May 22, 2019 | aspundir | Leave a comment ॥ श्रीराधा अष्टोत्तरशतनामस्तोत्रम् ॥ ॥ ईश्वर उवाच ॥ अथास्याः सम्प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् । यस्य सङ्कीर्तनादेव श्रीकृष्णं वशयेद् ध्रुवम् ॥ १ ॥ राधिका सुन्दरी गोपी कृष्णसङ्गमकारिणी । चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा ॥ २ ॥ वीणापाणिः स्मितमुखी रक्ताशोकलतालया । गोवर्धनचरी गोप्या गोपीवेषमनोहरा ॥ ३ ॥ चन्द्रावलीसपत्नी च दर्पणास्या कलावती । कृपावती सुप्रतीका तरुणी हृदयङ्गमा ॥ ४ ॥ कृष्णप्रिया कृष्णसखी विपरीतरतिप्रिया । प्रवीणा सुरतप्रीता चन्द्रास्या चारुविग्रहा ॥ ५ ॥ केकराक्षी हरेः कान्ता महालक्ष्मी सुकेलिनी । सङ्केतवटसंस्थाना कमनीया च कामिनी ॥ ६ ॥ वृषभानुसुता राधा किशोरी ललिता लता । विद्युद्वल्ली काञ्चनाभा कुमारी मुग्धवेशिनी ॥ ७ ॥ केशिनी केशवसखी नवनीतैकविक्रया । षोडशाब्दा कलापूर्णा जारिणी जारसङ्गिनी ॥ ८ ॥ हर्षिणी वर्षिणी वीरा धीरा धारा धरा धृतिः । यौवनस्था वनस्था च मधुरा मधुराकृतिः ॥ ९ ॥ वृषभानुपुरावासा मानलीलाविशारदा । दानलीला दानदात्री दण्डहस्ता भ्रुवोन्नता ॥ १० ॥ सुस्तनी मधुरास्या च बिम्बोष्ठी पञ्चमस्वरा । सङ्गीतकुशला सेव्या कृष्णवश्यत्वकारिणी ॥ ११ ॥ तारिणी हारिणी ह्रीला शीला लीला ललामिका । गोपाली दधिविक्रेत्री प्रौढा मुग्धा च मध्यका ॥ १२ ॥ स्वाधीनपतिका चोक्ता खण्डिता याभिसारिका । रसिका रसिनी रस्या रसशास्त्रैकशेवधिः ॥ १३ ॥ पालिका लालिका लज्जा लालसा ललनामणिः । बहुरूपा सुरूपा च सुप्रसन्ना महामतिः ॥ १४ ॥ मरालगमना मत्ता मन्त्रिणी मन्त्रनायिका । मन्त्रराजैकसंसेव्या मन्त्रराजैकसिद्धिदा ॥ १५ ॥ अष्टादशाक्षरफला अष्टाक्षरनिषेविता । इत्येतद्राधिकादेव्या नाम्नामष्टोत्तरं शतम् ॥ १६ ॥ कीर्तयेत्प्रातरुत्थाय कृष्णवश्यत्वसिद्धये । एकैकनामोच्चारेण वशीभवति केशवः ॥ १७ ॥ ॥ इत्यूर्ध्वाम्नाये श्रीराधाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe