October 2, 2019 | aspundir | Leave a comment ॥ हिमालयराज कृत शैलपुत्री स्तुति ॥ ॥ हिमालय उवाच ॥ मातस्त्वं कृपयागृहे मम सुता जातासि नित्यापि यद्भाग्यं मे बहुजन्मजन्मजनितं मन्ये महत्पुण्यदम् । दृष्टं रूपमिदं परात्परतरां मूर्तिं भवान्या अपि माहेशी प्रति दर्शयाशु कृपया विश्वेशि तुभ्यं नमः ॥ १ ॥ ॥ श्रीदेव्युवाच ॥ ददामि चक्षुस्ते दिव्यं पश्य मे रूपमैश्वरम् । छिन्धि हृत्संशयं विद्धि सर्वदेवमयीं पितः ॥ ॥ श्रीमहादेव उवाच ॥ इत्युक्त्वा तं गिरिश्रेष्ठं दत्त्वा विज्ञानमुत्तमम् । स्वरूपं दर्शयामास दिव्यं माहेश्वरं तदा ॥ शशिकोटिप्रभं चारुचन्द्रार्धकृतशेखरम् । त्रिशूलवर हस्तं च जटामण्डितमस्तकम् ॥ भयानकं घोररूपं कालानलसहस्रभम् । पञ्चवक्त्रं त्रिनेत्रं च नागयज्ञोपवीतिनम् ॥ द्वीपिचर्माम्बरधरं नागेन्द्रकृतभूषणम् । एवं विलोक्य तद्रूपं विस्मितो हिमवान् पुनः ॥ प्रोवाच वचनं माता रूपमन्यत्प्रदर्शय । ततः संहृत्य तद्रूपं दर्शयामास तत्क्षणात् ॥ रूपमन्यन्मुनिश्रेष्ठ विश्वरूपा सनातनी । शरच्चन्द्रनिभं चारुमुकुटोज्ज्वलमस्तकम् ॥ शङ्खचक्रगदापद्महस्तं नेत्रत्रयोज्ज्वलम् । दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ योगीन्द्रवृन्दसंवन्द्यं सुचारुचरणाम्बुजम् । सर्वतः पाणिपादं च सर्वतोऽक्षिशिरोमुखम् ॥ दृष्ट्वा तदेतत्परमं रूपं स हिमवान् पुनः । प्रणम्य तनयां प्राह विस्मयोत्फुल्ललोचनः ॥ ॥ हिमालय उवाच ॥ मातस्तवेदं परमं रूपमैश्वरमुत्तमम् । विस्मितोऽस्मि समालोक्य रूपमन्यत्प्रदर्शय ॥ त्वं यस्य सो ह्यशोच्यो हि धन्यश्च परमेश्वरि । अनुगृह्णीष्व मार्तां कृपया त्वां नमो नमः ॥ ॥ श्रीमहादेव उवाच ॥ इत्युक्ता सा तदा पित्रा शैलराजेन पार्वती । तद्रूपमपि संहृत्य दिव्यं रूपं समादधे ॥ नीलोत्पलदलश्यामं वनमालाविभूषितम् । शङ्खचक्रगदापद्ममभिव्यक्तं चतुर्भुजम् ॥ एवं विलोक्य तद्रूपं शैलानामधिपस्ततः । कृताञ्जलिपुटः स्थित्वा हर्षेण महता युतः ॥ स्तोत्रेणानेन तां देवीं तुष्टाव परमेश्वरीम् । सर्वदेवमयीमाद्यां ब्रह्मविष्णुशिवात्मिकाम् ॥ ॥ हिमालय उवाच ॥ मातः सर्वमयि प्रसीद परमे विश्वेशि विश्वाश्रये, त्वं सर्वं नहि किंचिदस्ति भुवने तत्त्वं त्वदन्यच्छिवे । त्वं विष्णुर्गिरिशस्त्वमेव नितरां धातासि शक्तिः परा, किं वर्ण्यं चरितं त्वचिन्त्यचरिते ब्रह्माद्यगम्यं मया ॥ त्वं स्वाहाखिलदेवतृप्तिजननी विश्वेशि त्वं वै स्वधा, पितॄणामपि तृप्तिकारणमसि त्वं देवदेवात्मिका । हव्यं कव्यमपि त्वमेव नियमो यज्ञस्तपो दक्षिणा, त्वं स्वर्गादिफलं समस्तफलदे देवेशि तुभ्यं नमः ॥ रूपं सूक्ष्मतमं परात्परतरं यद्योगिनो विद्यया, शुद्धं ब्रह्ममयं वदन्ति परमं मातः सुदृप्तं तव । वाचा दुर्विषयं मनोऽतिगमपि त्रैलोक्यबीजं शिवे, भक्त्याहं प्रणमामि देवि वरदे विश्वेश्वरि त्राहिमाम् ॥ उद्यत्सूर्यसहस्रभां मम गृहे जातां स्वयं लीलया, देवीमष्टभुजां विशालनयनां बालेन्दुमौलिं शिवाम् ॥ उद्यत्कोटिशशाङ्ककान्तिनयनां बालां त्रिनेत्रां परां भक्त्या त्वां प्रणमामि विश्वजननीं देवि प्रसीदाम्बिके ॥ रूपं ते रजताद्रिकान्तिविमलं नागेन्द्रभूषोज्ज्वलं, घोरं पञ्चमुखाम्बुजत्रिनयनीमैः समुद्भासितम् । चन्द्रार्धाङ्कितमस्तकं धृतजटाजूटं शरण्ये शिवे, भक्त्याहं प्रणमामि विश्वजननि त्वां त्वं प्रसीदाम्बिके । रूपं ते शारदचन्द्रकोटिसदृशं दिव्याम्बरं शोभनं, दिव्यैराभरणैर्विराजितमलं कान्त्या जगन्मोहनम् । दिव्यैर्बाहचतुष्टयैर्युतमहं वन्दे शिवे भक्तितः, पादाब्जं जननि प्रसीद निखिलब्रह्मादिदेवस्तुते ॥ रूपं ते नवनीरदद्युतिरुचिफुल्लाब्जनेत्रोज्ज्वलं, कान्त्या विश्वविमोहनं स्मितमुखं रत्नाङ्गदैर्भूषितम् । विभ्राजद्वनमालयाविलसितोरस्कं जगत्तारिणि, भक्त्याहं प्रणतोऽस्मि देवि कृपया दुर्गे प्रसीदाम्बिके ॥ मातः कः परिवर्णितुं तव गुणं रूपं च विश्वात्मकं शक्तो देवि जगत्रये बहुगुणैर्देवोऽथवा मानुषः । तत् किं स्वल्पमतिब्रवीमि करुणां कृत्वा स्वकीयैर्गुणै ! मां मोहय मायया परमया विश्वेशि तुभ्यं नमः ॥ अद्य मे सफलं जन्म तपश्च सफलं मम । यत्त्वं त्रिजगतां माता मत्पुत्रीत्वमुपागता ॥ धन्योऽहं कृतकृत्योऽहं मातस्त्वं निजलीलया । नित्यापि मद्गृहे जाता पुत्रीभावेन वै यतः ॥ ॥ इति ॥ Related