॥ श्रीराम कृत कात्यायनी स्तुति ॥

॥ श्रीराम उवाच ॥
नमस्ते त्रिजगद्वन्द्ये संग्रामे जयदायिनि ।
प्रसीद विजयं देहि कात्यायनि नमोऽस्तु ते ॥ १ ॥
सर्वशक्तिमये दुष्टरिपुनिग्रहकारिणि ।
दुष्टजृम्भिणि संग्रामे जयं देहि नमोऽस्तु ते ॥ २ ॥
त्वमेका परमा शक्तिः सर्वभूतेष्ववस्थिता ।
दुष्टं संहर संग्रामे जयं देहि नमोऽस्तु ते ॥ ३ ॥


रणप्रिये रक्तभक्षे मांसभक्षणकारिणि ।
प्रपन्नार्तिहरे युद्धे जयं देहि नमोऽस्तु ते ॥ ४ ॥
खट्वाङ्गासिकरे मुण्डमालाद्योतितविग्रहे ।
ये त्वां स्मरन्ति दुर्गेषु तेषां दुःखहरा भव ॥ ५ ॥
त्वत्पादपङ्कजादैन्यं नमस्ते शरणप्रिये ।
विनाशय रणे शत्रून् जयं देहि नमोऽस्तु ते ॥ ६ ॥
अचिन्त्यविक्रमेऽचिन्त्यरूपसौन्दर्यशालिनि ।
अचिन्त्यचरितेऽचिन्त्ये जयं देहि नमोऽस्तु ते ॥ ७ ॥
ये त्वां स्मरन्ति दुर्गेषु देवी दुर्गविनाशिनीम् ।
नावसीदन्ति दुर्गेषु जयं देहि नमोऽस्तु ते ॥ ८ ॥
महिषासप्रिये संख्ये महिषासुरमर्दिनि ।
शरण्ये गिरिकन्ये मे जयं देहि नमोऽस्तु ते ॥ ९ ॥
प्रसन्नवदने चण्डिचण्डासुरविमर्दिनि ।
संग्रामे विजयं देहि शत्रुञ्जहि नमोऽस्तु ते ॥ १० ॥
रक्ताक्षि रक्तदशने रक्तचर्चितगात्रके ।
रक्तबीजनिहन्त्री त्वं जयं देहि नमोऽस्तु ते ॥ ११ ॥
निशुम्भशुम्भसंहन्त्रि विश्वकत्रि सुरेश्वरि ।
जहिशत्रून् रणे नित्यं जयं देहि नमोऽस्तु ते ॥ १२ ॥
भवान्येतज्जगत्सर्वं त्वं पालयसि सर्वदा ।
रक्ष विश्वमिदं मातर्हत्वैतान् दुष्टराक्षसान् ॥ १३ ॥
त्वं हि सर्वगता शक्तिर्दुष्टमर्दनकारिणि ।
प्रसीद जगतां मातर्जयं देहि नमोऽस्तु ते ॥ १४ ॥
दुर्वृत्तवृन्ददमनि सद्वृत्तपरिपालिनि ।
निपातय रणे शत्रुञ्जयं देहि नमोऽस्तु ते ॥ १५ ॥
कात्यायनि जगन्मातः प्रपन्नार्तिहरे शिवे ।
संग्रामे विजयं देहि भयेभ्यः पाहि सर्वदा ॥ १६ ॥

॥ श्रीमहादेव उवाच ॥

एवं संस्तुवतस्तस्य श्रीरामस्य महात्मनः ।
बभूवाकाशतो वाक्यं सहसा मुनिसत्तम ॥ १७ ॥
मा भैस्त्वं रघुशार्दूल महाबलपराक्रमान् ।
विजेष्यस्यचिरेणैव लङ्कां हत्वा निशाचरान् ॥ १८ ॥
अहं सम्पूजिता बिल्वे ब्रह्मणा लोककर्तृणा ।
दास्यामि त्वां मनोऽभीष्टं वरं शत्रुनिबर्हण ॥ १९ ॥
इति श्रुत्वा रघुश्रेष्ठो वाक्यमाकाशसम्भवम् ।
असंशयं मुनिश्रेष्ठ मेने विजयमात्मनः ॥ २० ॥
एवं चिन्तयतः काले समरे भीमविक्रमः ।
आयातः कुम्भकर्णो वै राक्षसैः परिवेष्टितः ॥ २१ ॥
तस्य नादेन घोरेण सशैलवनकाननम् ।
चकम्पे धरणिः क्षुब्धो बभूव सरितां पतिः ॥ २२ ॥
रथाश्वकुञ्जराणां च सुघोरैरपि बृंहितैः ।
चकम्पे वसुधा वीरबलात्कारेण वायुना ॥ २३ ॥
चुक्षुभुर्वानराः सर्वे भीता दिक्षु विदिक्षु च ।
दृष्ट्वा तमतिदुर्धर्षमुद्यतास्त्रं महाबलम् ॥ २४ ॥
अथ रामस्तमायान्तं समालोक्य भयप्रदम् ।
देवीं प्रणम्य कोदण्डं वामेनादाय पाणिना ॥ २५ ॥
सोऽपि पादावघातेन करघातेन वानरान् ।
विमर्द्य भक्षयंश्चान्यानाससाद रघुत्तमम् ॥ २६ ॥
स सम्प्रेक्ष्य रघुश्रेष्ठं श्यामं दूर्वादलप्रभम् ।
उद्यतास्त्रं महाबाहुं रक्षसामन्तकारिणम् ॥ २७ ॥
सानुजं समरेऽक्षोभं नीलोत्पलदलेक्षणम् ।
ननाद बलवान् घोरो युगान्तजलदो यथा ॥ २८ ॥
राघवोऽपि महानादं ब्रह्माण्डक्षोभकारकम् ।
चक्रे मुदा मुनिश्रेष्ठ ततो युद्धमवर्तत ॥ २९ ॥
ब्रह्मास्त्रजालैः संक्षिप्तैः परस्परजिगीषया ।
तयोरासीन्महायुद्धं सुरासुरदुरासदम् ॥ ३० ॥
सैन्यैश्च राक्षसश्रेष्ठैर्वानराणां महात्मनाम् ।
आसीत्सुतुमुलं युद्धं संग्रामे जयमिच्छताम् ॥ ३१ ॥
॥ इति श्रीमहाभागवते देवीपुराणे श्रीमहादेवनारद संवादे श्रीरामकुम्भकर्णयोयुद्धवर्णनम् ॥

 

 

One comment on “श्रीराम कृत कात्यायनी स्तुति

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.