June 25, 2019 | aspundir | Leave a comment ॥ श्री जगन्मङ्गल काली कवचम् अथवा श्यामाकवचम् ॥ ॥ भैरव्युवाच ॥ कालीपूजा श्रुता नाथ भावाश्च विविधाः प्रभो । इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम् ॥ १ ॥ त्वमेव स्रष्टा पाता च संहर्ता च त्वमेव हि । त्वमेव शरणं नाथ त्राहि मां दुःखसङ्कटात् ॥ २ ॥ ॥ भैरव उवाच ॥ रहस्यं शृणु वक्ष्यामि भैरवि प्राणवल्लभे । श्रीजगन्मङ्गलं नाम कवचं मन्त्रविग्रहम् ॥ ३ ॥ पठित्वा धारयित्वा वा त्रैलोक्यं मोहयेत्क्षणात् । नारायणोऽपि यद्धृत्वा नारी भूत्वा महेश्वरम् ॥ ४ ॥ योगेशं क्षोभमनयद्यद्धृत्वा योगिनङ्क्षोभमनयद्यद्धृत्वा च रघूद्वहः(रघूत्तमः) । वर-दृप्तान्(तृप्तो) जघानैव रावणादिनिशाचरान् ॥ ५ ॥ यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी विभुः । धनाधिपः कुबेरोपि सुरेशोऽभूच्छचीपतिः ॥ ६ ॥ एवं हि सकला देवास्सर्वसिद्धीश्वराः प्रिये । श्रीजगन्मङ्गलस्यास्य कवचस्य ऋषिः शिवः ॥ ७ ॥ छन्दोऽनुष्टुप्देवता च कालिका दक्षिणेरिता । जगतां मोहने दुष्टनिग्रहे(विजये) भुक्तिमुक्तिषु ॥ ८ ॥ योषिदाकर्षणे चैव विनियोगः प्रकीर्तितः । ॥ मूल-पाठ ॥ शिरो मे कालिका पातु क्रीङ्कारैकाक्षरी परा ॥ ९ ॥ क्रीं क्रीं क्रीं मे ललाटं च कालिका खड्गधारिणी । हुं हुं पातु नेत्रयुग्मं ह्रीं ह्रीं पातु श्रुती मम ॥ १०॥ दक्षिणे कालिका पातु घ्राणयुग्मं महेश्वरी । क्रीं क्रीं रसनां पातु हुं हुं पातु कपोलकम् ॥ ११ ॥ वदनं सकलं ह्रीँ ह्रीँ स्वाहास्वरूपिणी । द्वाविंशत्यक्षरी स्कन्धौ महाविद्या सुखप्रदा ॥ १२ ॥ खड्गमुण्डधरा काली सर्वाङ्गमभितोऽवतु । क्रीं क्रीं हुं त्र्यक्षरी पातु चामुण्डा हृदयं मम ॥ १३ ॥ ऐं हूं ॐ ऐं स्तनद्वन्द्वं ह्रीं फट्स्वाहा ककुत्स्थलम् । अष्टाक्षरी महाविद्या भुजौ पातु सकर्तृका ॥ १४ ॥ क्रीं क्रीं हूं हूं ह्रीं ह्रीं करौ पातु षडक्षरी मम । ॐ ह्रीं क्रीं मे स्वाहा पातु कालिका जानुनी मम ॥ १५ ॥ कालीहृन्नाम विद्येयं चतुर्वर्गफलप्रदा । क्रीं नाभिं मध्यदेशं च दक्षिणे कालिकाऽवतु ॥ १६ ॥ क्रीं स्वाहा पातु पृष्ठं तु कालिका सा दशाक्षरी । ह्रीं ह्रीं दक्षिणे कालिके ह्रीं हूं पातु कटिद्वयम् ॥ १७ ॥ काली दशाक्षरी विद्या स्वाहा पातुरुयुग्मकम् । क्रीं ह्रूं ह्रीं सा गुल्फं दक्षिणे कालिकाऽवतु ॥ १८ ॥ क्रीं ह्रूं ह्रीं स्वाहा पातु चतुर्द्दशाक्षरी मम । खड्गमुण्डधरा काली वरदाभयधारिणी ॥ १९ ॥ विद्याभिस्सकलाभिः सा सर्वाङ्गमभितोऽवतु । काली कपालिनी कुल्ला(कुल्या) कुरुकुल्ला विरोधिनी ॥ २० ॥ विप्रचित्ता तथोग्रोग्रप्रभा दीप्ता घनत्विषः । नीला घना वलाका च मात्रा मुद्रा मिता च माम् ॥ २१ ॥ एताः सर्वाः खड्गधरा मुण्डमालाविभूषिताः । रक्षन्तु दिग्विदिक्षु मां ब्राह्मी नारायणी तथा ॥ २२ ॥ माहेश्वरी च चामुण्डा कौमारी चापराजिता । वाराही नारसिंही च सर्वाश्चामितभूषणाः ॥ २३ ॥ रक्षन्तु स्वायुधैर्दिक्षु विदिक्षु मां यथा तथा । इति ते कथितं दिव्यं कवचं परमाद्भुतम् ॥ २४ ॥ ॥ फल-श्रुति ॥ श्रीजगन्मङ्गलन्नाम महामन्त्रौघविग्रहम् । त्रैलोक्याकर्षकं ब्रह्म कवचं मन्मुखोदितम् ॥ २५ ॥ गुरुपूजां विधायाथ गृह्णयात् कवचं ततः । कवचं त्रिः सकृद्वापि यावज्जीवं च वा पुनः ॥ २६ ॥ एतच्छतार्द्धमावृत्य त्रैलोक्यविजयी भवेत् । त्रैलोक्यं क्षोभयत्येव कवचस्य प्रसादतः ॥ २७ ॥ महाकविर्भवेन्मासत् सर्वसिद्धीश्वरो भवेत् । पुष्पाञ्जलीन्कालिकायै मूलेनैव पठत् सकृत् ॥ २८ ॥ शतवर्षसहस्राणां पूजायाः फलमाप्नुयात् । भूर्ज्जे विलिखितञ्चैतत् स्वर्णस्थं धारयेद्यदि ॥ २९ ॥ शिखायां दक्षबाहौ कण्ठे वा धारयेद्यदि । त्रैलोक्यं मोहयेत् क्रोधात्त्रैलोक्यञ्चूर्णयेत्क्षणात् ॥ ३० ॥ पुत्रबान् धनवान् श्रीमान् नानाविद्यानिधिर्भवेत् । ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रस्पर्शनात्ततः ॥ ३१ ॥ नाशमायान्ति या नारी वन्ध्या वा मृतपुत्रिणी । कण्ठे वा वाम बाहौ वा कवचस्य च धारणात् ॥ ३२ ॥ बह्वपत्या जीववत्सा भवत्येव न संशयः । न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ॥ ३३ ॥ शिष्येभ्यो भक्तियुक्तेभ्यश्चान्यथा मृत्युमाप्नुयात् । स्पर्धामुद्भूय कमला वाग्देवी तन्मन्दिरे वसेत् ॥ ३४ ॥ पौत्रान्तं स्थैर्यमास्थाय निवसत्येव निश्चितम् । इदं कवचमज्ञात्वा यो भजेत् कालिदक्षिणाम् ॥ ३५ ॥ शतलक्षं प्रजप्ता हि तस्य विद्या न सिध्यति । स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥ ३६॥ ॥ इति भैरवतन्त्रे भैरव-भैरवीसंवादे काल्याः कवचं सम्पूर्णम् ॥ See Also :- जगन्मङ्ल काली-कवचम् – हिन्दी भावार्थ के साथ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe