July 24, 2015 | aspundir | 2 Comments श्री विश्वावसु गन्धर्व-राज कवच स्तोत्रम् प्रणाम-मन्त्रः- ॐ श्रीगणेशाय नमः ।। ॐ श्रीगणेशाय नमः ।। ॐ श्रीगणेशाय नमः ।। ॐ श्रीसप्त-श्रृंग-निवासिन्यै नमः ।। ॐ श्रीसप्त-श्रृंग-निवासिन्यै नमः ।। ॐ श्रीसप्त-श्रृंग-निवासिन्यै नमः ।। ॐ श्रीविश्वावसु-गन्धर्व-राजाय कन्याभिः परिवारिताय नमः ।। ॐ श्रीविश्वावसु-गन्धर्व-राजाय कन्याभिः परिवारिताय नमः ।। ॐ श्रीविश्वावसु-गन्धर्व-राजाय कन्याभिः परिवारिताय नमः ।। ।। पूर्व-पीठिका ।। ॐ नमस्कृत्य महा-देवं, सर्वज्ञं परमेश्वरम् ।। ।। श्री पार्वत्युवाच ।। भगवन् देव-देवेश, शंकर परमेश्वर ! कथ्यतां मे परं स्तोत्रं, कवचं कामिनां प्रियम् ।। जप-मात्रेण यद्वश्यं, कामिनी-कुल-भृत्यवत् । कन्यादि-वश्यमाप्नोति, विवाहाभीष्ट-सिद्धिदम् ।। भग-दुःखैर्न बाध्येत, सर्वैश्वर्यमवाप्नुयात् ।। ।। श्रीईश्वरोवाच ।। अधुना श्रुणु देवशि ! कवचं सर्व-सिद्धिदं । विश्वावसुश्च गन्धर्वो, भक्तानां भग-भाग्यदः ।। कवचं तस्य परमं, कन्यार्थिणां विवाहदं । जपेद् वश्यं जगत् सर्वं, स्त्री-वश्यदं क्षणात् ।। भग-दुःखं न तं याति, भोगे रोग-भयं नहि । लिंगोत्कृष्ट-बल-प्राप्तिर्वीर्य-वृद्धि-करं परम् ।। महदैश्वर्यमवाप्नोति, भग-भाग्यादि-सम्पदाम् । नूतन-सुभगं भुक्तवा, विश्वावसु-प्रसादतः ।। विनियोगः- ॐ अस्यं श्री विश्वावसु-गन्धर्व-राज-कवच-स्तोत्र-मन्त्रस्य विश्व-सम्मोहन वाम-देव ऋषिः, अनुष्टुप् छन्दः, श्रीविश्वावसु-गन्धर्व-राज-देवता, ऐं क्लीं बीजं, क्लीं श्रीं शक्तिः, सौः हंसः ब्लूं ग्लौं कीलकं, श्रीविश्वावसु-गन्धर्व-राज-प्रसादात् भग-भाग्यादि-सिद्धि-पूर्वक-यथोक्त॒पल-प्राप्त्यर्थे जपे विनियोगः ।। ऋष्यादि-न्यासः- विश्व-सम्मोहन वाम-देव ऋषये नमः शिरसि, अनुष्टुप् छन्दसे नमः मुखे, श्रीविश्वावसु-गन्धर्व-राज-देवतायै नमः हृदि, ऐं क्लीं बीजाय नमः गुह्ये, क्लीं श्रीं शक्तये नमः पादयो, सौः हंसः ब्लूं ग्लौं कीलकाय नमः नाभौ, श्रीविश्वावसु-गन्धर्व-राज-प्रसादात् भग-भाग्यादि-सिद्धि-पूर्वक-यथोक्त॒पल-प्राप्त्यर्थे जपे विनियोगाय नमः सर्वांगे ।। षडङ्ग-न्यास – कर-न्यास – अंग-न्यास – ॐ क्लीं ऐं क्लीं अंगुष्ठाभ्यां नमः हृदयाय नमः ॐ क्लीं श्रीं गन्धर्व-राजाय क्लीं तर्जनीभ्यां नमः शिरसे स्वाहा ॐ क्लीं कन्या-दान-रतोद्यमाय क्लीं मध्यमाभ्यां नमः शिखायै वषट् ॐ क्लीं धृत-कह्लार-मालाय क्लीं अनामिकाभ्यां नमः कवचाय हुम् ॐ क्लीं भक्तानां भग-भाग्यादि-वर-प्रदानाय कनिष्ठिकाभ्यां नमः नेत्र-त्रयाय वौषट् ॐ क्लीं सौः हंसः ब्लूं ग्लौं क्लीं करतल-कर-पृष्ठाभ्यां नमः अस्त्राय फट् मन्त्रः- ॐ क्लीं विश्वावसु-गन्धर्व-राजाय नमः ॐ ऐं क्लीं सौः हंसः सोहं ऐं ह्रीं क्लीं श्रीं सौः ब्लूं ग्लौं क्लीं विश्वावसु-गन्धर्व-राजाय कन्याभिः परिवारिताय कन्या-दान-रतोद्यमाय धृत-कह्लार-मालाय भक्तानां भग-भाग्यादि-वर-प्रदानाय सालंकारां सु-रुपां दिव्य-कन्या-रत्नं मे देहि-देहि, मद्-विवाहाभीष्टं कुरु-कुरु, सर्व-स्त्री वशमानय, मे लिंगोत्कृष्ट-बलं प्रदापय, मत्स्तोकं विवर्धय-विवर्धय, भग-लिंग-रोगान् अपहर, मे भग-भाग्यादि-महदैश्वर्यं देहि-देहि, प्रसन्नो मे वरदो भव, ऐं क्लीं सौः हंसः सोहं ऐं ह्रीं क्लीं श्रीं सौं ब्लूं ग्लौं क्लीं नमः स्वाहा ।। (२०० अक्षर, १२ बार जपें) गायत्री मन्त्रः- ॐ क्लीं गन्धर्व-राजाय विद्महे कन्याभिः परिवारिताय धीमहि तन्नो विश्वावसु प्रचोदयात् क्लीं ।। (१० बार जपें) ध्यानः- क्लीं कन्याभिः परिवारितं, सु-विलसत् कह्लार-माला-धृतन्, स्तुष्टयाभरण-विभूषितं, सु-नयनं कन्या-प्रदानोद्यमम् । भक्तानन्द-करं सुरेश्वर-प्रियं मुथुनासने संस्थितम्, स्रातुं मे मदनारविन्द-सुमदं विश्वावसुं मे गुरुम् क्लीं ।। ध्यान के बाद, उक्त मन्त्र को १२ बार तथा गायत्री-मन्त्र को १० बार जपें । कवच मूल पाठ ।। कवच मूल पाठ ।। क्लीं कन्याभिः परिवारितं, सु-विलसत् माला-धृतन्- स्तुष्टयाभरण-विभूषितं, सु-नयनं कन्या-प्रदानोद्यमम् । भक्तानन्द-करं सुरेश्वर-प्रियं मिथुनासने संस्थितं, त्रातुं मे मदनारविन्द-सुमदं विश्वावसुं मे गुरुम् क्लीं ।। १ क्लीं विश्वावसु शिरः पातु, ललाटे कन्यकाऽधिपः । नेत्रौ मे खेचरो रक्षेद्, मुखे विद्या-धरं न्यसेत् क्लीं ।। २ क्लीं नासिकां मे सुगन्धांगो, कपोलौ कामिनी-प्रियः । हनुं हंसाननः पातु, कटौ सिंह-कटि-प्रियः क्लीं ।। ३ क्लीं स्कन्धौ महा-बलो रक्षेद्, बाहू मे पद्मिनी-प्रियः । करौ कामाग्रजो रक्षेत्, कराग्रे कुच-मर्दनः क्लीं ।। ४ क्लीं हृदि कामेश्वरो रक्षेत्, स्तनौ सर्व-स्त्री-काम-जित् । कुक्षौ द्वौ रक्षेद् गन्धर्व, ओष्ठाग्रे मघवार्चितः क्लीं ।। ५ क्लीं अमृताहार-सन्तुष्टो, उदरं मे नुदं न्यसेत् । नाभिं मे सततं पातु, रम्भाद्यप्सरसः प्रियः क्लीं ।। ६ क्लीं कटिं काम-प्रियो रक्षेद्, गुदं मे गन्धर्व-नायकः । लिंग-मूले महा-लिंगी, लिंगाग्रे भग-भाग्य-वान् क्लीं ।।७ क्लीं रेतः रेताचलः पातु, लिंगोत्कृष्ट-बल-प्रदः । दीर्घ-लिंगी च मे लिंगं, भोग-काले विवर्धय क्लीं ।। ८ क्लीं लिंग-मध्ये च मे पातु, स्थूल-लिंगी च वीर्यवान् । सदोत्तिष्ठञ्च मे लिंगो, भग-लिंगार्चन-प्रियः क्लीं ।। ९ क्लीं वृषणं सततं पातु, भगास्ये वृषण-स्थितः । वृषणे मे बलं रक्षेद्, बाला-जंघाधः स्थितः क्लीं ।। १० क्लीं जंघ-मध्ये च मे पातु, रम्भादि-जघन-स्थितः । जानू मे रक्ष कन्दर्पो, कन्याभिः परिवारितः क्लीं ।। ११ क्लीं जानू-मध्ये च मे रक्षेन्नारी-जानु-शिरः-स्थितः । पादौ मे शिविकारुढ़ः, कन्यकादि-प्रपूजितः क्लीं ।। १२ क्लीं आपाद-मस्तकं पातु, धृत-कह्लार-मालिका । भार्यां मे सततं पातु, सर्व-स्त्रीणां सु-भोगदः क्लीं ।। १३ क्लीं पुत्रान् कामेश्वरो पातु, कन्याः मे कन्यकाऽधिपः । धनं गेहं च धान्यं च, दास-दासी-कुलं तथा क्लीं ।। १४ क्लीं विद्याऽऽयुः सबलं रक्षेद्, गन्धर्वाणां शिरोमणिः । यशः कीर्तिञ्च कान्तिञ्च, गजाश्वादि-पशून् तथा क्लीं ।। १५ क्लीं क्षेमारोग्यं च मानं च, पथिषु च बालालये । वाते मेघे तडित्-पतिः, रक्षेच्चित्रांगदाग्रजः क्लीं ।। १६ क्लीं पञ्च-प्राणादि-देहं च, मनादि-सकलेन्द्रियान् । धर्म-कामार्थ-मोक्षं च, रक्षां देहि सुरेश्वर ! क्लीं ।। १७ क्लीम रक्ष मे जगतस्सर्वं, द्वीपादि-नव-खण्डकम् । दश-दिक्षु च मे रक्षेद्, विश्वावसुः जगतः प्रभुः क्लीं ।। १८ क्लीं साकंकारां सु-रुपां च, कन्या-रत्नं च देहि मे । विवाहं च प्रद क्षिप्रं, भग-भाग्यादि-सिद्धिदः क्लीं ।। १९ क्लीं रम्भादि-कामिनी-वारस्त्रियो जाति-कुलांगनाः । वश्यं देहि त्वं मे सिद्धिं, गन्धर्वाणां गुरुत्तमः क्लीं ।। २० क्लीं भग-भाग्यादि-सिद्धिं मे, देहि सर्व-सुखोत्सवः । धर्म-कामार्थ-मोक्षं च, ददेहि विश्वावसु प्रभो ! क्लीं ।। २१ फल-श्रुति ।। फल-श्रुति ।। इत्येतत् कवचं दिव्यं, साक्षाद् वज्रोपमं परम् । भक्तया पठति यो नित्यं, तस्य कश्चिद्भयं नहि ।। २२ एक-विंशति-श्लोकांश्च, काम-राज-पुटं जपेत् । वश्यं तस्य जगत् सर्वं, सर्व-स्त्री-भुवन-त्रयम् ।। २३ सालंकारां सु-रुपां च, कन्यां दिव्यां लभेन्नरः । विवाहं च भवेत् तस्य, दुःख-दारिद्रयं तं नहि ।। २४ पुत्र-पौत्रादि-युक्तञ्च, स गण्यः श्रीमतां भवेत् । भार्या-प्रीतिर्विवर्धन्ति, वर्धनं सर्व-सम्पदाम् ।। २५ गजाश्वादि-धनं-धान्यं, शिबिकां च बलं तथा । महाऽऽनन्दमवाप्नोति, कवचस्य पाठाद् ध्रुवम् ।। २६ देशं पुरं च दुर्गं च, भूषादि-छत्र-चामरम् । यशः कीर्तिञ्च कान्तिञ्च, लभेद् गन्धर्व-सेवनात् ।। २७ राज-मान्यादि-सम्मानं, बुद्धि-विद्या-विवर्धनम् । हेम-रत्नादि-वस्त्रं च, कोश-वृद्धिस्तु जायताम् ।। २८ यस्य गन्धर्व-सेवा वै, दैत्य-दानव-राक्षसैः । विद्याधरैः किंपुरुषैः, चण्डिकाद्या भयं नहि ।। २९ महा-मारी च कृत्यादि, वेतालैश्चैव भैरवैः । डाकिनी-शाकिनी-भूतैर्न भयं कवचं पठेत् ।। ३० प्रयोगादि-महा-मन्त्र-सम्पदो क्रूर-योगिनाम् । राज-द्वारे श्मशाने च, साधकस्य भयं नहि ।। ३१ पथि दुर्गे जलेऽरण्ये, विवादे नृप-दर्शने । दिवा-रात्रौ गिरौ मेघे, भयं नास्ति जगत्-त्रये ।। ३२ भोजने शयने भोगे, सभायां तस्करेषु च । दुःस्वप्ने च भयं नास्ति, विश्वावसु-प्रसादतः ।। ३३ गजोष्ट्रादि-नखि-श्रृंगि, व्याग्रादि-वन-देवताः । खेचरा भूचरादीनां, न भयं कवचं पठेत् ।। ३४ रणे रोगाः न तं यान्ति, अस्त्र-शस्त्र-समाकुले । साधकस्य भयं नास्ति, सदेदं कवचं पठेत् ।। ३५ रक्त-द्रव्याणि सर्वाणि, लिखितं यस्तु धारयेत् । सभा-राज-पतिर्वश्यं, वश्याः सर्व-कुलांगनाः ।। ३६ रम्भादि-कामिनीः सर्वाः, वश्याः तस्य न संशयः । मदन-पुटितं जप्त्वा जप्त्वा च भग-मालिनीं ।। ३७ भग-भाग्यादि-सिद्धिश्च, वृद्धिः तस्य सदा भवेत् । बाला-त्रिपुर-सुन्दर्या, पुटितं च पठेन्नरः ।। ३८ सालंकारा सुरुपा च, कन्या भार्यास्तु जायतां । बाला प्रौढ़ा च या भार्या, सर्वा-स्त्री च पतिव्रता ।। ३९ गणिका नृप-भार्यादि, जपाद्-वश्यं च जायताम् । शत-द्वयोः वर्णकानां, मन्त्रं तु प्रजपेन्नरः ।। ४० वश्यं तस्य जगत्-सर्वं, नर-नारी-स्व-भृत्य-वत् । ध्यानादौ च जपेद्-भानुं, ध्यानान्ते द्वादशं जपेत् ।। ४१ गायत्री दस-वारं च, जपेद् वा कवच पठेत् । युग्म-स्तोत्रं पठेन्नित्यं, बाला-त्रिपुरा-सुन्दरीम् ।। ४२ कामजं वंश-गोपालं, सन्तानार्थे सदा जपेत् । गणेशास्यालये जप्त्वा, शिवाले भैरवालये ।। ४३ तड़ागे वा सरित्-तीरे, पर्वते वा महा-वने । जप्त्वा पुष्प-वटी-दिव्ये, कदली-कयलालये ।। ४४ गुरोरभिमुखं जप्त्वा, न जपेत् कण्टकानने । मांसोच्छिष्ट-मुखे जप्त्वा, मदिरा नाग-वल्लिका ।। ४५ जप्त्वा सिद्धिमवाप्नोति, भग-भाग्यादि-सम्पदां । देहान्ते स्वर्गमाप्नोति, भुक्त्वा स्वर्गांगना सदा ।। ४६ कल्पान्ते मोक्षमाप्नोति, कैवलं पदवीं न्यसेत् । न देयं यस्य कस्यापि, कवचं दिव्यं दिव्यं पार्वति ।। ४७ गुरु-भक्ताय दातव्यं, काम-मार्ग-रताय च । देयं कौल-कुले देवि ! सर्व-सिद्धिस्तु जायताम् ।। ४८ भग-भाग्यादि-सिद्धिश्च, सन्तानौ सम्पदोत्सवः । विश्वावसु प्रसन्नो च, सिद्धि-वृद्धिर्दिनेदिने ।। ४९ ।। इति श्रीरुद्र-यामले महा-तन्त्र-राजे श्रीपार्वतीश्वर-सम्वादे श्रीविश्वावसु-गन्धर्व-राज-कवच स्तोत्रम् ।। Related