August 6, 2019 | aspundir | Leave a comment ॥ मृत्युञ्जयसहस्रनामस्तोत्रम् ॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीभैरव उवाच ॥ अधुना शृणु देवेशि सहस्राख्यस्तवोत्तमम् । महामृत्युञ्जयस्यास्य सारात् सारोत्तमोत्तमम् ॥ विनियोगः- अस्य श्रीमहामृत्युञ्जसहस्रनामस्तोत्र मन्त्रस्य, भैरव ऋषिः, उष्णिक् छन्दः, श्रीमहामृत्युञ्जयो देवता, ॐ बीजं, जूं शक्तिः, सः कीलकं, मम सर्वविधरोगादिशमनपूर्वकं दीर्घायुः प्राप्तये सहस्रनाम पाठे विनियोगः । ऋष्यादिन्यास :- भैरवऋषये नमः (शिरसि ), उष्णिक् छन्दसे नमः । (मुखे), श्रीमहामृत्युञ्जयरुद्रदेवतायै नमः (हृदये), ॐ बीजाय नमः (गुह्ये), जू शक्तये नमः (पादयोः), सः कीलकाय नमः (नाभौ ) विनियोगाय नमः सर्वाङ्गे। कर-हृदयादिन्यासः :- ॐ (अंगु० हृदयाय नम०), जू (तर्जनी० शिरसे० ), सः (मध्यमा० शिखायै०) ॐ ( अना० कवचाय०), जू (कनि० नेत्र०), सः (कर० अस्त्राय० ) ॥ ध्यानम् ॥ उद्यच्चन्द्रसमानदीप्तिममृतानन्दैकहेतुं शिवं, ॐ जूं सः भुवनैकसृष्टिप्रलयोद् भूतैकरक्षाकरम् । श्रीमत्तारदशार्णमण्डिततनुं त्र्यक्षं द्विबाहुं परं, श्रीमृत्युञ्जयमीड्य विक्रमगुणैः पूर्णं हृदब्जे भजे ॥ ॥ भैरव उचाव ॥ ॐ जूं सः हौं महादेवो मन्त्रशो मन्त्रनायकः । (मन्त्रज्ञो मानदायकः) मानी मनोरमाङ्गश्च मनस्वी मानवर्धनः ॥ १ ॥ मायाकर्ता मल्लरूपो मल्लमारान्तको मुनिः । महेश्वरो महामान्यो मन्त्री मन्त्रजनप्रियः ॥ २ ॥ मारुतो मरुतां श्रेष्ठो मासिकः पक्षिकोऽमृतः । मातङ्गको मत्तचित्तो मत्तचिन्मत्तभावनः ॥ ३ ॥ मानवेष्टप्रदो मेशो मेनकापतिवल्लभः । मानकायो मधुस्तेयी मारयुक्तो जितेन्द्रियः ॥ ४ ॥ जयो विजयदो जेता जयेशो जयवल्लभः । डामरेशो विरूपाक्षो विश्वभोक्ता विभावसुः ॥ ५ ॥ विश्वेशो विश्वतातश्च(नाथश्च) विश्वसूर्विश्वनायकः । विनीता विनयी वादी वान्तदो वाक्प्रदो वटुः ॥ ६ ॥ स्थूलः सूक्ष्मश्चलो लोलो लोलजिह्वाकरालकः । वीरध्येयो(विराधेयो) विरागीणो(नो) विलासी लास्यलालसः ॥ ७ ॥ लोलाक्षो लोलधीर्धर्मी धनदो धनदार्चितः । धनी ध्येयोऽप्यध्येयश्च धर्मी(धर्म्यो) धर्ममयोदयः ॥ ८ ॥ दयावान् देवजनको देवसेव्यो दयापतिः । दुर्णिच(डुलिच)क्षुर्दरीवासो दम्भी देवमयात्मकः ॥ ९ ॥ कुरूपः कीर्तिदः कान्तः क्लीबः क्लीबात्मकः कुजः । बुधो विद्यामयः कामी कामकालान्धकान्तकः ॥ १० ॥ जीवो जीवप्रदः शुक्रः शुद्धः शर्मप्रदोऽनघः । शनैश्चरो वेगगतिर्वाचालो राहुरव्ययः ॥ ११ ॥ केतुः कारापतिः कालः सूर्योऽमितपराक्रमः । चन्द्रो भद्र(रुद्र)पतिः भास्वान् भाग्यदो भर्गरूपभृत् ॥ १२ ॥ क्रूरो(कूर्तो) धूर्तो वियोगी च सङ्गी गङ्गाधरो गजः । गजाननप्रियो गीतो गानी स्नानार्चनः प्रियः ॥ १३ ॥ परमः पीवराङ्गश्च पार्वतीवल्लभो महान् । परात्मको विराड्वास्यो(धौम्यः) वानरोऽमितकर्मकृत् ॥ १४ ॥ चिदानन्दी चारुरूपो गारुडो गरुडप्रियः । नन्दीश्वरो नयो नागो नागालङ्कारमण्डितः ॥ १५ ॥ नागहारो महानागो गोधरो गोपतिस्तपः । त्रिलोचनस्त्रिलोकेशस्त्रिमूर्तिस्त्रिपुरान्तकः ॥ १६ ॥ त्रिधामयो लोकमयो लोकैकव्यसनापहः । व्यसनी तोषितः शम्भुस्त्रिधारूपस्त्रिवर्णभाक् ॥ १७ ॥ त्रिज्योतिस्त्रिपुरीनाथस्त्रिधाशान्तस्त्रिधागतिः । त्रिधागुणी विश्वकर्ता विश्वभर्ता त्रिपुरुषः(ऽऽधिपूरुषः) ॥ १८ ॥ उमेशो वासुकिर्वीरो वैनतेयो विचारकृत् । विवेकाक्षो विशालाक्षोऽविधिर्विधिरनुत्तमः ॥ १९ ॥ विद्यानिधिः सरोजाक्षो निःस्मरः स्मरनाशनः । स्मृतिमान् स्मृतिदः स्मार्तो ब्रह्मा ब्रह्मविदां वरः ॥ २० ॥ ब्राह्मव्रती ब्रह्मचारी चतुरश्चतुराननः । चलाचलोऽचलगतिर्वेगी वीराधिपोऽपरः(वरः) ॥ २१ ॥ सर्ववासः(वामः) सर्वगतिः सर्वमान्यः सनातनः । सर्वव्यापी सर्वरूपः सागरश्च समेश्वरः ॥ २२ ॥ समनेत्रः समद्युतिः समकायः सरोवरः । सरस्वान् सत्यवाक् सत्यः सत्यरूपः सुधीः सुखी ॥ २३ ॥ स्वराट् सत्यः सत्यमती रुद्रो रुद्रवपुर्वसुः । वसुमान् वसुधानाथो वसुरूपो वसुप्रदः ॥ २४ ॥ ईशानः सर्वदेवानामीशानः सर्वबोधिनाम् । ईशोऽवशेषोऽवयवी शेषशायी श्रियः पतिः ॥ २५ ॥ इन्द्रश्चन्द्रावतंसी च चराचरजगत्स्थितिः(जगत्पतिः) । स्थिरः स्थाणुरणुः पीनः पीनवक्षाः परात्परः ॥ २६ ॥ पीनरूपो जटाधारी जटाजूटसमाकुलः । पशुरूपः पशुपतिः पशुज्ञानी पयोनिधिः ॥ २७ ॥ वेद्यो वैद्यो वेदमयो विधिज्ञो विधिमान् मृदुः(मृडः) । शूली शुभङ्करः शोभ्यः शुभकर्ता शचीपतिः ॥ २८ ॥ शशाङ्कधवलः स्वामी वज्री शङ्खी गदाधरः । चतुर्भुजश्चाष्टभुजः सहस्रभुजमण्डितः ॥ २९ ॥ स्रुवहस्तो दीर्घकेशो दीर्घो दम्भविवर्जितः । देवो महोदधिर्दिव्यो दिव्यकीर्तिर्दिवाकरः ॥ ३० ॥ उग्ररूपश्चोग्रपतिरुग्र-वक्षास्तपोमयः । तपस्वी जटिलस्तापी तापहा तापवर्जितः ॥ ३१ ॥ हविर्हरो(हरिद्धयो) हयपतिर्हयदो हरिमण्डितः । हरिवाही महौजस्को नित्यो नित्यात्मकोऽनलः ॥ ३२ ॥ समानी(सम्मानी) संसृतिस्त्यागी(र्हारी) सङ्गी(सर्गी) सन्निधिरन्वयः(व्ययः) । विद्याधरो विमानी च वैमानिक वरप्रदः ॥ ३३ ॥ वाचस्पति-वमासारी(र्वसासारो) वामाचारी बलन्धरः । वाग्भवो वासवो वायुर्वासनाबीजमण्डितः ॥ ३४ ॥ वासी कौलशृतिर्दक्षो दक्षयज्ञविनाशनः । दक्षो दौर्भाग्यहा दैत्यमर्दनो भोगवर्धनः ॥ ३५ ॥ भोगी रोगहरो योगी(हेयो) हारी हरिविभूषणः । बहुरूपो बहुमतिर्बहुवित्तो विचक्षणः ॥ ३६ ॥ नृत्तकृच्चित्तसन्तोषो नृत्यगीतविशारदः । शरद्वर्णविभूषाढ्यो गलदग्धोऽघनाशनः ॥ ३७ ॥ नागी नागमयोऽनन्तोऽनन्तरूपः पिनाकभृतः । नटनो कार(हाट)केशानो वरीयांन्वै विवर्णभृत् ॥ ३८ ॥ (झा)साङ्कारटङ्कहस्तश्च पाशी शार्ङ्ग शशिप्रभः । सहस्ररूपी समगुः साधूनामभयप्रदः ॥ ३९ ॥ साधुसेव्यः साधुगतिः सेवाफलप्रदो विभुः । स्वमहा मध्यमो(मद्यपो) मत्तो मन्त्र(मत्त)मूर्तिः सुमन्तकः ॥ ४० ॥ कीलालीलाकरो लूतो(लान्तः) भवबन्धैकमोचनः । रोचिष्णुविच्युत(र्विष्णु)रच्युतऽमूतनो नूतनो नवः(नथः) ॥ ४१ ॥ न्यग्रोधरूपो भयदो भयहाऽभीति(भयहारीति)धारणः । धरणीधरसेव्यश्च धराधरसुतापतिः ॥ ४२ ॥ धराधरोऽन्धकरिपुर्विज्ञानी मोहवर्जितः । स्थाणुः केशो जटी ग्राम्यो ग्रामारामो रमाप्रियः ॥ ४३ ॥ प्रियकृत् प्रियरूपश्च विप्रयोगी प्रतापनः । प्रभाकरः प्रभादीप्तो मन्युमान् अवनीश्वरः(मानवेश्वरः) ॥ ४४ ॥ तीक्ष्णबाहुस्तीक्ष्णकरस्तीक्ष्णांशुस्तीक्ष्णलोचनः । तीक्ष्णचित्तस्त्रयीरूपस्त्रयीमूर्तिस्त्रयीतनुः ॥ ४५ ॥ हविर्भुग् हविषां ज्योतिर्हालाहलो हलीपतिः । हविष्मल्लोचनो हालामयो हरितरूपभृत् ॥ ४६ ॥ भ्रदिमाऽऽभ्रमयो वृक्षो हुताशो हुतभुग् गुणी । गुणज्ञो गरुडो गानतत्परो विक्रमी गुणी(क्रमी) ॥ ४७ ॥ क्रमेश्वरः क्रमकरः क्रमिकृत् क्लान्तमानसः । महातेजा महामारो मोहितो मोहवल्लभः ॥ ४८ ॥ मनस्वी(महस्वी) त्रिदशो बालो वाल्लापतिरघापहः । बाल्यो रिपुहरो हार्यो(हाही) गविर्गविमतो गुणः ॥ ४९ ॥ सगुणो वित्तराट्(ड्) गेयो(वीर्यो) विरोचनो विभावसुः । मालामयो माधवश्च विकर्तनोऽविकत्थनः ॥ ५० ॥ मानकृन्मुक्तिदोऽतुल्यो(मूल्यः) साध्यः(मुख्यः) शत्रुभयङ्करः । हिरण्यरेताः सुभगः सतीनाथः सुरा(सिरा)पतिः ॥ ५१ ॥ मेढ्री मैनाकभगिनीपतिरुत्तमरूपभृत् । आदित्यो दितिजेशानो दितिपुत्रक्षयङ्करः ॥ ५२ ॥ वसुदेवो महाभाग्यो विश्वावसुर्वसुप्रियः । समुद्रोऽमिततेजाश्च खगेन्द्रो विशिखी शिखी ॥ ५३ ॥ गुरुत्मान् वज्रहस्तश्च पौलोमीनाथ ईश्वरः । यज्ञिपेयो वाजपेयः शतक्रतुः शताननः ॥ ५४ ॥ प्रतिष्ठस्तीव्रविस्रम्भी गम्भीरो भाववर्धनः । मा(गा)यिष्ठो मधुरालापो मधुमत्तश्च माधवः ॥ ५५ ॥ मायात्मा भोगिनां त्राता नाकिनामिष्टदायकः । नाकेन्द्रो जनको जन्यः स्तम्भनो रम्भनाशनः ॥ ५६ ॥ शङ्कर(ईशान) ईश्वर ईशः शर्वरीपति शेखरः । लिङ्गाध्यक्षः सुराध्यक्षो वेदाध्यक्षो विचारकः ॥ ५७ ॥ भर्गोऽनर्घ्यो(नर्घो) नरेशानो नरवाहन(नरकांन्तक)सेवितः । चतुरो भविता भावी विरामो(भावदो) रात्रिवल्लभः(भवभीतिहा) ॥ ५८ ॥ भूतेशो महितो रामो विरामो रात्रिवल्लभः । मङ्गलो धरणीपुत्रो धन्यो बुद्धिविवर्धनः ॥ ५९ ॥ जयो जीवेश्वरो जारो जाठरो जह्नुतापनः । जह्नुकन्याधरः कल्पो वत्सरो मासरूपधृत् ॥ ६० ॥ कर्तु(ऋतु)र्ऋभूसुताध्यक्षो विहारी विहगाधिपः । शुक्लाम्बरो नीलकण्ठः शुक्लो भृगुसुतो भगः ॥ ६१ ॥ शान्तः शिवप्रदोऽभेद्यो(भव्यो)ऽभेदकृच्छान्तकृत्पतिः । नाथो दान्तो भिक्षुरूपी दातृ(धन्यो)श्रेष्ठो विशाम्पतिः ॥ ६२ ॥ कुमारः क्रोधनः क्रोधी विरोधी विग्रही रसः । नीरसः सरसः सिद्धो वृषणी वृषघातनः ॥ ६३ ॥ पञ्चास्यः षण्मुखश्चैव विमुखः सुमुखीप्रियः । दुर्मुखो दुर्जयो दुःखी सुखी सुखविलासदः ॥ ६४ ॥ पात्री पौत्री पवित्रश्च भूतात्मा पूतनान्तकः । अक्षरं परमं तत्वं बलवान् बलघातनः ॥ ६५ ॥ भल्ली भौलिर्भवाभावो भावाभावविमोचनः । नारायणो मुक्तकेशो दिग्देवो धर्मनायकः ॥ ६६ ॥ कारामोक्षप्रदोऽजेयो महाङ्गः सामगायनः । तत्सङ्गमो नामकारी चारी स्मरनिसूदनः ॥ ६७ ॥ कृष्णः कृष्णाम्बरः स्तुत्यस्तारावर्णस्त्रपाकुलः । त्रपावान् दुर्गतित्राता दुर्गमो दुर्गघातनः ॥ ६८ ॥ महापादो विपादश्च विपदं नाशको नरः । महाबाहुर्महोरस्को महानन्दप्रदायकः ॥ ६९ ॥ महानेत्रो महादाता नानाशास्त्रविचक्षणः । महामूर्धा महादन्तो महाकर्णो महोरगः ॥ ७० ॥ महाचक्षुर्महानासो महाग्रीवो दिगालयः । दिग्वासा दितिजेशानो मुण्डी मुण्डाक्षसूत्र भृत् ॥ ७१ ॥ श्मशाननिलयोऽरागी महाकटिरनूतनः । पुराणपुरुषोऽपारः परमात्मा महाकरः ॥ ७२ ॥ महालस्यो महाकेशो महोष्ठो मोहनो विराट् । महामुखो महाजङ्घो मण्डली कुण्डली नटः ॥ ७३ ॥ असपत्नः पत्रकरः पात्रहस्तश्च पाटवः । लालसः सालसः सालः कल्पवृक्षश्च कम्पितः ॥ ७४ ॥ कम्पहा कल्पनाहारी महाकेतुः कठोरकः । अनलः पवनः पाठः पीठस्थः पीठरूपकः ॥ ७५ ॥ पाटीनः कुलिशी पीनो मेरुधामा महागुणी । महातूणीरसंयुक्तो देवदानवदर्पहा ॥ ७६ ॥ अथर्वशीर्षः सोम्यास्यः ऋक्सहस्रामितेक्षणः । यजुःसाममुखो गुह्यो यजुर्वेदविचक्षणः ॥ ७७ ॥ याज्ञिको यज्ञरूपश्च यज्ञज्ञो धरणीपतिः । जङ्गमी भङ्गदो भाषादक्षोऽभिगमदर्शनः ॥ ७८ ॥ अगम्यः सुगमः खर्वः खेटी खट्वाननः नयः । अमोघार्थः सिन्धुपतिः सैन्धवः सानुमध्यगः ॥ ७९ ॥ प्रतापी प्रजयी प्रातर्मध्याह्नसायमध्वरः । त्रिकालज्ञः सुगणकः पुष्करस्थः परोपकृत् ॥ ८० ॥ उपकर्तापहर्ता च घृणी रणजयप्रदः । धर्मी चर्माम्बरश्चारुरूपश्चारुविशोषणः ॥ ८१ ॥ नक्तञ्चरःकालवशी वशी वशिवरोऽवशः । वश्यो वश्यकरो भस्मशायी भस्मविलेपनः ॥ ८२ ॥ भस्माङ्गी मलिनाङ्गश्च मालामण्डितमूर्धजः । गणकार्यः कुलाचारः सर्वाचारः सखा समः ॥ ८३ ॥ सुकुरः गोत्रभिद् गोप्ता भीमरूपो भयानकः । अरुणश्चैकचिन्त्यश्च त्रिशङ्कुः शङ्कुधारणः ॥ ८४॥ आश्रमी ब्राह्मणो वज्री क्षत्रियः कार्यहेतुकः । वैश्यः शूद्रः कपोतस्थः त्वष्टा तुष्टो रुषाकुलः ॥ ८५ ॥ रोगी रोगापहः शूरः कपिलः कपिनायकः । पिनाकी चाष्टमूर्तिश्च क्षितिमान् धृतिमांस्तथा ॥ ८६ ॥ जलमूर्तिर्वायुमूर्तिर्हुताशः सोममूर्तिमान् । सूर्यदेवो यजमान आकाशः परमेश्वरः ॥ ८७ ॥ भवहा भवमूर्तिश्च भूतात्मा भूतभावनः । भवः शर्वस्तथा रुद्रः पशुनाथश्च शङ्करः ॥ ८८ ॥ गिरिजो गिरिजानाथो गिरीन्द्रश्च महेश्वरः । गिरीशः खण्डहस्तश्च महानुग्रो गणेश्वरः ॥ ८९ ॥ भीमः कपर्दी भीतिज्ञः खण्डपश्चण्डविक्रमः । खड्गभृत् खण्डपरशुः कृत्तिवासा विषापहः ॥ ९० ॥ कङ्कालः कलनाकारः श्रीकण्ठो नीललोहितः । गणेश्वरो गुणी नन्दी धर्मराजो दुरन्तकः ॥ ९१ ॥ भृङ्गिरीटी रसासारो दयालू रूपमण्डितः । अमृतः कालरुद्रश्च कालाग्निः शशिशेखरः ॥ ९२ ॥ सद्योजातः सुवर्णमुञ्जमेखली दुर्निमित्तहृत् । दुःस्वप्नहृत् प्रसहनो गुणिनादप्रतिष्ठितः ॥ ९३ ॥ शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः । यज्ञरूपो यज्ञमुखो यजमानेष्टदः शुचिः ॥ ९४ ॥ धृतिमान् मतिमान् दक्षो दक्षयज्ञविघातकः । नागहारी भस्मधारी भूतिभूषितविग्रहः ॥ ९५ ॥ कपाली कुण्डली भर्गः भक्तार्तिभञ्जनो विभुः । वृषध्वजो वृषारूढो धर्मवृषविवर्धकः ॥ ९६ ॥ महाबलः सर्वतीर्थः सर्वलक्षणलक्षितः । सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥ ९७ ॥ पवित्रस्त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः । ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ॥ ९८ ॥ पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः । देवासुरविनिर्माता देवासुरपरायण ॥ ९९ ॥ देवासुरगुरुर्देवो देवासुरनमस्कृत् । गुहप्रियो गणसेव्यः पवित्रः सर्वपावनः ॥ १०० ॥ ललाटाक्षो विश्वदेवो दमनः श्वेतपिङ्गलः । विमुक्तिर्मुक्तितेजस्को भक्तानां परमा गतिः ॥ १०१ ॥ देवातिदेवो देवर्षिर्देवासुरवरप्रदः । कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ॥ १०२ ॥ नाथपूज्यः सिद्धनृत्यो नवनाथसमर्चितः । कपर्दी कल्पकृद् रुद्रः सुमना धर्मवत्सलः ॥ १०३ ॥ वृषाकपिः कल्पकर्ता नियतात्मा निराकुलः । नीलकण्ठो धनाध्यक्षो नाथः प्रमथनायकः ॥ १०४ ॥ अनादिरन्तरहितो भूतिदो भूतिविग्रहः । सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ १०५ ॥ युगरूपो महारूपो महागीतो महागुणः । विसर्गो लिङ्गरूपश्च पवित्रः पापनाशनः ॥ १०६ ॥ ईड्यो महेश्वरः शम्भुर्देवसिंहो नरर्षभः । विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ॥ १०७ ॥ सुयुक्तः शोभनो वज्री देवानां प्रभवोऽव्ययः । गुहः कान्तो निजसर्गः पवित्रः सर्वपावनः ॥ १०८ ॥ शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः । देवासुरगणाध्यक्षो नियमेन्द्रियवर्धनः ॥ १०९ ॥ त्रिपुरान्तकः श्रीकण्ठस्त्रिनेत्रः पञ्चवक्त्रकः । कालहृत् केवलात्मा च ऋग्यजुःसामवेदवान् ॥ ११० ॥ ईशानः सर्वभूतामीश्वरः सर्वरक्षसाम् । ब्रह्माधिपतिर्ब्रह्मपतिर्ब्रह्मणोऽधिपतिस्तथा ॥ १११ ॥ ब्रह्मा शिवः सदानन्दी सदानन्तः सदाशिवः । मे-अस्तुरूपश्चार्वङ्गो गायत्रीरूपधारणः ॥ ११२ ॥ अघोरेभ्योऽथघोरेभ्यो घोरघोरतरेभ्यश्च । सर्वतः शर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ॥ ११३ ॥ वामदेवस्तथा ज्येष्ठः श्रेष्ठः कालः करालकः । महाकालो भैरवेशो वेशी कलविकरणः ॥ ११४ ॥ बलविकरणो बालो बलप्रमथनस्तथा । सर्वभूतादिदमनो देवदेवो मनोन्मनः ॥ ११५ ॥ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवे भवे नातिभवे भजस्व मां भवोद्भवः ॥ ११६ ॥ भावनो भवनो भाव्यो बलकारी परं पदम् । परः शिवः परो ध्येयः परं ज्ञानं परात्परः ॥ ११७ ॥ पारावारः पलाशी च मांसाशी वैष्णवोत्तमः । ॐ ऐं ह्रीं श्रीं ह्सौः देवो ॐ श्रीं हौं भैरवोत्तमः ॥ ११८ ॥ ॐ ह्रां नमः शिवायेति मन्त्रो वटुर्वरायुधः । ॐ ह्रीं सदाशिवः ॐह्रीं आपदुद्धारणो मनुः ॥ ११९ ॥ ॐ ह्रीं महाकरालास्यः ॐ ह्रीं बटुकभैरवः । भगवांस्त्र्यम्बक ॐ ह्रीं ॐ ह्रीं चन्द्रार्धशेखरः ॥ १२० ॥ ॐ ह्रीं सञ्जटिलो धूम्रो ॐ ह्रीं त्रिपुरघातनः । ह्रां ह्रीं ह्रुं हरिवामाङ्ग ॐ ह्रीं ह्रूं ह्रीं त्रिलोचनः ॥ १२१ ॥ ॐ वेदरूपो वेदज्ञ ऋग्यजुःसाममूर्तिमान् । रुद्रो घोररवोऽघोरो ॐ क्ष्म्यूं अघोरभैरवः ॥ १२२ ॥ ॐ जूं सः पीयुषसक्तोऽमृताध्यक्षोऽमृतालसः । ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ॥ १२३ ॥ उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । ॐ हौं जूं सः ॐ भूर्भुवः स्वः ॐ जूं सः मृत्युञ्जयः ॥ १२४ ॥ इदं नाम्नां सहस्रं तु रहस्यं परमाद्भुतम् । सर्वस्वं नाकिनां देवि जन्तूनां भुवि का कथा ॥ १२५ ॥ तव भक्त्या मयाख्यातं त्रिषु लोकेषु दुर्लभम् । गोप्यं सहस्रनामेदं साक्षादमृतरूपकम् ॥ १२६ ॥ यः पठेत् पाठयेद्वापि श्रावयेच्छृणुयात् तथा । मृत्युञ्जयस्य देवस्य फलं तस्य शिवे शृणु ॥ १२७ ॥ लक्ष्म्या कृष्णो धिया जीवो प्रतापेन दिवाकरः । तेजसा वह्निदेवस्तु कवित्वे चैव भार्गवः ॥ १२८ ॥ शौर्येण हरिसङ्काशो नीत्या द्रुहिणसन्निभः । ईश्वरत्वेन देवेशि मत्समः किमतः परम् ॥ १२९ ॥ यः पठेदर्धरात्रे च साधको धैर्यसंयुतः । पठेत् सहस्रनामेदं सिद्धिमाप्नोति साधकः ॥ १३० ॥ चतुष्पथे चैकलिङ्गे मरुदेशे वनेऽजने । श्मशाने प्रान्तरे दुर्गे पाठात् सिद्धिर्न संशयः ॥ १३१ ॥ नौकायां चौरसङ्घे च सङ्कटे प्राणसंक्षये । यत्र यत्र भये प्राप्ते विषवह्निभयादिषु ॥ १३२ ॥ पठेत् सहस्रनामाशु मुच्यते नात्र संशयः । भौमावस्यां निशीथे च गत्वा प्रेतालयं सुधीः ॥ १३३ ॥ पठित्वा स भवेद् देवि साक्षादिन्द्रोऽर्चितः सुरैः । शनौ दर्शदिने देवि निशायां सरितस्तटे ॥ १३४ ॥ पठेन्नामसहस्रं वै जपेदष्टोत्तरं शतम् । सुदर्शनो भवेदाशु मृत्युञ्जयप्रसादतः ॥ १३५ ॥ दिगम्बरो मुक्तकेशः साधको दशधा पठेत् । इह लोके भवेद्राजा परे मुक्तिर्भविष्यति ॥ १३६ ॥ इदं रहस्यं परमं भक्त्या तव मयोदितम् । मन्त्रगर्भं मनुमयं न चाख्येयं दुरात्मने ॥ १३७ ॥ नो दद्यात् परशिष्येभ्यः पुत्रेभ्योऽपि विशेषतः । रहस्यं मम सर्वस्वं गोप्यं गुप्ततरं कलौ ॥ १३८ ॥ षण्मुखस्यापि नो वाच्यं गोपनीयं तथात्मनः । दुर्जनाद् रक्षणीयं च पठनीयमहर्निशम् ॥ १३९ ॥ श्रोतव्यं साधकमुखाद्रक्षणीयं स्वपुत्रवत् । ॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये मृत्युञ्जयसहस्रनामं सम्पूर्णम् ॥ Related