स्वामिकार्तिकेय द्वारा श्रीगणेश का स्तवन स्वामिकार्तिकेय द्वारा श्रीगणेश का स्तवन भक्त मनोरथ सिद्धिप्रद स्तोत्र ॥ स्कन्द उवाच ॥ नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे । असम्प्रज्ञातमूर्ध्न ते तयोर्योगमयाय च ॥ वामाङ्गे भ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो । भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥ मायासिद्धिस्तथा देवो मायिको बुद्धिसंज्ञितः । तयोर्योगे गणेशान त्वं स्थितोऽसि नमोऽस्तु ते ॥ जगद्रूप गकारश्च णकारो ब्रह्मवाचकः । तयोर्योगे गणेशाय नाम तुभ्यं… Read More
गजाननस्तोत्रम् पुरुषार्थचतुष्टय की प्राप्ति के लिये गजाननस्तोत्रम् ॥ देवर्षय ऊचुः ॥ विदेहरूपं भवबन्धहारं सदा स्वनिष्ठं स्वसुखप्रदं तम् । अमेयसांख्येन च लक्ष्मीशं गजाननं भक्तियुतं भजामः ॥ मुनीन्द्रवन्द्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशान्तम् । विकारहीनं सकलाङ्गकं वै गजाननं भक्तियुतं भजामः ॥ अमेयरूपं हृदि संस्थितं तं ब्रह्माहमेकं भ्रमनाशकारम्। अनादिमध्यान्तमपाररूपं गजाननं भक्तियुतं भजामः ॥ जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादिहीनम्। अनात्मनां मोहप्रदं पुराणं गजाननं… Read More
गणपतिस्तोत्रं श्रीमच्छङ्कराचार्यविरचितम् गणपतिस्तोत्रं श्रीमच्छङ्कराचार्यविरचितम् परिवार में पारस्परिक प्रेम-प्राप्ति के लिये ॥ गणपति स्तोत्रम् ॥ सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीतपाशकाङ्कुशं वरप्रदाभयप्रदम् । चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुराननम् ॥ किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं प्रचण्डरत्नकङ्कणं प्रशोभिताङ्घ्रियष्टिकम् । प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं सरत्नहेमनूपुरप्रशोभिताङ्घ्रिपङ्कजम् ॥ सुवर्णदण्डमण्डितप्रचण्डचारुचामरं गृहप्रदेन्दुसुन्दरं युगक्षणप्रमोदितम् । कवीन्द्रचित्तरञ्जकं महाविपत्तिभञ्जकं षडक्षरस्वरूपिणं भजे गजेन्द्ररूपिणम् ॥ विरिञ्चिविष्णुवन्दितं विरूपलोचनस्तुतं गिरीशदर्शनेच्छया समर्पितं पराम्बया । निरन्तरं सुरासुरैः सपुत्रवामलोचनैः महामखेष्टकर्मसु स्मृतं भजामि तुन्दिलम्… Read More
लक्ष्मीप्रद श्रीगणपति स्तोत्रम् लक्ष्मीप्रद श्रीगणपति स्तोत्रम् लक्ष्मी प्राप्ति के लिये ॐ नमो विघ्नराजाय सर्वसौख्यप्रदायिने । दुष्टारिष्टविनाशाय पराय परमात्मने ॥ लम्बोदरं महावीर्यं नागयज्ञोपशोभितम् । अर्धचन्द्रधरं देवं विघ्नव्यूहविनाशनम् ॥ ॐ ह्रीँ ह्रीं हूं हैं ह्रौं ह्रः हेरम्बाय नमो नमः । सर्वसिद्धिप्रदोऽसि त्वं सिद्धिबुद्धिप्रदो भव ॥ चिन्तितार्थप्रदस्त्वं हि सततं मोदकप्रियः । सिन्दूरारुणवस्त्रैश्च पूजितो वरदायकः ॥ इदं गणपतिस्तोत्रं यः पठेद् भक्तिमान् नरः… Read More
गणाधिप पंचक स्तोत्र ॥ गणाधिप पंचक स्तोत्र ॥ श्री एवं पुत्र की प्राप्ति के लिये श्रीगणाधिपस्तोत्रम् सरागिलोकदुर्लभं विरागिलोकपूजितं सुरासुरैर्नमस्कृतं जरादिमृत्युनाशकम् । गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चका नमामि तं गणाधिपं कृपापयः पयोनिधिम् ॥ गिरीन्द्रजामुखाम्बुजप्रमोददानभास्करं करीन्द्रवक्त्रमानताघसंघवारणोद्यतम् । सरीसृपेशबद्धकुक्षिमाश्रयामि संततं शरीरकान्तिनिर्जिताब्जबन्धुबालसंततिम् ॥ शुकादिमौनिवन्दितं गकारवाच्यमक्षरं प्रकाममिष्टदायिनं सकामनम्रपङ्क्तये । चकासनं चतुर्भुजैर्विकासिपद्मपूजितं प्रकाशितात्मतत्त्वकं नमाम्यहं गणाधिपम् ॥ नराधिपत्वदायकं स्वरादिलोकदायकं जरादिरोगवारकं निराकृतासुरव्रजम् । कराम्बुजैर्धरन्सृणीन् विकारशून्यमानसैर्हृदा… Read More
संतानगणपति स्तोत्रम् ॥ संतानगणपतिस्तोत्रम् ॥ पुत्र की प्राप्ति के लिये नमोऽस्तु गणनाथाय सिद्धिबुद्धियुताय च । सर्वप्रदाय देवाय पुत्रवृद्धिप्रदाय च ॥ गुरूदराय गुरवे गोप्त्रे गुह्यासिताय ते । गोप्याय गोपिताशेषभुवनाय चिदात्मने ॥ विश्वमूलाय भव्याय विश्वसृष्टिकराय ते । नमो नमस्ते सत्याय सत्यपूर्णाय शुण्डिने ॥ एकदन्ताय शुद्धाय सुमुखाय नमो नमः । प्रपन्नजनपालाय प्रणतार्तिविनाशिने ॥ शरणं भव देवेश संततिं सुदृढां कुरु ।… Read More
मयूरेशस्तोत्रम् मयूरेशस्तोत्रम् चिन्ता एवं रोग निवारण के लिये ॥ ब्रह्मोवाच ॥ पुराणपुरुषं देवं नानाक्रीडाकरं मुदा । मायाविनं दुर्विभाव्यं मयूरेशं नमाम्यहम् ॥ परात्परं चिदानन्दं निर्विकारं हृदि स्थितम् । गुणातीतं गुणमयं मयूरेशं नमाम्यहम् ॥ सृजन्तं पालयन्तं च संहरन्तं निजेच्छया । सर्वविघ्नहरं देवं मयूरेशं नमाम्यहम् ॥ नानादैत्यनिहन्तारं नानारूपाणि बिभ्रतम् । नानायुधधरं भक्त्या मयूरेशं नमाम्यहम् ॥ इन्द्रादिदेवतावृन्दैरभिष्टुतमहर्निशम् । सदसद्व्यक्तमव्यक्तं मयूरेशं… Read More
संकष्टनाशनं गणेशस्तोत्रं संकष्टनाशनस्तोत्रम् संकटनाश के लिये ॥ नारद उवाच ॥ प्रणम्यशिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ लम्बोदरं पञ्चमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ नवमं भालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ॥ द्वादशैतानि नामानि त्रिसंध्यं… Read More
श्रीराधाकृतं गणेशस्तोत्रम् ॥ श्रीराधाकृतं गणेशस्तोत्रम् ॥ विघ्ननाश के लिये ॥ ध्यान ॥ शर्वं लम्बोदरं स्थूलं ज्वलन्तं ब्रह्मतेजसा । गजवक्त्रं वह्निवर्णमेकदन्तमनन्तकम् ॥ सिद्धानां योगिनामेव ज्ञानिनां च गुरोर्गुरुम् । ध्यातं मुनीन्द्रैर्देवेन्द्रैर्ब्रह्मेशशेषसंज्ञकैः ॥ सिद्धेन्द्रैर्मुनिभिः सद्भिर्भगवन्तं सनातनम् । ब्रह्मस्वरूपं परमं मङ्गलं मङ्गलालयम् ॥ सर्वविघ्नहरं शान्तं दातारं सर्वसंपदाम् । भवाब्धिमायापोतेन कर्णधारं च कर्मिणाम् ॥ शरणागतदीनार्तपरित्राणपरायणम् । ध्यायेद्ध्यानात्मकं साध्यं भक्तेशं भक्तवत्सलम् ॥… Read More
श्रीगणेशाष्टक गणेशाष्टक समस्त कामनाओं की सिद्धि के लिये ॥ सर्वे ऊचुः ॥ यतोऽनन्तशक्तेरनन्ताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते । यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥ यतश्चाविरासीज्जगत्सर्वमेतत्तथाब्जासनो विश्वगो विश्वगोप्ता । तथेन्द्रादयो देवसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः ॥ यतः स्थावरा जङ्गमा वृक्षसङ्घाः सदा तं गणेशं नमामो भजामः ॥ यतो वह्निभानूद्भवो भूर्जलं च… Read More