक्षार्थे जपे विनियोगाय नमः अञ्जलौ ।


॥ ध्यान ॥
गायत्रीं वेदधात्रीं शतमखफलदां वेदशास्त्रैक वेद्याम् ।
चिच्छक्तिं ब्रह्मविद्यां परमशिवपदां श्रीपदं वै करोति ।
सर्वोत्कृष्टं पदं तत्सवितुरनु पदान्ते वरेण्यं शरण्यम्,
भर्गो देवस्य धीमहि धियो यो नः प्रचोदयादित्यौर्वतेजः ॥ १ ॥
साम्राज्यवीजं प्रणव त्रिपादं सव्यापसव्यं प्रजपेत् सहस्रकं ।
सम्पूर्ण कामं प्रणवं विभूतिं तथा भवेद् वाक्यविचित्रवाणी ॥ २ ॥
शुभं शिव शोभनमस्तु मह्यं सौभाग्यभोगोत्सवमस्तु नित्यं ।
प्रकाशविद्या त्रयशास्त्रसर्वं भजेन्महामन्त्रफलं प्रिये ! वे ॥ ३ ॥


ब्रह्मास्त्रे ब्रह्मदण्डं शिरसि शिखिमहद् ब्रह्मशीर्षं नमोन्तकं ।
सूक्तं पारायणोक्तं प्रणवमथ महावाक्य सिद्धान्तमूलम् ।
सूर्यं त्रीणि द्वितीयं प्रथममनु महावेद वेदान्तसूक्तं ।
नित्यं स्मृत्यनुसारं नियमित चरितं मूलमन्त्रं नमोऽन्तम् ॥ ४ ॥
अस्त्रं शस्त्रहतं त्वघोरसहितं दण्डेन वाजीहतम्,
आदित्यादिहतं शिरोऽन्तसहितं पापक्षयार्थं परम् ।
तुर्यान्त्यादि विलोममंत्र पठनं बीजं शिखान्तोर्ध्वकम्,
नित्यं कालनियम्य विप्रविदुषां किं दुष्कृतं भूसुरान् ॥ ५ ॥
नित्यं मुक्तिप्रदं नियम्य पवनं निर्घोषशक्तित्रयम्,
सम्यग्ज्ञान गुरूपदेश विधिवद् देवीं शिखां तामपि ।
षष्ट्यैकोत्तर संख्ययानुगत सौषुम्णादि मार्गत्रयीम् ,
ध्यायेन्नित्य समस्त वेदजननीं देवीं त्रिसंध्यामयीम् ॥ ६ ॥
गायत्रीं सकलागमाथ विदुषां सौरस्य बीजेश्वरीम् ,
सर्वाम्नाय समस्तमंत्रजननीं सर्वज्ञधामेश्वरीम् ।
ब्रह्मादि त्रयसम्पुटार्थ करणीं संसार पारायणीम् ,
सन्ध्यां सर्वसमानतन्त्र परया ब्रह्मानु-सन्धायिनीम् ॥ ७ ॥
एक दि त्रि चतुः समानगणना वर्णाष्टकं पादयोः ,
पादादा प्रणवादि मन्त्रपठने मन्त्रत्रयी सम्पुटाम् ।
सन्ध्यायां द्विपदं पठेत् परतरं सायं तुरीयं युतम् ,
नित्यानित्यानन्त कोटिफलदं प्राप्तं नमस्कुर्महे ॥ ८ ॥
ओजोऽसीति सहोस्यवो बलमसि भ्राजोऽसि तेजस्विनी ,
वर्चस्वी सविताग्नि सोमममृतं रूपं धरं धीमहि ।
देवानां द्विजवर्यतां मुनिगणे मुक्तार्थिनां शान्तिनां ,
ओमित्येकमृचं पठन्ति यमिनो यं यं स्मरेत् प्राप्नुयात् ॥ ९ ॥
ओमित्येकमज-स्वरूपममलं तत्सप्तधा भादितम् ,
तारं तन्त्रसमन्वितं परतरे पादत्रयं गर्भितम् ।
आपो ज्योति रसोऽमृतं जनमहः सत्यं तपः स्वर्भुवः ,
भूयो भूय नमामि भूर्भुवः स्वरोमेतैर्महामंत्रकम् ॥ १० ॥
आदौ बिन्दुमनुस्मरन् परतरे बालात्रिवर्णोच्चरन् ,
व्याहृत्यादि सबिन्दुयुक्त त्रिपदातारत्रयं तुर्यकम् ।
आरोहादवरोहतः क्रमगता श्रीकुण्डलीत्थं स्थिता ,
देवी मानस पङ्कजे त्रिनयना पञ्चानना पातु माम् ॥ ११ ॥
सर्वे सर्ववश समस्त समये सत्यात्मिके सात्विके ,
सावित्री सहितात्मके शशियुते सांख्यायन गोत्रजे ! ।
सन्ध्या त्रीण्युपकल्प्य संग्रहविधिः सन्ध्याभिधा नामके ,
गायत्री प्रणवादि मन्त्रगुरुणा सम्प्राप्य तस्मै नमः ॥ १२ ॥
क्षेमं दिव्यमनोरथाः परतरे चेतः समाधीयताम् ,
ज्ञानं नित्य वरेण्यमेतदमलं देवस्य भर्गो धियन् ।
मोक्ष श्रीर्विजयार्थिनोऽथ सवितुः श्रेष्ठं विधिस्तत्पदम् ,
प्रज्ञामेध प्रचोदयात् प्रतिदिनं यो नः पदं पातु माम् ॥ १३ ॥
सत्यं तत्सवितुर्वरेण्य विरलं विश्वादि मायात्मकम् ,
सर्वाद्य प्रतिपाद पादरमया तारं तथा मन्मथम् ।
तुर्याऽन्य त्रितयं द्वितीयमपरं संयोग सव्याहृतिम् ,
सर्वाम्नाय मनोन्मनी मनसिजा ध्यायामि देवीं पराम् ॥ १४ ॥
आदौ गायत्रि मन्त्रं गुरुकृत नियमं धर्मकर्मानुकूलम् ,
सर्वाद्यं सारभूतं सकल मनुमयं देवतानामगम्यम् ।
देवानां पूर्वदेव द्विजकुल मुनिभिः सिद्ध विद्याधराद्यैः ,
को वा वक्तुं समर्थस्तव मनु महिमा बीज राजादिमूलं ॥ १५ ॥
गायत्रीं त्रिपदां त्रिबीजसहितां त्रिव्याहृतिं त्रैपदाम् ,
त्रिब्रह्म त्रिगुणां त्रिकालनियमां वेदत्रयीं तां पराम् ।
सांख्यादित्रयरूपिणीं त्रिनयनां मातृत्रयीं तत्पराम् ,
त्रैलोक्य त्रिदश त्रिकोटि सहितां सन्ध्यां त्रयीं तां नुमः ॥ १६ ॥
ओमित्येतत् त्रिमात्रा त्रिभुवन करणं त्रिस्वरं वह्निरूपं ,
त्रीणि त्रीणि त्रिपादं त्रिगुणगुणमयं त्रैपुरान्तं त्रिसूक्तं ।
तत्वानां पूर्वशक्तिं द्वितयगुरुपदं पीठयन्त्रात्मकं तम ,
तस्मादेतत् त्रिपादं त्रिपदमनुसरं त्राहि मां भो नमस्ते ॥ १७ ॥
स्वस्ति श्रद्धाति मेधा मधुमति मधुरः संशयः प्रज्ञकान्तिः,,
विद्या बुद्धिर्बलं श्रीरतनुधनपतिः सौम्यवाक्यानुवृत्तिः ॥ १८ ॥
मेधा प्रज्ञा प्रतिष्ठा मृदुपतिमधूरा पूर्णविद्याप्रपूर्णम् ,
प्राप्तं प्रत्यूषचिन्त्यं प्रणवपरवशात् प्राणिनां नित्यकर्मम् ॥ १८ ॥
पञ्चाशद्-वर्णमध्ये प्रणवपरयुते मन्त्रमाद्यं नमोऽन्तम्,
सर्वं सव्यापसाव्यं शतगुणमभितो वर्ममष्टोत्तरं ते ।
एवं नित्यं प्रजप्तं त्रिभुवनसहितं तुर्यमन्त्रं त्रिपादम् ,
ज्ञानं विज्ञानगम्यं गगनसुदृशं ध्यायते यः स मुक्तः ॥ १९ ॥
आदिक्षान्तसविन्दुयुक्तसहितं मे क्षकारात्मकम्,
व्यस्ताव्यस्तसमस्तवर्ग सहितं पूर्ण शताष्टोत्तरम् ।
गायत्री जपतां त्रिकाल सहितां नित्यं सनैमित्तिकम् ,
चैवं जाप्यफलं शिवेन कथितं सद्भोगमोक्ष प्रदम् ॥ २० ॥
सप्तव्याहृतिसप्ततारविकृति: सत्यं वरेण्यं धृतिः ,
सर्वं तत्-सवितुश्च धीमहि महार्भस्य देवं भजे ।
धाम्नो धामधर्माधिधारण महान् धीमत्पदं ध्यायते ,
ॐ तत्सर्वमनुप्रपूर्णं दशकं पादत्रयं केवलम् ॥ २१ ॥
विज्ञानं विलसद्-विवेकवचसः प्रज्ञानुसन्धारिणीम् ,
श्रद्धामेध्ययशः शिरः सुमनसः स्वस्तिश्रियः स्वां सदा ।
आयुष्यं धनधान्यलक्ष्मिमतुलां देवीं कटाक्षं परम् ।
तत्काले सकलार्थसाधनमहान् मुक्तिर्महत्वं पदम् ॥ २२ ॥
पृथ्वी गन्धार्चनायां नभसि कुसुमता वायुर्धूप प्रकर्षो ,
वह्निर्दीपप्रकाशो जलममृतमयं नित्यसङ्कल्पपूजा ।
एतत् सर्वं निवेद्य सुख वसति हृदि सर्वदा दम्पतीनाम् ,
त्वं सर्वज्ञ ! शिवं कुरुष्व ममता नाहं त्वया ज्ञेयसि ॥ २३ ॥
सौम्यं सौभाग्यहेतु सकलसुखकरं सर्वसौख्यं समस्तं ,
सत्यं सद्भोगनित्यं सुखजनसुहृदं सुन्दरं श्रीसमस्तं ।
सौमङ्गल्यं समग्रं सकलशुभकरं स्वस्तिवाचं ,
सर्वाद्यं सद्विवेकं त्रिपदपदयुगं प्राप्तमध्या समस्तं ॥ २४ ॥
गायत्री पदपञ्च पञ्चप्रणवद्वन्द्वं त्रिधा सम्पुटम् ,
सृष्ट्यादि क़ममन्त्रजाप्य दशकं देवी पदं क्षुत्त्रयम् ।
मन्त्रादिस्थितकेषु सम्पुटमिदं श्रीमातृकावेष्टितं ,
वर्णान्त्यादिविलोममन्त्र जपनं संहारसम्मोहनम् ॥ २५ ॥
भूराद्यं भूर्भुव स्वस्त्रिपदपदयुतं त्र्यक्षमाद्यन्तयोज्यम् ,
सृष्टिस्थित्यन्तकार्यं क्रमशिखि सकलं सर्वमन्त्रं प्रशसतम् ।
सर्वाङ्गं मातृकाणां मनुमयवपुषं मन्त्रयोगं प्रयुक्तं ,
संहारं क्षादिवर्णं वसुशतगणनं मन्त्रराजं नमामि ॥ २६ ॥
वैश्वामित्र मुदाहृतं हितकरं सर्वार्थसिद्धिप्रदम् ,
स्तोत्राणां परमं प्रभातसमये पारायणं नित्यशः ।
वेदानां विधिवादमन्त्रसकलं सिद्धिप्रदं सम्पदाम् ,
सम्प्राप्नोत्यपरत्र सर्वसुखदामायुष्यमारोग्यताम् ॥ २७ ॥

॥ श्रीविश्वामित्र कृतो श्रीगायत्रीस्तवराजः शुभ भूयात् ॥

One comment on “॥ गायत्री स्तवराजः ॥

  • गायत्री स्तवराज का हिंदी अनुवाद है क्या उपलब्ध आपके पास?

    कृपया 9221022722 पे जानकारी प्रदान करें।।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.