Print Friendly, PDF & Email

॥ श्रीमहाकालस्तोत्रम् ॥

दृष्ट्वा देवं महाकालं कालिकाङ्गं महाप्रभुम् ।
भार्गवः पतितो भूमौ दण्डवत्सुरपूजिते ॥ १ ॥

॥ भार्गव उवाच ॥

कल्यन्तकालाग्निसमानभासं चतुर्भुजं कालिकयोपजुष्टम् ।
कपलखट्वाङ्गवराभयाढ्यकरं महाकालमनन्तमीडे ॥ २ ॥
नमः परमरूपाय परामलसुरूपिणे ।
नियतिप्राप्तदेहाय तत्त्वरूपाय ते नमः ॥ ३ ॥
नमः परमरूपाय परमार्थैकरूपिणे ।
वियन्मायास्वरूपाय भैरवाय नमोऽस्तुते ॥ ४ ॥
ॐ नमः परमेशाय परतत्त्वार्थदर्शिणे ।
वियन्मायाद्यधीशाय धीविचित्राय शम्भवे ॥ ५ ॥
त्रिलोकेशाय गूढाय सूक्ष्मायाव्यक्तरूपिणे ।
पराकाष्ठादिरूपाय पराय शम्भवे नमः ॥ ६ ॥
ॐ नमः कालिकाङ्काय कालाञ्जननिभाय ते ।
जगत्संहारकर्त्रे च महाकालाय ते नमः ॥ ७ ॥
नम उग्राय देवाय भीमाय भयदायिने ।
महाभयविनाशाय सृष्टिसंहारकारिणे ॥ ८ ॥
नमः परापरानन्दस्वरूपाय महात्मने ।
परप्रकाशरूपाय प्रकाशानां प्रकाशिने ॥ ९ ॥
ॐ नमो ध्यानगम्याय योगिहृत्पद्मवासिने ।
वेदतन्त्रार्थगम्याय वेदतन्त्रार्थदर्शिने ॥ १० ॥
वेदागमपरामर्शपरमानन्ददायिने ।
तन्त्रवेदान्तवेद्याय शम्भवे विभवे नमः ॥ ११ ॥
धियां प्रचोदकं यत्तु परमं ज्योतिरुत्तमम् ।
तत्प्रेरकाय देवाय परमज्योतिषे नमः ॥ १२ ॥
गुणाश्रयाय देवाय निर्गुणाय कपर्दिने ।
अतिस्थूलाय देवाय ह्यतिसूक्ष्माय ते नमः ॥ १३ ॥
त्रिगुणाय त्र्यधीशाय शक्तित्रितयशालिने ।
नमस्त्रिज्योतिषे तुभ्यं त्र्यक्षाय च त्रिमूर्तये ॥ १४ ॥

॥ इति महाकालस्तोत्रं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.