Print Friendly, PDF & Email

गोपालाक्षय कवचम्
गर्भपात की आशंका होने पर या बार-बार गर्भपात होने की स्थिति में निम्न स्तोत्र का पाठ नियमित करना चाहिये ।
।। श्री गणेशाय नमः ।।
।। श्रीनारद उवाच ।।

इन्द्राद्यमरवर्गेषु ब्रह्मन्यत्परमाऽद्भुतम् ।
अक्षयं कवचं नाम कथयस्व मम प्रभो ।। १ ।।
यद्धृत्वाऽऽकर्ण्य वीरस्तु त्रैलोक्य विजयी भवेत् ।
।। ब्रह्मोवाच ।।
श्रृणु पुत्र ! मुनिश्रेष्ठ ! कवचं परमाद्भुतम् ।। २ ।।
इन्द्रादि-देव वृन्दैश्च नारायण मुखाच्छ्रतम् ।
त्रैलोक्य-विजयस्यास्य कवचस्य प्रजापतिः ।। ३ ।।
ऋषिश्छन्दो देवता च सदा नारायणः प्रभुः ।
विनियोगः- ॐ अस्य श्रीत्रैलोक्यविजयाक्षयकवचस्य प्रजापतिऋर्षिः, अनुष्टुप्छन्दः, श्रीनारायणः परमात्मा देवता, धर्मार्थकाममोक्षार्थे जपे विनियोगः ।
पादौ रक्षतु गोविन्दो जङ्घे पातु जगत्प्रभुः ।। ४ ।।
ऊरू द्वौ केशवः पातु कटी दामोदरस्ततः ।
वदनं श्रीहरिः पातु नाडीदेशं च मेऽच्युतः ।। ५ ।।
वाम पार्श्वं तथा विष्णुर्दक्षिणं च सुदर्शनः ।
बाहुमूले वासुदेवो हृदयं च जनार्दनः ।। ६ ।।
कण्ठं पातु वराहश्च कृष्णश्च मुखमण्डलम् ।
कर्णौ मे माधवः पातु हृषीकेशश्च नासिके ।। ७ ।।
नेत्रे नारायणः पातु ललाटं गरुडध्वजः ।
कपोलं केशवः पातु चक्रपाणिः शिरस्तथा ।। ८ ।।
प्रभाते माधवः पातु मध्याह्ने मधुसूदनः ।
दिनान्ते दैत्यनाशश्च रात्रौ रक्षतु चन्द्रमाः ।। ९ ।।
पूर्वस्यां पुण्डरीकाक्षो वायव्यां च जनार्दनः ।
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।। १० ।।

तव स्नेहान्मयाऽऽख्यातं न वक्तव्यं तु कस्यचित् ।
कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ।। ११ ।।
देवा मनुष्या गन्धर्वा यज्ञास्तस्य न संशयः ।
योषिद्वामभुजे चैव पुरुषो दक्षिणे भुजे ।। १२ ।।
विभ्रुयात्कवचं पुण्यं सर्वसिद्धियुतो भवेत् ।
कण्ठे यौ धारयेदेतत् कवचं मत्स्वरूपिणम् ।। १३ ।।
युद्धे जयमवाप्नोति द्यूते वादे च साधकः ।
सर्वथा जयमाप्नोति निश्चितं जन्मजन्मनि ।। १४ ।।
अपुत्रो लभते पुत्रं रोगनाशस्तथा भवेत् ।
सर्वताप प्रमुक्तश्च विष्णुलोकं स गच्छति ।। १५ ।।
।। इति ब्रह्मसंहितोक्तं श्रीगोपालाक्षयकवचं सम्पूर्णम् ।।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.