October 16, 2015 | Leave a comment श्री दुर्गा कवचम् (रुद्रयामलोक्त) ।।श्री भैरव उवाच।। अधुना देवि वक्ष्येऽहं कवचं मन्त्रगर्भकम् । दुर्गायाः सारसर्वस्वं कवचेश्वरसञ्ज्ञकम् ।।१ परमार्थप्रदं नित्यं महापातकनाशनम् । योगिप्रियं योगीगम्यं देवानामपि दुर्लभम् ।।२ विना दानेन मन्त्रस्य सिद्धिर्देवि कलौ भवेत् । धारणादस्य देवेशि शिवस्त्रैलोक्यनायकः ।।३ भैरवो भैरवेशानि विष्णुर्नारायणो बली । ब्रह्मा पार्वति लोकेशो विघ्नध्वंशी गजाननः।।४ सूर्यस्तमोपहश्चन्द्रो मन्त्रामृतनिधिस्तथा । सेनानीश्च महासेनो जिष्णुर्लेखर्षभः ।।५ बहुनोक्तेन किं देवि दुर्गाकवचधारणात् । मर्त्योऽप्यमरतां याति साधको मन्त्रसाधकः ।।६ ।।विनियोग।। कवचस्यास्य देवशि ऋषिः प्रोक्तो महेश्वरः। छन्दोऽनुष्टुप् प्रिये दुर्गा देवताष्टाक्षरा स्मृता ।।७ चक्रिबीजं च बीजं स्यान्मायाशक्तिरितीरिता । ॐ मे पातु शिरो दुर्गा ह्रीं मे पातु ललाटकम् ।।८ ॐ दुँ नेत्रेऽष्टाक्षरा पातु चक्री पातु श्रुती मम । मं ठं गण्डौ च मे पातु देवेशि रक्तकुण्डला ।।९ वायुर्नासां सदा पातु रक्तबीजनिषूदिनी । लवणं पातु मे चोष्ठौ चामुण्डा चण्डघातिनी ।।१० भेकी बीजं सदा पातु दन्तान्मे रक्तदन्तिका । ॐ ह्रीं श्री पातु मे कण्ठं नीलकण्ठांकवासिनी ।।११ ॐ ऐं क्लीं पातु मे स्कन्धौ स्कन्दमाता महेश्वरी । ॐ सौं क्लीं मे पातु बाहू देवेशी बगलामुखी ।।१२ सौं ऐं ह्रीं पातु मे हस्तौ वक्षो देवता विन्ध्यवासिनी । ॐ ह्रीं श्रीं क्लीं पातु कुक्षिं मम मातंगिनी परा ।।१३ ॐ ह्रीं श्रीं ऐं पातु मे पार्श्वे हिमाचलनिवासिनी । ॐ स्त्रीं ह्रूँ ऐं पातु पृष्ठं मम दुर्गतिनाशिनी ।।१४ ॐ क्रीं ह्रूँ पातु मे नाभिं देवी नारायणी सदा । ॐ ऐं क्लीं सौः सदा पातु कटिं कात्यायनी मम ।।१५ ॐ ह्रीं श्रीं ह्रीं पातु शिश्नं देवी श्रीबगलामुखी । ॐ ऐं सौः क्लीं सौः पातु गुह्यं गुह्यकेश्वरपूजिता ।।१६ ॐ ह्रीं ऐं श्रीं ह् सौः पायादूरु मम मनोन्मनी । ॐ जूं सः सौः पातु जानू जगदीश्वरपूजिता ।।१७ ॐ ऐं क्लीं पातु मे जंघे मेरुवासिनी । ॐ ह्रीं श्रीं गीं सदा पातु गुल्फौ मम गणेश्वरी ।।१८ ॐ ह्रीं दुँ पातु मे पादौ पार्वती षोडशाक्षरी । पूर्वे मां पातु ब्रह्माणी वह्नौ माँ वैष्णवी तथा ।।१९ दक्षिणे चण्डिका पातु नैर्ऋते नारसिंहिका । पश्चिमे पातु वाराही वायव्ये मापराजिता ।।२० उत्तरे पातु कौमारी चैशान्यां शांभवी तथा । ऊर्ध्व दुर्गा सदा पातु पात्वधस्ताच्छिवा सदा ।।२१ प्रभाते त्रिपुरा पातु निशीथे छिन्नमस्तका । निशान्ते भैरवी पातु सर्वदा भद्रकालिका ।।२२ अग्नेरम्बा च मां पातु जलान्मां जगदम्बिका । वायोर्मा पातु वाग्देवी वनाद् वनजलोचना ।।२३ सिंहात् सिंहासना पातु सर्पात् सर्पान्तकासना । रोगान्मां राजमातंगी भूताद् भूतेशवल्लभा ।।२४ यक्षेभ्यो यक्षिणी पातु रक्षोभ्यो राक्षसान्तका। भूतप्रेतपिशाचेभ्यः सुमुखी पातु मां सदा ।।२५ सर्वत्र सर्वदा पातु ॐ ह्रीं दुर्गा नवाक्षरा । इतीदं कवचं गुह्यं दुर्गा सर्वस्वमुत्तमम् ।।२६ ।।फल-श्रुति।। मन्त्रगर्भ महेशानि कवचेश्वरसंज्ञकम् । वित्तदं पुण्यदं पुण्यं वर्म सिद्धिप्रदं कलौ ।।२७ वर्म सिद्धिप्रदं गोप्यं परापररहस्यकम् । श्रेयस्करं मनुमयं रोगनाशकरं परम् ।।२८ महापातककोटिघ्नं मानदं च यशस्करम् । अश्वमेधसहस्त्रस्य फलदं परमार्थदम् ।।२९ अत्यन्तगोप्यं देवेशि कवचं मन्त्रसिद्धिदम् । पठनात् सिद्धिदं लोके धारणान्मुक्तिदं शिवे ।।३० रवौ भूर्जे लिखेद् श्रीमान् कृत्वा कर्माह्निकं प्रिये । श्रीचक्राग्रेऽष्टगन्धेन साधको मन्त्रसिद्धये ।।३१ लिखित्वा धारयेद् बाहौ गुटिकां पुण्यवर्धिनीम् । किं किं साधयेल्लोके गुटिका वर्मणोऽचिरात् ।।३२ गुटिकां धारयेन्मूर्ध्नि राजानं वशमानयेत् । धनार्थी धारयेत्कण्ठे पुत्रार्थी कुक्षिमण्डले ।।३३ तामेव धारयेन्मूर्ध्नि लिखित्वा भूर्जपत्रके । श्वेतसूत्रेण संवेष्टय लाक्षया परिवेष्टयेत् ।।३४ सुवर्णेनाथ संवेष्टय धारयेद् रक्तरञ्जुना । गुटिका कामदा देवि देवनामपि दुर्लभा ।।३५ कवचस्यास्य गुटिकां धत्वा मुक्तिप्रदायिनीम् । कवचस्यास्य देवेशि वर्णितुं नैव शक्यते ।।३६ महिमानं महादेवि जिह्वाकोटिशतैरपि । अदातव्यमिदं वर्म मन्त्रगर्भ रहस्यकम् ।।३७ अवक्तव्यं महापुण्यं सर्वसारस्वतप्रदम् । अदीक्षिताय नो दद्यात् कुचैलाय दुरात्मने ।।३८ अन्यशिष्याय दुष्टाय निन्दकाय कुलार्थिनाम् । दीक्षिताय कुलीनाय गुरुभक्तिरताय च ।।३९ शान्ताय कुलसक्ताय शान्ताय कुलकामिने । इदं वर्म शिवे दद्यात्कुलभागी भवेन्नरः ।।४० इदं रहस्यं परमं दुर्गाकवचमुत्तमम् । गुह्यं गोप्यतमं गोप्यं गोपनीयं स्वयोनिवत् ।।४१ ।।इति रुद्रयामल तन्त्रे, पटल ४८ श्रीदेवीरहस्ये दुर्गाकवचं।। Related