Print Friendly, PDF & Email

॥ गायत्री पञ्जर स्तोत्रम् ॥

गायत्री पञ्जर स्तोत्र (Gayatri Panjara Stotram) को नियमित पाठ करने से व्यक्ति की सभी मनोकामनाए पूर्ण होती है गायत्री पञ्जर स्तोत्र पढ़ने से साधना में सफ़लता, अपने शरीर की रक्षा कवच का कार्य करता हैं ! पीपल की छाया (पीपल मूल) में जप करने से राजा का वशीकरण, बिल्व मूल से रूपवान्, पलाश जड़ से विद्या, सूर्य के सम्मुख जपने से तेज, पुत्री की अभिलाषा के लिये देवी मन्दिर में, लक्ष्मी की कामना के लिये श्री विष्णु भगवान् के मन्दिर में आरोग्य की कामना के लिये स्वयं के घर में, मोक्ष की आकांक्ज़ा के लिये पर्वत पर तथा सभी कार्यों की कामना पूर्ति के लिये भगवान् विष्णु के मन्दिर में जप करने से अभीष्ट फल की प्राप्ति होती है।
नारदजी ने जिस ब्रह्म स्वरुप का दर्शन किया था उसका वर्णन श्लोक १ से ४ तक है ।


॥ श्रीगणेशाय नमः ॥
भगवन्तं देव-देवं ब्रह्माणं परमेष्ठिनम् ।
विधातारं विश्व-सृजं पद्म-योनिं प्रजापतिम् ॥ १ ॥
शुद्ध-स्फटिक-सङ्काशं महेन्द्र-शिखरोपमम् ।
बद्ध-पिङ्ग-जटाजूटं (जटाजूटा) तडित्कनककुण्डलम् ॥ २ ॥
शरच्चन्द्राभ-वदनं स्फुरदिन्दीवरेक्षणम् ।
हिरण्मयं विश्व-रूपमुपवीताजिनावृतम् ॥ ३ ॥
मौक्तिकाभाक्ष-वलयस्तन्त्रीलय समन्वितः ।
कर्पूरोद्धूलिततनुः स्रष्टुर्नयन-वर्द्धनम् ॥ ४ ॥
विनयेनोपसङ्गम्य शिरसा प्रणिपत्य च ।
नारदः परिपप्रच्छ देवर्षिगणमध्यगः ॥ ५ ॥
॥ नारद उवाचः ॥
भगवन् देव-देवेश सर्वज्ञ करुणानिधे ।
श्रोतुमिच्छामि प्रश्नेन भोग-मोक्षैकसाधनम् ॥ ६ ॥
ऐश्वर्यस्य समग्रस्य फलदं द्वन्द्ववर्जितम् ।
ब्रह्म-हत्यादि-पापघ्नं पापाद्यरिभयापहम् ॥ ७ ॥
यदेकं निष्कलं सूक्ष्मं निरञ्जनमनामयम् ।
यत्ते प्रियतमं लोके तन्मे ब्रूहि पितर्मम ॥ ८ ॥
॥ ब्रह्मोवाच ॥
श्रृणु नारद वक्ष्यामि ब्रह्ममूलं सनातनम् ।
सृष्ट्यादौ मन्मुखे क्षिप्तं देवदेवेन विष्णुना ॥ ९ ॥
प्रपञ्च-बीजमित्याहुरुत्पत्ति-स्थिति-हेतुकम् ।
पुरा मया तु कथितं कश्यपाय सुधीमते ॥ १० ॥
सावित्रीपञ्जरं नाम रहस्यं निगमत्रये ।
ऋष्यादिकं च दिग्वर्णं साङ्गावरणकं क्रमात् ॥ ११ ॥
वाहनायुध मन्त्रास्त्रं मूर्ति-ध्यान-समन्वितम् ।
स्तोत्रं श्रृणु प्रवक्ष्यामि तव स्नेहाश्च नारद ॥ १२ ॥
ब्रह्म-निष्ठाय देयं स्याददेयं यस्य कस्यचित् ।
आचम्य नियतः पश्चादात्म-ध्यानपुरः सरम् ॥ १३ ॥
ओमित्यादौ विचिन्त्याथ व्योम-हेमाब्ज-संस्थितम् ।
धर्म-कन्द-गत-ज्ञानमैश्वर्याष्ट-दलान्वितम् ॥ १४ ॥
वैराग्य-कर्णिकाऽऽसीनां प्रणव-ग्रह-मध्यगाम् ।
ब्रह्म-वेदि-समायुक्तां चैतन्य-पुर-मध्यगाम् ॥ १५ ॥
तत्त्व-हंस-समाकीर्णां शब्द-पीठे सुसंस्थिताम् ।
नाद-बिन्दु-कलातीतां गोपुरैरुप-शोभिताम् ॥ १६ ॥
विद्याविद्या-मृतत्वादि प्रकारैरभि संवृताम् ।
निगमार्गल-सञ्च्छन्नां निर्गुण-द्वार-वाटिकाम् ॥ १७ ॥
चतुर्वर्गं फलोपेतां महाकल्प वनैवृताम् ।
सान्द्रानन्द (साद्रानन्द) सुधा-सिन्धु निगम द्वारवाटिकाम् ॥ १८ ॥
ध्यान-धारण योगादि-तृण-गुल्म-लता-वृताम् ।
सद-सच्चित्स्वरूपाख्यां (सच्चित्स्वरूपाख्य) मृग-पक्षि-समाकुलाम् ॥ १९ ॥
विद्याविद्या-विचारत्वाल्लोकालोका चलावृताम् ।
अविकार-समाश्लिष्ट-निज-ध्यान गुणावृताम् ॥ २० ॥
पञ्ची-करण पञ्चोत्थ-भूत-तत्त्व-निवेदिताम् ।
वेदोपनिषदर्थाख्य देवर्षि-गण-सेविताम् ॥ २१ ॥
इतिहास-ग्रह-गणैः सदारैरभि-वन्दिताम् ।
गाथाप्सरोभिर्यक्षैश्च गणकिन्नर सेविताम् ॥ २२ ॥
नारसिंह पुराणाख्यैः पुरुषैः कल्पचारणैः ।
कृतगान-विनोदादि कथालापनतत्पराम् ॥ २३ ॥
तदित्यवाङ्मनोगम्य तेजोरूपधरां पराम् ।
जगतः प्रसवित्रीं तां सवितुः सृष्टिकारिणीम् ॥ २४ ॥
वरेण्यमित्यन्नमयीं पुरुषार्थ-फल-प्रदाम् ।
अविद्या-वर्ण-वर्ज्यां च तेजोवद्गर्भ-संज्ञिकाम् ॥ २५ ॥
देवस्य सच्चिदानन्द-पर-ब्रह्म-रसात्मिकाम् ।
धीमह्यहं स वै तद्वद् ब्रह्माद्वैत-स्वरूपिणीम् ॥ २६ ॥
धियो यो नस्तु सविता प्रचोदयादुपासिताम् ।
परोऽसौ सविता साक्षादेनोनिर्हरणाय च ॥ २७ ॥
परो रजस इत्यादि परं ब्रह्म सनातनम् ।
आपो ज्योतिरिति द्वाभ्यां पाञ्च-भौतिक-संज्ञकम् ॥ २८ ॥
रसोऽमृतं (रसोकतं) ब्रह्मपदैस्तां नित्यां तपिनीं पराम् ।
भूर्भुवः सुव(सुर)-रित्येतैर्निगमत्व प्रकाशिकाम् ॥ २९ ॥
महर्जनस्तपः सत्य-लोकोपरि सुसंस्थिताम् ।
तादृगस्या विराङ्रुपरहस्यं प्रवदाम्यहम् (विराङ्रुपकिरीटवरराजिताम्) ॥ ३० ॥
व्योमकेशालकाकाशद्यो किरीटवरराजिताम्
(व्योमकेशालकाकाशरहस्यं प्रवदाम्यहम्)
मेघ-भ्रुकुटिमाक्रान्तविधि विष्णुशिवार्चिताम् ॥ ३१ ॥
गुरु-भार्गव-कर्णान्तां सोम-सूर्याग्नि-लोचनाम् ।
इडा-पिङ्गल-सूक्ष्माभ्यां वाम(वायु)नासापुटान्विताम् ॥ ३२ ॥
सन्ध्याद्विरोष्ठ-पुटितां लसद्वाग्भूपजिह्विकाम् ।
सन्ध्यासौ द्युमणेः कण्ठलसद्बाहु समन्विताम् ॥ ३३ ॥
पर्जन्य-हृदयासक्त वसु-सुस्तन-मण्डलाम् ।
आकाशोदर वित्रस्तनाभ्यवान्तर-देशिकाम् ॥ ३४ ॥
प्रजापत्याख्यजघनां कटीन्द्राणीति संज्ञिकाम् ।
ऊरू मलय-मेरुभ्यां शोभमानाऽसुरद्विषाम् ॥ ३५ ॥
जानुनी जह्नुकुशिक वैश्वदेव-सदाभुजाम् ।
अयन-द्वय-जङ्घाद्य सुरा(खुरा)द्यपितृसंज्ञिकाम् ॥ ३६ ॥
पदाङ्घ्रिनखरोमाणि(द्य) भूतलद्रुम लाञ्छिताम् ।
ग्रह-राश्यर्क्षदेवर्षि-मूर्तिं च परसंज्ञिकाम् ॥ ३७ ॥
तिथि-मासर्तु वर्षाख्यसुकेतु निमिषात्मिकाम् ।
अहोरात्रार्द्धमासाख्यां सूर्य-चन्द्र-मसात्मिकाम् ॥ ३८ ॥
माया-कल्पित वैचित्र्य-सन्ध्याच्छादन सम्वृताम् ।
ज्वलत्कालानल-प्रख्यां तडित्कोटि समप्रभाम् ॥ ३९॥
कोटि-सूर्य-प्रतीकाशां चन्द्र-कोटि-सुशीतलाम् ।
सुधा-मण्डल-मध्यस्थां सान्द्रानन्दाऽमृतात्मिकाम् ॥ ४० ॥
वाग(प्राग)तीतां मनोरम्यां वरदां वेदमातरम् ।
चराचर-मयीं नित्यां ब्रह्माक्षर समन्विताम् ॥ ४१ ॥
(विनियोग एवं ध्यान श्लोक ४२ से ५१ तक हैं)
ध्यात्वा स्वात्मनि भेदेन ब्रह्मपञ्जरमारभेत्(ब्रह्मपञ्जरमारभे)
पञ्जरस्य ऋषिश्चाहं छन्दो विकृतिरुच्यते ॥ ४२ ॥
देवता च परो हंसः परब्रह्माधिदेवता ।
प्रणवो बीजशक्तिः स्यादों कीलकमुदाहृतम् ॥ ४३ ॥
तत्तत्त्वं धीमहि क्षेत्रं धियोऽस्रं यत् परं पदम् ।
मन्त्रमापो ज्योतिरिति योनिर्हंसः सवेधकम्(सबन्धकम्) ॥ ४४ ॥
विनियोगस्तु सिद्धयर्थं पुरुषार्थ-चतुष्टये ।
ततस्तैरङ्गषट्कं स्यात्तैरेव व्यापक-त्रयम् ॥ ४५ ॥
पूर्वोक्तदेवतां ध्यायेत् साकार-गुण संयुताम् ।
पञ्च-वक्त्रां दश-भुजां त्रिपञ्च-नयनैर्युताम् ॥ ४६ ॥
मुक्ताविद्रुम-सौवर्णां सित-शुभ्र-समाननाम् ।
वाणीं परां रमां मायां चामरैर्दर्पणैर्युताम् ॥ ४७ ॥
षडङ्ग-देवता-मन्त्रै रूपाद्यवयवात्मिकाम् ।
मृगेन्द्र वृष(मृग) पक्षीन्द्र-मृग-हंसासने स्थिताम् ॥ ४८ ॥
(ऊ)र्धेन्दु-बद्ध-मुकुट-किरीट-मणि-कुण्डलाम् ।
रत्न-ताटङ्कामाङ्गल्यपरग्रैवेयनूपुराम् ॥ ४९ ॥
अङ्गुलीयक-केयूर कङ्कणाद्यै(कङकणाघै)रलङ्कृताम् ।
दिव्य-स्रग्वस्त्र सञ्च्छन्न-रवि-मण्डल-मध्यगाम् ॥ ५० ॥
वराभयाब्ज-युगलां शङ्ख-चक्र-गदाङ्कुशाम् ।
शुभ्रं कपालं दधतीं वहन्तीमक्ष-मालिकाम् ॥ ५१ ॥
गायत्रीं वरदां देवीं सावित्रीं वेदमातरम् ।
आदित्य पथ-गामिन्यां(पथगां नित्यां) स्मरेद्ब्रह्मस्वरूपिणीम् ॥ ५२ ॥
विचित्र-मन्त्र-जननीं स्मरेद्विद्यां सरस्वतीम् ।
त्रिपदा ऋषिङ्मयी पूर्वामुखी ब्रह्मास्त्र-संज्ञिका ॥ ५३ ॥
चतुर्विंशति-तत्त्वाख्या पातु प्राचीं दिशं मम ।
चतुष्पाद यजुर्ब्रह्म-दण्डाख्या पातु दक्षिणाम् ॥ ५४ ॥
षट्त्रिंश-त्तत्त्व-युक्ता सा पातु मे दक्षिणां दिशम् ।
प्रत्यङ्मुखी पञ्च-पदी पञ्चाश-त्तत्त्वरूपिणी ॥ ५५ ॥
पातु प्रतीचीमनिशं साम-ब्रह्मशिरोऽङ्किता ।
सौम्या ब्रह्म-स्वरूपाख्या साथर्वाङ्गि-रसात्मिका ॥ ५६ ॥
उदीचीं षट्पदा पातु चतुः षष्टि-कलात्मिका ।
पञ्चाश-त्तत्त्व-रचिता भवपादा शताक्षरी ॥ ५७॥
व्योमाख्या पातु मे चोर्ध्वां दिशं वेदाङ्ग-संस्थिता ।
विद्युन्निभा ब्रह्म-संज्ञा मृगारूढा चतुर्भुजा ॥ ५८॥
चापेषुचर्मासिधरा पातु मे पावकीं दिशम् ।
ब्राह्मी कुमारी गायत्री रक्ताङ्गी हंसवाहिनी ॥ ५९ ॥
बिभ्रत्कमण्डल्वक्षस्रक्स्न्नुवान्मे(स्रक्स्त्रुवान्मे) पातु नैऋतीम् ।
चतुर्भुजा वेदमाता शुक्लाङ्गी वृषवाहिनी ॥ ६० ॥
वराभय-कपालाक्ष-स्रग्विणी पातु वारुणीम् ।
श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना ॥ ६१॥
शङ्खार्य(शङ्खारा)ब्जाभयकरा पातु शैवीं दिशं मम ।
चतुर्भुजा वेदमाता गौराङ्गी सिंहवाहना ॥ ६२ ॥
वराभयाब्जयुगलैर्भुजैः पात्व-धरां(परां) दिशम् ।
तत्तत्पार्श्वस्थिताः स्वस्ववाहनायुध-भूषणाः ॥ ६३ ॥
स्वस्वदिक्षु स्थिताः पान्तु ग्रह-शक्त्यङ्ग-देवताः ।
मन्त्राधिदेवता रूपा मुद्राधिष्ठान देवता ॥ ६४ ॥
व्यापकत्वेन पात्वस्मानादतलमस्तकम्(पात्वस्मानापहृत्तलमस्तकी)
तत्पदं मे शिरः पातु भालं मे सवितुः पदम् ॥ ६५ ॥
वरेण्यं मे दृशौ पातु श्रुतीर्भगः(भर्गः) सदा मम ।
घ्राणं देवस्य मे पातु पातु धीमहि मे मुखम् ॥ ६६ ॥
जिह्वां मम धियः पातु कण्ठं मे पातु यः पदम् ।
नः पदं पातु मे स्कन्धौ भुजौ पातु प्रचोदयात् ॥ ६७ ॥
करौ मे च पराः पातु पादौ मे रजसोऽवतु ।
ॐ मे नाभिं सदा पातु कटिं मे पातु मे सदा
(असौ मे हृदयं पातु मम मध्यं सदावतु ) ॥ ६८ ॥
ओमापः सक्थिनी पातु गुह्यं ज्योतिः सदा मम ।
ऊरू मम रसः पातु जानुनी अमृतं मम ॥ ६९ ॥
जङ्घे ब्रह्म-पदं पातु गुल्फौ भूः पातु मे सदा ।
पादौ मम भुवः पातु सुवः पात्वखिलं वपुः ॥ ७०॥
रोमाणि मे महः पातु रोमकं पातु मे जनः ।
प्राणश्च धातुतत्त्वानि तदीशः पातु मे तपः ॥ ७१ ॥
सत्यं पातु ममायूंषि हंसो वृद्धिं(शुद्धिं) च पातु मे ।
शुचिषत्पातु मे शुक्रं वसुः पातु श्रियं मम ॥ ७२ ॥
मतिं पात्वन्तरिक्षे सद्धोता दानं च पातु मे ।
वेदिषत् पातु मे विद्यामतिथिः पातु मे गृहम् ॥ ७३ ॥
धर्मं दुरोणसत् पातु नृषत् पातु सुतान्मम ।
वरसत् पातु मे भार्यां(माया) मृतसत् पातु मे सुतान् ॥ ७४ ॥
व्योमसत्पातु मे बन्धून् भ्रातॄनब्जाश्च पातु मे ।
पशून्मे पातु गोजाश्च ऋतजाः पातु मे भुवम् ॥ ७५ ॥
सर्वं मे अद्रिजाः पातु यानं मे पातवृतं सदा ।
अनुक्तमथ यत्स्थानं शरीरेऽन्तर्बहिश्च यत् ॥ ७६ ॥
तत्सर्वं पातु मे नित्यं हंसः सोऽहमहर्निशम् ।
॥ माहात्म्य ॥
इदं तु कथितं सम्यङ् मया ते ब्रह्मपञ्जरम् ॥ ७७ ॥
सन्ध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ।
धारयेद्द्विजवर्यो यः श्रावयेद्धा समाहितः ॥ ७८ ॥
स विष्णुः स शिवः सोऽहं सोऽक्षरः स विराट् स्वराट् ।
शताक्षरात्मकं देव्यानामाष्टाविंशतिः शतम् ॥ ७९ ॥
श्रृणु वक्ष्यामि तत्सर्वमतिगुह्यं सनातनम् ।
भूतिदा भुवना वाणी वसुधा सुमना मही ॥ ८० ॥
हरिणि जननी नन्दा सविसर्गा तपस्विनी ।
पयस्विनी सती त्यागा वैन्दवी सत्यवीरसा ॥ ८१ ॥
विश्वा तुर्य परा रेच्या निर्घृणी यमिनी भवा ।
गोवेद्या च जरिष्ठा च स्कन्दिनी धीर्मतिर्हिमा ॥ ८२ ॥
भीषणा योगिनी यक्षी नदी प्रज्ञा च चोदिनी ।
धनिनी यामिनी पद्मा रोहिणी रमणी ऋषिः ॥ ८३ ॥
सेनामुखी सामयी च वकुला दोष-वर्जिता ।
सर्व-काम-दुघा सोमोद्भावाहङ्कार-वर्जिता ॥ ८४ ॥
द्विपदा च चतुष्पदा त्रिपदा चैकषट्पदा ।
अष्टापदी नवपदी सा सहस्त्राक्षरात्मिका ॥ ८५ ॥
इदं यः परमं गुह्यं सावित्री-मन्त्र-पज्जरम् ।
नामाष्ट-विंशति-शतं श्रृणुयाच्छावयेत्पठैत् ॥ ८६ ॥
॥ फल-श्रुति ॥
मर्त्यानाममृतत्वाय भीतानाम-भयाय च ।
मोक्षाय च मुमुक्षूणां श्रीकामानां निये सदा ॥ ८७ ॥
विजयाय युयुत्सूनां व्याधितानामरोगकृत् ।
वश्याय वश्यकामानां विद्यायैवेदकामिनाम ॥ ८८ ॥
द्रविणाय दरिद्राणां पापिनां पापशान्तये ।
वादिनां वादिविजये कवीनां कविताप्रदम् ॥ ८९ ॥
अन्नाय क्षुधितानां च स्वर्गायनाममिच्छताम् ।
पशुभ्यः पशुकामानां पुत्रेभ्यः पुत्रकांक्षिणाम ॥ ९० ॥
क्लेशिनां शोकशान्त्यर्थं नृणां शत्रुभयाय च ।
राजवश्याय दृष्टव्यं पञ्जरं नृपसेविनाम् ॥ ९१ ॥
भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ।
नायकं विधिसृष्टानां शान्तये भवति ध्रुवम् ॥ ९२ ॥
निः स्पृहाणां नृणां मुक्तिः शाश्वती भवति ध्रुवम् ।
जप्यं त्रिवर्ण-संयुक्तं गृहस्थेन विशेषतः ॥ ९३ ॥
मुनीनां ज्ञानसिद्धयर्थं यतीनां मोक्षसिद्धये ।
उद्यन्तं चन्द्र-किरणमुपस्थाय कृताञ्जलिः ॥ ९४ ॥
कानने वा स्वभवने तिष्ठञ्छुद्धो जपेदिदम् ।
सर्वान्कामानवाप्नोति तथैव शिवसन्निधौ ॥ ९५ ॥
मम प्रीतिकरं दिव्यं विष्णु-भक्ति-विवर्द्धनम् ।
ज्वरार्त्तानां कुशाग्रेण मार्जयेत्कुष्ठरोगिणाम् ॥ ९६ ॥
अमङ्गमङ्गं यथालिङ्गं कवचेन तु साधक: ।
मण्डलेन विशुद्ध्येत् सर्वरोगैनै संशय ॥ ९७ ॥
मृतप्रजा च या नारी जन्मवन्ध्या तथैव च ।
कन्यादिवन्ध्या या नारी तासामङ्गं प्रमार्जयेत् ॥ ९८ ॥
पुत्रानरोगिणस्तास्तु लभन्ते दीर्घजीविनः ।
तास्ताः संवत्सरादर्वाग्गर्भन्तु दधिरे पुनः ॥ ९९ ॥
पतिविद्वेषिणी या स्त्री अङ्गं तस्याः प्रमार्जयेत् ।
तमेव भजते सा स्त्री पतिं कामवश नयेत् ॥ १०० ॥
अश्वत्थे राजवश्यार्थं बिल्वमूले स्वरूपभाक् ।
पलाशमूले विद्यार्थी तेजसाभिमुखो रवौ ॥ १०१ ॥
कन्यार्थी चण्डिकागेहे जपेच्छत्रुभयाय च ।
श्रीकामो विष्णुगेहे च उद्याने श्रीवशी भवेत् ॥ १०२ ॥
आरोग्यार्थे स्वगेहे व मोक्षार्थी शैलमस्तके ।
सर्वकामो विष्णुगेहे मोक्षार्थी यत्र कुत्रचित् ॥ १०३ ॥
जपारम्भे तु हृदयं जपान्ते कवचं पठेत् ।
किमत्र बहुनोक्तेन श्रृणु नारद तत्त्वतः ।
यं यं चिन्तयते नित्यं तं तं प्राप्नोति निश्चितम् ॥ १०४ ॥
॥ ॐ तत्सत श्रीमद् वसिष्ठ संहितायां ब्रह्म-नारद संवादे श्रीमद् सावित्री-पञ्जर-स्तोत्रं ॥

पाठान्तर कोष्टकों में भिन्न रङ्ग में दर्शाये गये हैं

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.